"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

(लघु)
r2.7.2) (Robot: Adding no:Bal Gangadhar Tilak
(लघु) (The file Image:B._G._Tilak.gif has been removed, as it has been deleted by commons:User:Fastily: ''Per commons:Commons:Deletion requests/File:B. G. Tilak.gif''. ''Translate me!'')
(लघु) (r2.7.2) (Robot: Adding no:Bal Gangadhar Tilak)
<small>''This article has to be merged with [[बालगङ्गाधरतिलकः]]''</small>
 
{{Infobox person
| name = लोकमान्य केशव् बालगङ्गाधरतिलकः
| image = Bal G. Tilak.jpg
| caption =
| other_names = लोकमान्य् तिलक
| birth_date = {{Birth date|1856|07|23|df=yes}}
| death_date = {{Death date and age|1920|08|01|1856|07|23|df=yes}}
| birth_place = [[Ratnagiri]], [[महाराष्ट्रम्]], [[भारतम्]]
| death_place = [[मुम्बई]], [[भारतम्]]
| movement = [[Indian Independence Movement]]
| organization = [[कांग्रेस्]]
}}
<small>''This article has to be merged with [[बालगङगाधरतिलकः]]''</small>
{{निर्वाचित लेख}}
<br>
<br>
[[चित्रं:Bal G. Tilak.jpg|thumb|right|बालगङ्गाधरतिलकः]]
बालगङ्गधरतिलकः (मराठी: बाळ गंगाधर टिळक) महाराष्ट्रे रत्नगिरिमण्डले चिखल् नाम्नि ग्रामे जातः । षड्पञ्चाशदुत्तराष्टादशशततमे (१८५६) वर्षे जुलैमासस्य त्रयोविंशति दिनाङ्के जन्म लेभे । रामचन्द्रतिलकः तस्य पिता प्रसिध्दः गणितव्याकरण्शास्त्रपण्डितः, विमर्शकश्च । माता पार्वतीबाई । पितेव अयमपि महान् गणितक्याकरणपण्डितः। विद्यार्थिदशायामेव देशसेवातत्परः अभवत् । न्यायशास्त्रेऽपि पट्ट्भद्रो जातः तिलक्महाशयः । पुण्यपत्तने कतिचन वर्षाणि गणितशास्त्रे अद्यापकत्वेन आसीत् सः । तिलक् महाशयः मराठिभाषया केसरी इति, आङ्ग्लभाषया मराठा इति च पत्रिकाद्वयं प्राकाशयत् । स्वीयान् अभिप्रायान् जनबाहुल्ये प्रचारितवान् । स्वपत्रिकायां स्वराज्यमाहात्म्यं, स्वातन्त्र्यस्य आवश्यकताञ्च स्वेच्छया निर्भीत्या स्पष्टीकृतवान् । स्वातन्त्र्यं मम् जन्मसिद्ध: अधिकारः इति अगर्जत् । निरन्तरम् उद्यमशीलं तं पाश्चात्याः भारतीयानाम् असन्तोषजनकः इति अभिवर्णितवन्तः।
 
द्विनवत्युत्तराष्टादशशततमे (१८९२) वर्षे लण्डन् नगरे विद्वत्सम्मेलनम् अभवत् । तत्र वेदानां प्रचीनताम् अधिकृत्य पत्रमेकं समर्पितवान् । शर्मण्य- (जर्मन्) देशीयभाषाशास्त्रपण्डितः माक्स्मुल्लर् अमुं बहुधा प्रशंसितवान् । त्रिणवत्युत्तराष्टादशशततमे(१८९३) वर्षे शिवाजिजयन्तीम्होत्सवं गणेशचतुर्थी महोत्सवञ्च देशीयानां सङ्घीभावाय प्रचालयत् । उत्सवकारणेन प्रजानां परस्परस्नेहभावः वृध्दिं प्राप्नोतु इति तस्य आशयः। १८९६-९७ वत्सरेषु महाराष्ट्रे साङ्क्रामिकरोगेभ्यः, दुर्भिक्षात् च् जनान् रक्षितुं