"मैसूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
सायङ्काले सङ्गीतेन साकम् आधुनिकरीत्या सुन्दरोत्ससां विलासः द्रष्टुं शक्यः । दीपप्रकाशैः विविधैः वर्णैः साकं जलस्य लीला अपूर्वा अस्ति । अत्रैव जलकुम्भहस्तायाः कावेरीमातुः मूर्तिः स्थापिता अस्ति । कुम्भात् जलं निरन्तरं पतति ।
वृन्दावनोद्यानं गन्तुं वाहनव्यवस्थास्ति ।
 
==मैसूरुनगरे दर्शनीयानि इतरस्थानानि==
मैसूरुनगरम् प्राचीननगरेषु अन्यतमम् अस्ति । अत्र धूमशकटसङ्ग्रहालयः, ललितमहल (अधुना उपहारवसतिगृहम्), सन्तफिलोमिना चर्च (प्रार्थनामन्दिरम्), प्राचीनशैल्या निर्मितानि भवनानि, श्वेतवराह-त्रिनयनेश्वर-गायत्री-भुवनेश्वरी-आञ्जनेयदेवालयाः प्रख्याताः सन्ति । श्रीचामराजेन्द्रमृगालयः अतीव आकर्षकः अस्ति ।
===किष्किन्धामूलिकावनम्===
मैसूरुनगरात् बहिः श्री गणपतिसच्चिदानन्दाश्रमः अपूर्वः अस्ति । मैसूरुनञ्जनगूडुमार्गे सुन्दरम् बोन्साईवनम् अस्ति विस्तृते वने त्रिवर्षतः त्रिशतवर्षप्राचीनाः सस्यविशेषाः २५० संङ्ख्याकाः सन्ति । सर्वेकुब्जसस्यविशेषाः ।
एतान् [[सिङ्गपूर]] [[मलेशिया]] [[इण्डोनेशिया]] [[वेस्ट् इन्डिस्]] दैशैः आनीय स्थापितवन्तः । द्विशतवर्षप्राचीनकाले चीनाजापानदेशेषु बोन्सायीसस्यवर्धनम् प्रसिध्दमासीत् । लघुगृहेषु अपि कुम्भेषु एतेषां वर्धनं कर्तुं शक्यते । सस्यानां वयसः आधारेण मूल्यं भवति । सस्येषु बुञ्जिन् साईकाई, पेन्झिङ्ग् इत्यादयः सन्ति ।
===विश्वं वस्तुसङ्ग्रहालयः===
एषः अपि श्री गणपतिसाच्चिदानन्दाश्रमस्य कश्चन भागः । विश्वस्य भक्तैः सगौरवम् दत्तैः उपायनैः एषः सङ्ग्रहालयः पूरितः अस्ति । अत्र अनेकविभागाः अपि सन्ति । गणपतिप्रपञ्चः प्राचीनप्रपञ्चः, आश्चर्यकरप्रपञ्चः चारित्रिकप्रपञ्चः एतिहासिकप्रपञ्चः, आध्यात्मिकप्रपञ्चः सांस्कृतिकप्रपञ्चः क्रिस्टल प्रपञ्चः इत्यादयः ।
गणपतिप्रपञ्चे प्रदर्शितः गणपतिविग्रहः पूर्वं पाकिस्तानदेशे [[कराची]]नगरे आसीत् । [[उज्बेकिस्तानन्|उज्बेकिस्तानतः]] मूर्तिकृते शिला आनीता आसीत् इति । चन्द्रस्य शिलाखण्डः अपि अत्र अस्ति । इतरगणेशविग्रहाः क्रिस्टल् शिलाभिः निर्मिताः । रुद्राक्षवृक्षस्य शारवापि अत्र अस्ति । एकमुखरुद्राक्षतः पञ्चमुखरुद्राक्षाः सन्ति ।
अत्र मूल्याङ्कानां सङ्ग्रहः अपूर्वः अस्ति । फ्रेञ्चजनानां ब्रह्ममूल्याङ्कः, डैनोसारस् शिशोः शिरोभागयुक्तः मूल्याङ्कः इत्यादयः मूल्याङ्केषु अपूर्वाणि चित्राणि सन्ति । क्रिस्टल शिलाभिनिर्मितः काळिङ्गमर्दनविग्रहः अतीव बृहत् सुन्दरः च अस्ति पूर्वराष्टाध्यक्षः [[आर् वेङ्कटरामन्]] एतानि दत्तवान् ।
अतिबृहत् वर्णचित्रं वामनावतारस्य चित्रं तञ्चावूरुशैल्या निर्मितम् । सङ्गीतवाद्यवादकानां समूहः सप्तस्वरदेवताः , बृहत् प्रवालमणिः , सूर्यकान्तमणिः इत्यादीनि अमूल्यानि वस्तूनि अत्र सन्ति ।
प्रदर्शन समयः प्रातः ९वादनतः ११.३०, सायं-४ तः ७.३० मार्ग मैसुरु ऊटी मार्गः
 
 
 
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्