"मैसूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
चामुण्डीपर्वतप्रदेशं गन्तु १३ कि.मी यावत् वाहनमार्गेण गन्तव्यम् अस्ति । पर्वतमध्ये एकशिला निर्मितः कश्चन बृहन्नन्दीविग्रहः अतीव आकर्षकः (१८ पादपरिमितोन्नतः) अस्ति । अस्मात् प्रदेशात् सम्पूर्णं मैसूरुनगरम् दृष्टुं शक्यते ।
चामुण्डीपर्वतप्रदशे महिषासुरस्य महती प्रतिमा सुन्दरतया स्थापिता अस्ति । अत्र प्रतिदिनम् सहस्रशः जनाः आगच्छन्ति । विविधाः आपणाः सन्ति । नवरात्रिसमये चामुण्डीपर्वतप्रदेशे देवालये विशेषपूजाः उत्सवाः च भवन्ति । गमनागमनसमये अपूर्वं प्रकृतिसौन्दर्यं दृष्टुं शक्यते । मैसूरुनगरतः वाहनव्यवस्था उत्तमा अस्ति ।
चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति ।[[चित्रम्:ChamundeshwariTemple.jpg|thumb|right|300px220px|'''चमुण्डेश्वरिमन्दिरम्''']]
[[File:Mahisha.jpg|thumb|left|300px220px|महिषासुरः]]
पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।
मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम्।
पङ्क्तिः ३२:
मैसूरुनगरे दर्शनीयानि अनेकस्थानानि सन्ति । तेषु जगन्मोहनप्यालेस्, चित्रशाला, मृगालयः, रेल्वेम्युसियम् ललितमहल् सेंटफिलोमीनाचर्च, मानसगङ्गोत्री, वस्तुसंग्रहालयः श्रीगन्धतैलकार्यागारः, दुकूलवस्त्रनिर्माणकार्यागारः, मैसूरुराजगृहं प्रमुखानि। मृगालये दिसद्द्स्रजातीयाः पशुपक्षिणः सन्ति ।
==जगन्मोहनकलाशाला==
[[File:Jaganmohan Palace.JPG|thumb|left|300px220px|जगन्मोहनकलालयः]]
[[चित्रम्:Mysore Painting.jpg|right|thumb|220px|'''मैसूरुचित्रशैली''']]
एषः चित्रकला सङ्ग्रहालयः मैसूरुप्रदेशस्य विविध चित्रकाराणां कलाकृतीनाम् प्रदर्शनालयः अस्ति । ओडेयर् वंशीयानाम् सुन्दराणि चित्राणि विविधानि वस्तूनि च सुव्यवस्थितानि सन्ति । मैसूरुराजगृहस्य समीपे एव एतदस्ति ।
तण्डुले दशावतारचित्राणि, वाद्यानां सङ्ग्रहः, आयुधानां सङ्ग्रहः विविधगृहोपयोगिवस्तूनां सङ्ग्रहः विशिष्टानि घटीयन्त्राणि, रविवर्मणः सुन्दरचित्राणि, मैसूरु ओडेयर् वंशीयानां प्रशासनसम्बन्धीचित्राणि, दसरावैभवस्य चित्राणि विदेशीयानि विविधानि वस्तूनि आकर्षकाणि सन्ति । नवरात्रिसमये अत्र विशेषसङ्गीतकार्यक्रमाः भवन्ति ।
==वृन्दावनोद्यानम्==
[[File:Mysore 4.jpg|thumb|left|300px220px|वृन्दावनोद्यानस्थम् उत्सः]]
[[File:Brindavan Garden Fountains in Night.jpg|thumb|right|300px220px|सुन्दरम् उत्सः]]
मैसूरुतः १२ कि.मी .दूरे कावेरीनद्याः कृते [[कन्नम्बाडीजलबन्धः]] निर्मितः अस्ति । कन्नम्बाडीजलबन्धेन कृष्णराजसागरजलाशयः निर्मितः अस्ति । तत्र वुन्दावनोद्यानम् विश्वप्रसिद्धम् अस्ति ।
मैसूरुनगरस्य वायव्यदिशि १२ कि.मी दूरे वृन्दावनोद्यानम् अतीव सुन्दरम् अस्ति । [[कावेरी]]नद्याः [[कन्नम्बाडीजलबन्धः]] नाल्वडिकृष्णराज ओडेयर् महोदयेन निर्मितः अस्ति। प्रख्यातः अभियन्ता [[मोक्षगुण्डं विश्वेश्वरय्यः]] एतस्य निर्माणं कृतवान् ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्