सदीक्षामध्यतिष्टत् । तिलक्- महाशयस्य कीर्तिं प्रतिष्टाञ्च सोढुं असहमानाः अभवन् आङ्ग्लपालकाः । अतः १९०८ तमे वर्षे तं माण्डले कारागृहे निर्बध्दवन्तः । षड्वर्षाणि कारागृहे अतिष्टत् । कारागृहेऽपि सः निरन्तरं ग्रन्थपठनेन ग्रन्थलेखनेन च कालं यापयति स्म । तत्रैव गीतारहस्यनाम्ना भगवद्गीतायाः व्याख्यानं महाराष्ट्र्भाषया अलिखत् ।
 
वेदकालसम्बध्दैः विषयैः "आर्यन्" नामकं ग्रन्थमपि अरचयत् सः। सर्वतोमुखप्रतिभावन्तं तिलकमहाशयं जनाः 'लोकमान्य' बिरुदेन सम्मनितवन्त:। १-८-१९२० तमे दिने तिलकमहाशयः भौतिककायं परित्यक्त्वान् । तेन उक्ताः स्वदेशवस्तुस्वीकारः, विदेशवस्तुबहिष्कारः, स्वदेशीयाशिक्षाप्रणाली, स्वराज्यसंस्थापनम् इत्याद्याः अंशाः इदानीमपि अस्माभि: अवश्याचरणीयाः । एतादृशः देशभक्तः तिलकमहाशय: अस्माकं प्रातः स्मरणीयः अस्ति। स्वातन्त्र्यं मम जन्मसिद्ध: अधिकारः इत्यपि तेन उद्घोषितम् । एतादृशीं स्फूर्तिं स्वीकृत्य वयमपि देशसेवां कुर्याम |
==बुध्दिमानेव किन्तु==
बालस्य पिता गङ्धर रामचन्द्र तिलकः | सः उत्तमः संस्कृतविद्वान् | प्रसिध्दः अध्यापकश्च् | तस्य् विद्वत्तां ज्ञात्वा जनाः तं गौरवेण गङ्गाधरपन्त इति व्यवहरन्ति स्म | बालः सर्वानपि पाठान् स्व्पितुअः समीपे एव अभ्यस्तवान् | अतः पाठशालां गत्वा पठितुं किमपि नावशिष्टम् |
बालः यथा बुध्दिमान् तथा दौष्ट्य्मपि करोति स्म | तेन कारणेनैव अध्यापकेभ्यः बालो न रोचते स्म् | बालस्य् बाल्यतः अपि स्वतन्त्राः विचाराः आसन् | सर्वदा सः स्वतन्त्रः सन् एव व्यवहरति स्म |सहच्छात्राणां विचाराः, व्यवहाराः एकस्मिन् मार्गे, बालस्य तु अन्यस्मिन् मार्गे |
तेषु दिनेषु सः रत्नगिरिस्थायां प्राथमिकपाठशालायां पठन्नासीत् | विद्यालस्य् विरामदिवसानामनन्तरं पाठशालायाः प्रारम्भानन्तरम् एकस्मिन् दिने - अध्यापकः यदा कक्ष्यां प्रविष्टः तदा प्रकोष्ठम् सर्वत्र कलायत्वचाभिः अस्वच्छम् आसीत् | सः कुपितः | वेत्रं स्वीकृत्य " एताः त्वचाः के क्षिप्तवन्तः ? " इति गर्जितवान् |
केऽपि प्रत्युत्तरं नायच्छन् | प्रकोष्ठे सर्वत्र निः शब्दः | अध्यापकस्य् कोपः प्रवृध्दः | " वदन्तु के एताः (त्वचाः) क्षिप्तवन्तः ? " इति पृष्टवान् |[[File:Bal Gangadhar Tilak.jpg|thumb|बालगङ्गाधरतिलकः]]
तथापि दोषाङ्गीकरणाय केऽपि पुरतो नागतवन्तः | तस्य् कोपः इतोऽपि प्रवृध्दः | तत्क्षणं वेत्रेण् सर्वान् दण्डयितुं सःअ चिन्तितवान् | एकैकं छात्रं ह्स्तौ प्रसारयितुमुकत्वा सर्वान् वेत्रेण् प्रहारद्वयं दातुम् आरब्धवान् | बालस्य पर्यायः आगतः | किन्तु बालः हस्तौ न प्रसारितवान् | " अहं कलायं न खादितवान् | वेत्रप्रहारमपि न स्वीकरोमि |" इति बालः सधैर्यम् उक्तवान् |
" तर्हि के खादितवन्तः ?"
