"प्लूटो-ग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Dwarf Planet-Pluto.jpg|thumb|'''प्लूटोग्रहः (यमः)''']]
प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने '''यमः''' इति निर्दिश्यते । अयं ग्रहः १९३० तमे वर्षे क्लैड् टाम्बाग् अन्विष्टवान् । सौरकुटुम्बे नवमः ग्रहः इति निर्दिश्यते । अस्य ग्रहस्य विस्तारः १८०० मैल्-परिमितः । अस्य ग्रहस्य '''षरान्'''नामकः उपग्रहः अस्ति । स्वस्य परिभ्रमणाय अयं ग्रहः ९ घण्टाधिक ६ दिनानि स्वीकरोति । सूर्यं परितः भ्रमणाय २४७.७ वर्षाणि स्वीकरोति । लोवेल्ल [[१९१५]] तमे संवत्सरे नूतन ग्राहान्वेषणाय अपेक्षित गणितं कृतवान्। अस्य कालाय क्लिष्टानि नूतनसूत्राणि अनेन अर्पितानि। अज्ञात ग्राहाय एक्स्(x)इति नामस्थापनमकरोत्। अस्य अन्वेषणे मग्नाः इति। एतदर्थमेव एकं दूरदर्षकं निर्मितवन्तः। लोवेल्ल वीक्षणालयस्थाः अस्य आषयं पूरितवन्तः। [[१९३०]] तमे संवत्सरे [[जनेवरि]] मासस्य २१,२३,२९ तथा [[फेब्बर्वरि]] मासस्य १९ तमे दिनेषु पूरितवन्तः। अस्यैव वीक्षणालयस्थाः स्वीकृत छायाचित्रेषु नूतन ग्रहमेकं दृष्टवन्तः। एते यदा अस्य पथस्य अनुसरणं कृतवन्तः,तदा अयं ग्रहः पर्सिपेल् लोवेल्ल् सूचित मार्गे एव परिक्रमति इत्यस्मिन् विशये ज्ञातवन्तः। अस्मै एव यमः(प्लोटो)इति नामकरणमकरोत् । अस्य संशोधनान्तरं पूर्वतन छायाचित्राणां परिशीलनेन एवं अस्यैव ग्रहस्य बिम्बः तत्रापि अस्ति इति हेतोः, अस्य पथस्य निष्कर्षस्य कार्यं सुलभतरं जातम्। आकाशे प्रत्येकस्मिन् अङ्गुले विद्यमान प्रकाशसहित [[नक्षत्रम्|नक्षत्राणां]] शोधनं उत नामकरणकार्यं असाध्यकरकार्ये भवतः। तेषां छायाचित्राणि भवन्ति चेत्, ईदृश संशोधन कार्याणि सूलभकार्याणि भवन्ति इति अस्याः घटनायाः अनन्तरं ज्ञातं भवति। लोवेल् १९१६ तमे संवत्सरे दिवङ्गतः। किन्तु अस्य मरणकालात् एकसंवत्सरात् पूर्वमेव अस्यैव शिष्यः क्लैव टाम्बागाय प्रथमवारं दृष्टिगोचरः सञ्जातः यमग्रहः(प्लोटो) इति। लोवेल् सूचित स्थलाय ६ डिग्रि समीपे दृष्टिगोचरः सञ्जातः। एरिजोनायां विद्यमानाः लोवेल् वीक्षणालयस्थाः [[१९३०]] तमे संवत्सरीय [[मार्च]] मासस्य १३ दिनाङ्के अमुम विषयं लोकाय दर्षितवन्तः। शैत्यकाले अयं ग्रहः मिथुन रशौ नक्षत्रपरिमाणे दृश्यते। क्रमशः सम्भूयमानस्य प्रकाशस्य व्यत्यासान् परिशील्य एवं अतिसूक्ष्म छायाचित्राणि परिशील्य च [[१९७८]] तमे संवत्सरे अमेरिका देशस्य जेम्स् क्रिस्ट्मि (प्लोटो)यमस्य विद्यमान एकैक '''शेरान्''' नामक उपग्रहं संशोधितवान्।
प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने '''यमः''' इति निर्दिश्यते । अयं ग्रहः १९३० तमे वर्षे क्लैड् टाम्बाग् अन्विष्टवान् । सौरकुटुम्बे नवमः ग्रहः इति निर्दिश्यते । अस्य ग्रहस्य विस्तारः १८०० मैल्-परिमितः । अस्य ग्रहस्य '''षरान्'''नामकः उपग्रहः अस्ति । स्वस्य परिभ्रमणाय अयं ग्रहः ९ घण्टाधिक ६ दिनानि स्वीकरोति । सूर्यं परितः भ्रमणाय २४७.७ वर्षाणि स्वीकरोति ।
==पथः,गात्राम्==
[[भूमिः|भूमेरर्धं]] अस्य व्यासोऽस्ति। [[सूर्यः|सूर्याय]] एकवारं परिक्रमणार्थम् अस्मै २४८ वर्षाणि अपेक्षन्ते इति। [[सूर्यः|सूर्यात्]] बहुदूरे अयमस्तीति एतावान् कालः अपेक्षते इति। एवं दीर्घपथस्यापि कारणत्वं अस्त्यत्र। अस्य वेगः प्रतिक्षणं ३ कि.मि. भवति। अस्य विदूरं ४,६५० मिलीय मैलुपरिमितम्। अदूरं ३,५०० कि.मि. परिमितम् अस्ति। पथस्य अग्रभागः वरुणस्य पथे प्रविश्य सरति। अस्य पथः [[वरुणः|वरुणपथाय]] १७ डिग्रि अभिनतः अस्ति । यमग्रहः(प्लोटो) [[भूमिः|भूमेः]] इव घनगोलः भवति। [[सूर्यः|सूर्यात्]] बहुदूरे अस्तीति अस्मै प्राप्तिप्रकाशः प्रायः अस्माकं मासानां प्रकाशपरिमित दुर्बलप्रकाशः स्यात्। अत्र शाखप्रकाशौ न्यूनौ भवतः। [[भूमिः|भूम्यै]] [[सूर्यः|प्राप्तिसूर्यरश्मेः]] १\१५०० भागः अस्मै लभ्येत। यमस्यापेक्षया बहिः अन्यग्रहाः सन्ति वा? इति चेत्, प्रो.पिकरिङ्ग् (१८४६-१९१९) सदृशाः खगोलज्ञाः अन्यग्रहाः सन्ति बहिः इति ऊहितवन्तः।
 
 
[[वर्गः:नवग्रहाः]]
"https://sa.wikipedia.org/wiki/प्लूटो-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्