"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः।
स्पष्टः स्यात्; द्व्यर्थितां निवार्य तिष्ठेत्, न तत्र दुरवगमनं स्यात्। तर्कसम्मता तस्य संरचना भवितव्या, सरला स्पष्टा च तस्य गद्यभाषा स्यात्; अनुपयोगिपदानि तत्र न स्युः।
'''मनोरमोऽपि स्यात्'''- तस्य भाषा वर्णनात्मिका स्यात्, स्वरश्च तस्य रुचिकरः विश्वकोशार्हश्च स्यात्।
 
'''भाषायाः प्रामाणिकरूपम् अनुसरेत्''', नाम तस्मिन् व्याकरणसम्मतता स्यात्। लकाराणां प्रयोगः समः स्यात्। विरामचिह्नानि, आनुपूर्व्यः, पदविन्यासाश्च समाः स्युः।
'''(निर्मीयमानं पृष्ठम्...)'''
 
'''सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः'''- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)।
 
सुतरां वर्गीकृतः स्यात् येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्।
 
यथाशक्यं अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः।
 
न पूर्णतया सम्प्राप्तुं शक्यते। सम्पादनेभ्यः लेखः कश्चित् सर्वाङ्गपूर्णत्वम् उपगन्तुं शक्नोति, परन्तु भिन्नेभ्यः प्रयोक्तॄभ्यः सर्वाङ्गपूर्णत्वम् इत्येतस्य भिन्नोऽर्थः स्यात्। तस्मात् सर्वाङ्गपूर्णः लेखः
प्राप्तुं सदा प्रयतितव्यम् इति।
 
[[वर्गः:विकिपीडिया-साहाय्यम्]]