" अन्यस्य दोषकथनं (पिशुनता) दोषाय भवति । अतः अहं न वदामि ।"
बालः निर्भयं सत्यमुक्तवान् । अतः अध्यापकः किंकर्तव्यतामूढः जातः । कोपेन ज्वलितश्च । बालं विद्यालयतः निष्कासितवन्तः । बालस्य प्रवर्तनमुद्दिश्य गङ्गधरपन्तं सूचितवन्तः ।
अनन्तरदिने ग्न्ग्गधरपन्तः बालं स्वेन सह् विद्यालयम् आनीतवान् । " मम पुत्रेण उक्तं तु सत्यम् । बालस्य बहिः वस्तूनि क्रीत्वा खादने अभ्यासो नास्ति । बहिः खाद्यानि खादितुम् अहं धनमपि न ददामि।" इति पन्तः अध्यापकान् उक्तवान् ।
एवं बाल्यतः एव बालः अन्याय्यस्य प्रतिघटनम् अभ्यस्तवान् ।
 
==बाल्यम्==
 
साधारणबालकः इव बालः अपि कथाः श्रोतुम् अधिकम् इच्छति स्म । ईशवीये १८५७तमे वर्षे प्रथमस्वतन्त्रसाधनसन्ग्रामसमये बालस्य पितामहः काशीनगरे आसीत् । विरामदिवसेषु बालः कथाः श्रोतुअं पितामहस्य् गृहं गच्छति स्म । नानासाहेब, तात्यातोपे, झान्सीराज्ञी इत्यादीनां वीराणां कथाः श्रुत्वा बालस्य मनसि अनेकविचाराः धावन्ति स्म । "अहो ! मातॄदेशार्थं प्राणान समर्पितवन्तः एते धन्याः खलु ! ताद्श्महाजनः इव अहमपि ज्येष्ठो भूत्वा मातॄभूमेः सेवां करोमि । मातृभूमिअं दास्यश्रृङ्खलाभ्यः विमुक्तां करोमि।" ऐषा इच्छा तस्य अन्तरङ्गे शपथारुपेण् स्थिरा अभवत् ।
गङ्गाधरपन्तस्य पूनान्गरं प्रति वासपरिवर्तनम् अभवत् । तदा बालस्य वयः दशवर्षाणि । रत्नगिरितः पूनागमनं बालस्य जीवने महत्तरः प्रघट्टः ।
नूतनस्थानम् । नूतनजनाः । तत्र आङ्ग्लो वेर्नाक्युलर् विद्यालयं सः प्रविष्टः । तस्मिन् विद्यालये महतां विदुषां, प्रमुखाणाम् अध्यापकानां सविधे अनेकान् विषयान् ज्ञातुम् अवकाशो लब्धः ।
पूना आगमनानन्तरं कतिपयमासेष्वेव बालस्य माता पार्वतीबायी दिवङ्गता । पुत्रजननार्थं सा अनेकानि दिनानि यावत् उपवासान् कृतवती । अनेकानि व्रतानि आचरितवती । तेन कारणेन सा श्रीरीरे दुर्बला जाता । १८ मासपर्यन्तं सूर्थंभगवन्तम् उपासितवती । तस्य भगवतः अनुग्र्हतः जातः एषः बालः एव आङ्ग्लसाम्राज्यस्य अस्तमये कारणं जातः ।
मातुः मरणानन्तरं षड्वर्षेष्वेव बालस्य पिता अपि स्वर्गं गतः । तदा बालस्य् वयः केवलं १६ वर्षाणि । मेट्रिक् (प्रवेशपरीक्षा) कृते पठन्नासीत् बालः । दशवर्षीयया सत्यभामा इति नाम्न्या बालिकया सह् तस्य विवाहः सम्पन्नः ।
