"मैसूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।
मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम्।
 
[[File:Jaganmohan Palace.JPG|thumb|left|300px|जगन्मोहनकलालयः]]
मैसूरुप्रदेशे पूर्वं गङ्ग-चोल-विजयनगर-होय्सल-ओडेयरवंशीयानां प्रशासनम् आसीत् । [[नाल्वडि कृष्णराज ओडेयरः]] अत्यन्तम् प्रसिद्धः राजा आसीत् । मैसूरुनगरे नवरात्रिमहोत्सवः वैभवेण आचरितः भवति । विजयदशम्याः दिने आचर्यमाणः दसरामहोत्सवः [[मैसूरुदसरा]] इत्येव प्रसिद्धः| देव्याः चामुण्डेश्वरयाः सुवर्णमण्डपे उत्सवः भवति। स तु विश्वविख्यातः पर्वविशेषः। लक्षाधिकजनाः देशविदेशेभ्यः अस्मिन्नवसरे मैसूरनगरम् आगच्छन्ति गजस्योपरि देव्याः चामुण्डेश्वर्याः विशेषयात्रा भविष्यति । नगरे विविधाः मनोरञ्जनकार्यक्रमाः प्रचलन्ति । राज्यसर्वकारेण उत्सवः आचर्यते । [[कर्णाटक]]राज्यस्य [[मुख्यमन्त्री]] उत्सवे भागं स्वीकरोति । मैसूरुसमीपे [[रङ्गनतिट्टुपक्षिधाम]] अस्ति [[चित्रम्:Mysore Painting.jpg|left|thumb|'''मैसूरुचित्रशैली''']]
मैसूरुनगरे दर्शनीयानि अनेकस्थानानि सन्ति । तेषु जगन्मोहनप्यालेस्, चित्रशाला, मृगालयः, रेल्वेम्युसियम् ललितमहल् सेंटफिलोमीनाचर्च, मानसगङ्गोत्री, वस्तुसंग्रहालयः श्रीगन्धतैलकार्यागारः, दुकूलवस्त्रनिर्माणकार्यागारः, मैसूरुराजगृहं प्रमुखानि। मृगालये दिसद्द्स्रजातीयाः पशुपक्षिणः सन्ति ।
==जगन्मोहनकलाशाला==
[[File:Jaganmohan Palace.JPG|thumb|left|300px|जगन्मोहनकलालयः]]
[[चित्रम्:Mysore Painting.jpg|right|thumb|'''मैसूरुचित्रशैली''']]
एषः चित्रकला सङ्ग्रहालयः मैसूरुप्रदेशस्य विविध चित्रकाराणां कलाकृतीनाम् प्रदर्शनालयः अस्ति । ओडेयर् वंशीयानाम् सुन्दराणि चित्राणि विविधानि वस्तूनि च सुव्यवस्थितानि सन्ति । मैसूरुराजगृहस्य समीपे एव एतदस्ति ।
तण्डुले दशावतारचित्राणि, वाद्यानां सङ्ग्रहः, आयुधानां सङ्ग्रहः विविधगृहोपयोगिवस्तूनां सङ्ग्रहः विशिष्टानि घटीयन्त्राणि, रविवर्मणः सुन्दरचित्राणि, मैसूरु ओडेयर् वंशीयानां प्रशासनसम्बन्धीचित्राणि, दसरावैभवस्य चित्राणि विदेशीयानि विविधानि वस्तूनि आकर्षकाणि सन्ति । नवरात्रिसमये अत्र विशेषसङ्गीतकार्यक्रमाः भवन्ति ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्