"मैसूरु" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
मैसूरुनगरम् सागतस्तरतः २५२५ पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरवंशजाः नगरस्य अभिवृध्दिकार्याणि उत्तमतया कृतवन्तः सन्ति ।
इदानीं मैसूरुनगरे विशालाः मार्गाः उन्नतानि सुन्दराणि भवनानि सुन्दराणि उद्यानानि देवस्थानानि विद्यालयाः च सन्ति । पूर्वकालतः राजगृहं, जगन्मोहनकलासङ्ग्रहालयः, प्राणिसङ्ग्रहालयः, कलासंस्कृतिस्थानानि च नगरस्य सौन्दर्यं वर्धयन्तः सन्ति ।
==मैसूरुराजगृहम्==
[[File:Mysore palace night.jpg|thumb|300px|right|दीपालङ्कृतः राजप्रासादः]]
एतत् राजगृहम् १९१२ तमे क्रिस्ताब्दे निर्मितम् । अस्य विस्तारः ३० हेक्टेर् मितः । इण्डो- सारसनिक् शैल्यां रचितमस्ति । अर्धगोलाकारकाणि, चतुरस्राकारकाणि गोपुराणि अतीव- सौन्दर्यकारकाणि सन्ति । रचनायां प्यारिसनगरे स्थितेन वर्सेलेराजगृहेण स्पर्धते । त्रिभिः अट्टैः युक्तम् राजगृहम् । अत्र पञ्चस्तरीयाणि शिखराणि सन्ति ।
राजगृहे दर्शकाणां कृते सर्वत्र शिल्पानां सुन्दरवर्णचित्राणाम् अद्भुतं दर्शनं भवति । राजगृहावरणे एव देवालयाः सन्ति । मैसूरुनगरस्य मध्यभागे एव एतत् राजगृहम् अस्ति । ओडेयर् वंशजैः निर्मितम् राजगृहम् एतत् सर्वेषां जनानाम् आनन्ददायकम् अस्ति ।
|