==कलाशालायाम्==
विवाहानन्तरं गॄहकार्यनिर्वहणभारः भवति इति तु साधारणविषयः । बालं सर्वे बालगङगधरतिलकः इति आह्वातुम् आरब्धवन्तः । मेट्रिक् परीक्षानन्तरं तिलकः दक्क्न कलाशालायां प्रविष्टः । मातुअः इव् तस्याऽपि स्वास्थ्थं सम्यक् नासीत् । जन्मतः अपि दुर्बलः देहः तस्य । दुर्बलशरीरेण् देशसेवा कथं करणीया ? अतः स्वस्थ्थं सम्यक् सम्पादनीयम्, शरीरदाढर्यं वर्धनीयम् इति तिलकः निर्णीतवान् । प्र्तिदिनं व्यायामं कुर्वन् पौष्टिकम् आहारं स्वीकरोति स्म । एवं शरीरदाढर्यवर्धनेन सः महाविद्यालयस्य सर्वासु क्रीडासु भागं गृहीत्वा प्रथमस्थानं सम्पादितवान् । मल्लः जातः । स्वल्पकाले एव दॄढशरीरं प्राप्तवन्तं तिलकं दॄष्ट्वा सर्वे आश्चर्यचकिता अभवन् ।
ईशवीये १८७७ तमे वर्षे तिलकः बि ए पदवीं, तत्राऽपि गणितपरीक्षायां प्रथमश्रेणीं प्राप्तवानित्युक्ते किं तत्र आश्चर्यम् ? बि ए अनन्तरं सः एल्.एल्.बि.अपि कृतवान् ।
==देशाय स्मर्पितम्==
पदवीद्वयप्राप्त्यनन्तरं यदि प्रयत्नं अकरिषयत् तर्हि तिलकस्य आङ्ग्लेयानां पालने उन्नतः अधिकारः एव अलप्स्यत । जीवनं देशाय अर्पणीयमिति बाल्ये एव निश्चितवान् खलु । अतः तन्न सिध्दम् ।
जनेषु देशस्वातन्त्र्यभावनाः तदा संपूर्णतया नैव विकसिताः । स्वातन्त्र्यभावना तेषु वर्धनीया । तेषां हृदयेषु देशभक्तेः बीजावापः करणीयः । भारतीयसंस्कृतेः आधारेण नव्यजीवनभवनस्य पटिष्ठा आधारशिला प्रतिष्ठापनीया । भारतीयानां कृते स्वसंस्कृतिः, जातीयाः आदर्शाश्च बोधनीयाः । ते उत्त्मसंस्कारसम्पन्नाः करणीयाः । एतादृशादर्शाणां साफल्याय विद्यासंस्था एव मार्ग इति तिलकस्य दॄढः अभिप्रायः आसीत् ।
तिलकस्य सहचरः अगर् कर् महोदयः तस्य सहायको जातः । छात्रान् देशभक्तान् कर्तुम् आवस्यकीं पाठ्यप्रणालिकां तिलक्, अगर् कर् च मिलित्वा निर्मातुम् आरब्धवन्तौ । अन्यः महान् पुरुषः तयोः सहायः जातः । स च विष्णुशास्त्री चिप्लूण् कर् महोदयः ।
==न्यू इङ्ग्लीष् हैस्कूल् - वटवृक्षः==
चिपलूणकरमहोदयः स्वयम् अध्यापकः । युवछात्राणां योग्य - विद्याबोधनस्य आवश्यकतां सः ज्ञातवान् ।
सर्वमपि भगवदिच्छारुपेण् भावयतां जनानाम् अन्धविश्वासः अपाकरणीयः । " आङ्ग्लेयानां पालनम्पि भागवदिच्छा" इति भावयन्तः जनाः जागरणीयाः ।
