"मैसूरु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ur:میسور; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mysore.jpg|300px|thumb|'''मैसूरुप्रासदः''']]मैसूरुनगरं [[कर्णाटक]]प्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । [[कर्णाटक]]स्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।
मैसूरुनगरम् सागतस्तरतः २५२५ पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरवंशजाः नगरस्य अभिवृध्दिकार्याणि उत्तमतया कृतवन्तः सन्ति ।
इदानीं मैसूरुनगरे विशालाः मार्गाः उन्नतानि सुन्दराणि भवनानि सुन्दराणि उद्यानानि देवस्थानानि विद्यालयाः च सन्ति । पूर्वकालतः राजगृहं, जगन्मोहनकलासङ्ग्रहालयः, प्राणिसङ्ग्रहालयः, कलासंस्कृतिस्थानानि च नगरस्य सौन्दर्यं वर्धयन्तः सन्ति ।
 
==मैसूरुराजगृहम्==
एतत् राजगृहम् १९१२ तमे क्रिस्ताब्दे निर्मितम् । अस्य विस्तारः ३० हेक्टेर् मितः । इण्डो- सारसनिक् शैल्यां रचितमस्ति । अर्धगोलाकारकाणि, चतुरस्राकारकाणि गोपुराणि अतीव- सौन्दर्यकारकाणि सन्ति । रचनायां प्यारिसनगरे स्थितेन वर्सेलेराजगृहेण स्पर्धते । त्रिभिः अट्टैः युक्तम् राजगृहम् । अत्र पञ्चस्तरीयाणि शिखराणि सन्ति ।
राजगृहे दर्शकाणां कृते सर्वत्र शिल्पानां सुन्दरवर्णचित्राणाम् अद्भुतं दर्शनं भवति । राजगृहावरणे एव देवालयाः सन्ति । मैसूरुनगरस्य मध्यभागे एव एतत् राजगृहम् अस्ति । ओडेयर् वंशजैः निर्मितम् राजगृहम् एतत् सर्वेषां जनानाम् आनन्ददायकम् अस्ति ।
इदानीं राजगृहस्य दर्शनाय समयः निर्दिष्टः अस्ति । अन्तः अनेकेषां चित्राणां वस्तूनां च दर्शनं शक्यते । अन्तः एव कश्चन सुन्दरवस्तूनां सङ्ग्रहालयः अस्ति । राजगृहस्य पुरतः विशालं प्राङ्गणम् अस्ति । राजगृहप्रवेशार्थं त्रीणि महाद्वाराणि सन्ति । प्रतिदिनं सहस्रशः जनाः अत्र आगच्छन्ति ।
राजगृहस्य सहस्रशः विद्युट्टीपैः अलङ्कारः कृतः भवति । रात्रौ दीपालङ्कारे सति दर्शनम् अतीव आनन्दाय भवति । नवरात्रिसमये दीपालङ्कारः अपि प्रेक्षकाणां एकम् आकर्षणम् अस्ति । सम्पूर्ण भवनम् कलासंस्कृति दर्शकम् अस्ति ।
राजगृहे २०० किलो भारभूतं सुवर्णासिंहासनं वैभवयुतम् अस्ति । महाभारतकालिकं सिंहासनं विजयनगरराजैः प्राप्तम् । अनन्तरं क्रिस्ताब्दे १६३० तमे वर्षे मैसूरु ओडेयर् वशे आगतम् अस्ति । सिंहासनस्य भागेषु वज्राणि योजितानि सन्ति । स्वर्णछत्रमपि अद्भुतम् अस्ति । दसरापर्वसमये सिंहासनस्य दर्शनं कर्तुं शक्यते ।
 
मैसूरनगरं राजगृहाणां नगरम् इति प्रसिद्धम् । अत्र राजमार्गाः इव मार्गाः सन्ति । वास्तुशिल्पानि अतीव सुन्दराणि । तीर्थक्षेत्राणाम् अपेक्षया मैसूरुनगरे प्रेक्षणीयानि अनेकानि स्थानानि सन्ति । राजगृहस्य आवरणे एव अनेके देवालयाः सन्ति । तेषु भुवनेश्वरी- तृणेश्वरगायत्री(१९४९)-श्वेतवराह-प्रसन्नकृष्णलक्ष्मीरमणदेवालयाः प्राचिनतमाः सन्ति ।
राजगृहे स्थितः आत्मविलासविनायकः अत्यन्तम् अद्भुतः क्वचिदेव दृश्यते च । आवारस्य बहिर्भागे दक्षिणपार्श्वे स्थितः बृहदाञ्जनेयमन्दिरं, सुब्बरायदासमन्दिरम् अतीव सुन्दरम् । ओण्टिकोप्पलु प्रदेशे स्थितं लक्ष्मीवेङ्कटरमणमन्दिरं (१९३७) ,चामुण्डीपर्वते स्थितः (महबलाचलः) भोगानरसिंहदेवालयः च दर्शनीयाः सन्ति ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्