"मैसूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
मैसूरनगरं राजगृहाणां नगरम् इति प्रसिद्धम् । अत्र राजमार्गाः इव मार्गाः सन्ति । वास्तुशिल्पानि अतीव सुन्दराणि । तीर्थक्षेत्राणाम् अपेक्षया मैसूरुनगरे प्रेक्षणीयानि अनेकानि स्थानानि सन्ति । राजगृहस्य आवरणे एव अनेके देवालयाः सन्ति । तेषु भुवनेश्वरी- तृणेश्वरगायत्री(१९४९)-श्वेतवराह-प्रसन्नकृष्णलक्ष्मीरमणदेवालयाः प्राचिनतमाः सन्ति ।
राजगृहे स्थितः आत्मविलासविनायकः अत्यन्तम् अद्भुतः क्वचिदेव दृश्यते च । आवारस्य बहिर्भागे दक्षिणपार्श्वे स्थितः बृहदाञ्जनेयमन्दिरं, सुब्बरायदासमन्दिरम् अतीव सुन्दरम् । ओण्टिकोप्पलु।ओण्टिकोप्पलु प्रदेशे स्थितं लक्ष्मीवेङ्कटरमणमन्दिरं (१९३७) ,चामुण्डीपर्वते स्थितः (महबलाचलः) भोगानरसिंहदेवालयः च दर्शनीयाः सन्ति ।
मैसूरुनगरे विजयदशमी दिने विश्वविख्यातः जम्बूसवारीनामकः महोत्सवः भवति । ततःपूर्वं नवदिनानि यावत् नवरात्रिपर्व राजगृहे वैभवेन आचरितं भवति नवदिनेषु नगरे नृत्यसङ्गीतनाटक -चलनचित्रादिनाम् महोत्सवः भवति । राजगृहेऽपि सायङ्काले सङ्गीतकार्यक्रमाः भवन्ति ।
विजयदशमीदिने मैसूरुनगराधिदेवतायाः चामुण्डेश्वर्याः उत्सवमूर्तेः शोभायात्रा भवति । गजस्य उपरि स्थिते ‘अम्बारी’नामके मण्डपे देवी चामुण्डेश्वरी विराजमाना भवति । पूर्वम् ओडेयर् वंशीयाः एतं महोत्सवम् आचरन्ति स्म । इदानीम् अपि आरम्भे ते एव पूजां कुर्वन्ति । अनन्तरम् [[कर्णाटकम्|कर्णाटकराज्यस्य]] मुख्यमन्त्री अपि पूजां कृत्वा विजयदशमीयात्रायाः आरम्भं कारयति ।
बन्नीमण्डपपर्यन्तम् (बन्निमण्डपं नगरे विद्यमानं प्रसिद्धं स्थानम्) वैभवयुता यात्रा प्रचलति । सर्वभागतः स्तब्धचित्राणि जानपदनृत्यप्रकाराणि यात्रामहोत्सवस्य सौन्दर्यं वर्धयन्ति । मध्याह्ने यात्रामहोत्सवम् अनेकलक्षजनाः पश्यन्ति । रात्रौ अपि विविधाः कार्यक्रमाः आयोजिताः भवन्ति ।
राजगृहसमीपे फलपुष्पप्रदर्शनं वस्तुप्रदर्शनं च अतीव सुन्दरतया आयोजितं भवन्ति । मैसूरुनगरे सर्वत्र सुन्दरालङ्कारः भवति । देशविदेशेभ्यः जनाः मैसूरुनगरम् आगत्य आनन्दमनुभवन्ति ।
 
 
[[चामुण्डीपर्वतः]] (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च ।
चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति ।[[चित्रम्:ChamundeshwariTemple.jpg|thumb|'''चमुण्डेश्वरिमन्दिरम्''']]
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्