तिलकः अगर्करः, चिपलूण्करः इत्येतेषां त्रयाणाम् एकम् एव लक्ष्यम् । छात्रेषु नैतिकसामर्थ्थं वर्धयितुं विद्यासंस्थानाम् आरम्भे ते त्रयः निमग्नाः अभवन् ।
लिलकेन आरब्धा विद्यासंस्था एकः महान् वटवृक्षः जातः । तिलक् महोदयेन उप्तं लघुबीजम् क्रमशः अभिवृध्दं सत् शाखोपशाखाभिः वटवृक्षरुपेण परिणतम् । एतासां शाखोपशाखानाम् अपि लक्ष्यं पुनः अन्यनूतनविद्यासंस्थानां निर्माणं, नव्यजीवनमार्गदर्शनमेव ।
’न्यू इङ्ग्लीष् हैस्कूल्’ अनन्त्रकाले ’दक्कन् एड्युकेषनल् सोसायिटि’ रूपेण परिवर्तिता । एषां संस्थैव इदानीं पूनानगरे फेर्गूसन् कलाशालां, ग्रेटर् महाराष्ट्र् कामर्स् अण्ड् एकनामिक्स् कलाशालां, मुम्बयीस्था बाम्बे कलाशालां, साङ्ग्लीस्थां विल्लिङ्ग्टन् कलाशालाम्, एवम् अनेकमाध्यमिकपाठशालाः अपि निर्वहति ।
ईशवीये १८८०तमे वर्षे आरब्धा न्यू इङ्ग्लीष उन्न्तपाठशाला स्वल्पकाले एअव वृध्दिं गता । अनेका छात्रान् आकृष्टवती च । एषा संस्था छात्रेषु अस्माकं संस्कृतिं, संप्रदायान्, आदर्शान् च प्रवर्धितवती । परीक्षासु अत्यधिकसंख्यायाम् उत्तीर्णाः, सर्वविध-उपकारवेतनानि प्राप्तवन्तश्च एतस्याः संस्थायाः छात्राः । एतस्य कारण्मस्ति तत्रत्यानाम् अध्यापकानां सर्वेषां लक्ष्यम् एकमेवेति । तिलकः, तस्य् सहचराश्च् अधिकं श्रमं कृतवन्तः । प्रथमवर्षे तिलकः चिप्लूण्करश्च विना वेतनं केवलं छात्राणां संक्षेमार्थं कार्यं कृतवन्तौ ।
==वार्तापत्रिकाव्यासङ्गे==
अनन्तरं जातीयविद्यायाः विस्तरणे दृष्टिं केन्द्रीकृतवान् तिलकः । पाठशालासु केवलं छात्राणां कृते एव् शिक्षणं दातुं शक्यते । किन्तु भारतीयः सर्वोऽपि आङ्ग्लदास्यश्रृङ्खलाच्छेदनाय् जागरणीयः । जनेषु एकता साधनीया । देशपरिस्थितिः विश्दीकरणीया । जनाः कर्तव्यपथम् आनेतव्याः । एतत् कार्यं वार्तापत्रिकाभिः एव कर्तुं शक्यते इति निश्चितवान् तिलकः ।
विद्यासंस्थायाः आरम्भस्य अनन्तरवर्षे एव तिलकः साप्ताहिकपत्रिका-द्वयम् आरब्धवान् । महाराष्ट्रियभाषायां ’केसरी’ इति, आङ्ग्लभाषायां ’मराठा’ इति च द्वयं सः आरब्धवान् ।
