"मैसूरु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
 
==चामुण्डीपर्वतः==
[[चामुण्डीपर्वतः]] (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च । सागरस्तरतः १०५० मीटर् उन्नतप्रदेशे मैसूरुनगरस्य किरीटस्रहशः प्रवतप्रदेशः एषः अस्ति । मैसूरु ओडॆयर् वंशीयानां कुलदेवतायाः वनदेवतायाः श्री चामुण्डेश्वर्याः निवासस्थानम् श्री चामुण्डेश्वरीदेवालयः अत्र अस्ति । उन्नतं गोपुरम् अतीव आकर्षकं च अस्ति । पर्वतस्य उपरि शिवदेवालयः अपि अस्ति । चामुण्डीपर्वतात् मैसूरुनगरस्य विहङ्गमदृश्यम् अतीव मनमोहकम् अस्ति
चामुण्डीपर्वतप्रदेशं गन्तु १३ कि.मी यावत् वाहनमार्गेण गन्तव्यम् अस्ति । पर्वतमध्ये एकशिला निर्मितः कश्चन बृहन्नन्दीविग्रहः अतीव आकर्षकः (१८ पादपरिमितोन्नतः) अस्ति । अस्मात् प्रदेशात् सम्पूर्णं मैसूरुनगरम् दृष्टुं शक्यते ।
चामुण्डीपर्वतप्रदशे महिषासुरस्य महती प्रतिमा सुन्दरतया स्थापिता अस्ति । अत्र प्रतिदिनम् सहस्रशः जनाः आगच्छन्ति । विविधाः आपणाः सन्ति । नवरात्रिसमये चामुण्डीपर्वतप्रदेशे देवालये विशेषपूजाः उत्सवाः च भवन्ति । गमनागमनसमये अपूर्वं प्रकृतिसौन्दर्यं दृष्टुं शक्यते । मैसूरुनगरतः वाहनव्यवस्था उत्तमा अस्ति ।
चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति ।[[चित्रम्:ChamundeshwariTemple.jpg|thumb|'''चमुण्डेश्वरिमन्दिरम्''']]
[[File:Mahisha.jpg|thumb|right|300px|महिषासुरः]]
पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।
मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम्।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्