पत्रिकाद्वयं जनान् अधिकतया आकर्षितवत् । वर्षद्वये एव ’केसरी’ पत्रिका अग्र्स्थानं प्राप्त्वती । अन्यभार्तीयभाषापत्रिकाः सर्वाः अतिक्र्म्य अस्याः पाठकाः अधिकाः लब्धाः । जनानां हानिकष्टादीनां विश्लेषणं, वास्तवसङ्घट्नानां स्प्ष्टव्याख्यानं ’केसरी’ - सम्पादकीयानां वचनानां विशिष्टता आसीत् । ’केसरी’ पत्रिकायाः भाषा सिंहगर्जनमेव आसीत् । पाठकः भीरूः भवतु नाम्, तस्मिन् स्वातन्त्र्येच्छां जृम्भयितुं समर्था शक्तिमति भाषा ’केसरी’ पत्रिकायाः विशिष्टा स्म्पत् आसीत् ।
तिलकः स्वसहचरान् सर्वदा एकं विषयं वदति स्म् । -"भवन्तः विश्वविद्यालयच्छात्राणां कृते न लिखन्ति, एकेन साधारणग्रामीणेन सह सम्भाषणं कुर्वन्तीति चिन्तयन्तु । भवभ्दिः अनुसरणीयायां रचनापध्द्त्यां दॄढः विश्वासः भवतु । भवन्तः यान् शब्दान् प्रयुञ्जते ते दिवा सूर्यकिरणाः इव स्पष्टाः भवेयुः ।" इति ।
==कारागारे==
कोल्हापुरसंस्थानाधीशः महाराजः राजारामः । तस्य मरणानन्तरं तस्य दत्तकपुत्रः शिवाजीरावः महाराजः सञ्जातः । आङ्ग्लसर्वकारः शिवाजीरावविषयी अत्यन्तं निर्दयं व्यवहॄतवान् । एतं विशयं केसरी तीव्रं प्रत्यघटयत् । आङ्ग्लानां दौर्जन्यं सर्वे जनाः ज्ञातवन्तः । पूनाम् कोल्हापुरनगरस्थेषु जनेषु क्रोधाग्निः ज्वलतः । आङ्ग्लसर्वकारः केसरी पत्रिकाविषये (सत्यप्रकाशनकारणेन्) निन्दाभियोगम् आरचितवान् । तस्य फलरुपेण् केसरी पत्रिकायाः सम्पादकेन् तिलकेन्, अगरकरेण् च चतुर्मासपर्यन्तं कठिनकारागारदण्डनम् अनुभोक्तव्यम् आपतितम् ।
==स्वीयसंस्थाभ्यः दूरम्==
न्यू इङ्ग्लीष् पाठशाला प्रगतिपथे प्रसरति स्म । फेर्गूसन् कलाशाला, दक्कन् एड्युकेषन् सोसाइटो अपि प्रारब्धे । येन केनापि ७५ रुप्यकेभ्ह्यः अधिकं वेतनं न् स्वीकरणीयम् इति तिलकः नियमं कृतवान् । किन्तु एतद्विद्यासंस्थानां व्यवस्थापकवर्गे केचन् सभ्याः एअतं नियमं नाङ्गीकृतवन्तः । अभिप्रायभेदाः स्पष्टाः जाताः । अतः स्वेन आरब्धाः संस्थाः अन्येभ्यः समर्पितवान् तिलकः । दशवर्षपर्यन्तं रात्रिन्दिवं श्रमं कृत्वा, स्वेन वर्धितानां संस्थानां त्यागसमये तिलकः अत्यन्तं बाधामनुभूतवान् ।
केसरी, मराठा पत्रिकाभ्यां कश्चिदपि अर्थलाभः नासीदिति कारणतः कुटुम्बपोषणार्थं तिलकेन अन्यः मार्गः अन्वेष्टव्यः आपतितः । किन्तु आङ्ग्लसर्वकारसंस्थासु उद्योगं तु न कृतवान् । न्यायवादपरीक्षार्थिनां मार्गदर्शनम् वृत्त्यर्थं स्वीकृतवान् सः ।
==तेषां सप्तवर्षाणां प्रामुख्यम्==
विद्यासंस्थाव्यासङ्गत् बहिरागतवान् तिलकः । तस्य् जीवने ईशवीयानां १८९०-१८९७ वर्षाणां मध्यकाले नूतनपरिणामः प्राप्तः । अध्यापकः तिलकः राजनीतिज्ञः जातः । विद्यासंस्थानां निर्वाहकः जातीयनायकः सञ्जातः ।
भस्मावृततप्ताङ्गार इव गूढं तस्य कार्यकौशलं सर्वदिक्षु व्याप्तम् । तेषु सप्तवर्षेषु सः सप्ततिवर्षाणाम् अनुभवं सम्पादितवान् । साप्ताहिकपत्रिकाद्वयचालनमेव न, न्यायशास्त्रछात्राणां कृते मार्गदर्शनमपि कृतवान् । समाजिकप्रग्त्यै सः सर्वकारेण् सह कलहं कृतवान् । बाल्यविवाहाः निषेधनीयाः, वितन्तुविवाहाः प्रोत्साहनीयाः इति तिलकः घोषितवान् । गणेशोत्सवाः, शिवाजीजन्म्दिनोत्सवाः इत्यादिनामभिः जनान् सङ्घटितवान् । पूनानगरपालिकायाः सभ्यरूपेण, मुम्बयीविधानसभायाः सभ्यरुपेण्, मुम्बयीविद्यापीठस्य ’फेलो’ इति पदव्यै च तिलक्ः चितः । काड्ग्रेससमावेशेषु सः प्रमुखं पात्रं वहति स्म् । तिलक्ः ’ओरायन्’ इति ग्रन्थमपि तदा एव विरच्य, मुद्रापितवान् । केवलं सप्तवर्षेषु सः अनेकान् विजयान् साधितवान् ।
गणेशोत्सवैः , शिवाजीजयन्त्युत्सवैः सद्शानां स्थानिकानाम् उत्सवानां जातीयस्तरताकल्पने एव तस्य सङ्घटनाशक्तिसामर्थ्थादिकं सुव्यक्तं अभवत् । ’वयं सर्वे एकात्मानः’ इति भावना जनेषु निर्मिता भवेत्, तदर्थम् पुनः पुनः जनानां मेलनम् आवश्यकम् । तेषां पुरतः एक एव आदर्शः स्पष्टीभवति चेत् ते स्वीयाभिप्रायभेदान् त्यक्त्वा आनन्देन् सहजीवनं साधयितु शक्नुवन्ति । तिलकेन निर्मिता एषा प्राणाली अल्पवर्षेष्वेव माहाराष्ट्रे सर्वत्र विस्तॄता ।
==शवानां मध्ये सर्वकारस्य उत्सवः==
ईशवीये १८९६तमे वर्षे देशः क्षामेण् पीडितः । जनानं कष्टनिवारणे सर्वकारस्य कर्तव्यम् तिलकः उदघोषितवान् । अनावृष्टिहतानां कृषकाणां कृते सः साहाय्यं कृतवान् । सर्वजनपदेषु क्षामस्य विलयताण्ड्वं विवृण्वन् केसरी, मराठा पत्रिकाद्वये सः वार्ताः, उपन्यासान् च मुद्रितवान् ।
क्षामस्य दंष्ट्राभ्यः जनाः न विमुक्ताअः एव । तावदेव प्लेग् व्याधिः अपि देशे व्याप्तः । तिलकः स्वयं वैद्यालयान् आरब्धवान् । स्वच्छन्दकार्यकर्तॄणां साहाय्येन रोगिणां सेवां कृतवान् । जनाः क्षामेण्, प्लेग् व्याधिना च पीडयमानाः आसन्, सर्वकारस्तु उदासीनः आसीत् । स्वयं वैसराय अपि "दुः खदायकः अंशः अत्र कोऽपि नास्ति, क्षामसहायनिधेः प्रारम्भस्य आवस्यकता अपि नास्ति । " इति प्रकटनं कृतावान् । सर्वकारस्य प्रमत्ततायाः पराकाष्ठा एषा । करग्रहणं यथावत् भवति स्म् । सर्वकारस्य प्रमत्तताम्, उदासीनतां च तिलकः स्वपत्रिकयोः तीव्रां आक्षैप्तवान् । प्लेगव्याधेः, क्षामस्य च कारणेन मृतानां जनानां वार्ताः सः निर्भयं प्रकटितवान् । सर्वकारस्य अश्रध्दां सः प्रजानआं पुरतः निरुपितवान् । सम्पादकीयैः वचनैः सः जनान् जागरितवान् । कार्यसूचनाः दत्तवान् । अनावृष्टिसमये सर्वकारेण् करणीयानां साहाय्यानं विषये कृतानां सर्वकारियशासनानां स्वरुपां सः जनानां समक्षं विवृतवान् । साहाय्यस्वीकरणाधिकारं सः जनानां समक्षं विवृतवान् । साहाय्य्स्वीकरणाधिकारं सः उदघोषितवान् । सर्वकारेण साहाय्यं कर्तव्य्म् इति प्रष्टुम् सः प्रजाभिः उद्यमं कारितवान् । "मृत्यौः समीपमायाति इदानीमपि भीतिमनुभवन्तः सन्ति, धैर्येण साहसं कर्तुं न शक्नुवन्ति वा ?" इति जनान् सः पृष्टवान् । प्लेगव्याधिनिवारणार्थं सर्वकारेण् किं किं करणीयम् इति सूचितवान् । किन्तु एकत्र जनाः प्लेगव्याघिकारणत्ः नश्यन्तः आसन् अन्यत्र् सर्वकारः विक्टोरियामहाराज्ञ्याः पट्टभिषेक - वज्रोत्सवानां निर्वहणाय प्रयत्नान् आरब्धवान् । शवानां समूहेषु सर्वकारः? उत्सवान् आचरति स्म ।
अन्ततः प्लेगनिवारणाय सर्वकारः एकं विशिष्टम् अधिकाररिणं नियुक्तवान् । तस्य नाम राण्ड् । सः प्लेगव्याधितः अपि भयङ्करः । प्लेग् व्याधिपीडितजनानां गृहाणि रिक्तानि कर्तुं सः सायुधान् सैनिकान् नियुक्तवान् ।
सैनिकाः गृहाणि गत्वा गोलकास्त्राणि दर्शयित्वा भायितवन्तः । प्लेगव्याधिग्रस्ताः के इति ते न चिन्तयन्ति स्म् , ये गृहे दृश्यन्ते तान् सर्वान् नीत्वा वैद्यालये प्रवेशयन्ति स्म | अन्यान् दूरस्थशिबिरेषु प्रेषयन्ति स्म् । जनानां वस्तूनि प्लेगकृमिस्पृष्टानीति उक्त्वा यथेच्छं दहन्ति स्म ।
एवं राण्ड् प्लेगतः अपि भयङ्करः सञ्जातः । तदा तिलकः स्वयं वैद्यालयेषु रात्रिन्दिवं रोगिणां सेवां करोति स्म ।
==सर्वकारः उन्मत्तः अभवद्वा?==
राण्ड् इत्यस्य अत्याचारैः, दौर्जन्येन च ज्वलितः कश्च्न् युवा भुशुण्डिआयुधेन तं मारितवान् । तेन रक्षकभटानां अत्याचाराः अधिकाह् अभवन् । तेषां दुश्चेष्टानां पारं नासीत् ।
तिलकः आवेशेन आप्लुतः । नाडिषु रक्तं तीव्रवेगेन प्रसरति स्म् । " सर्वकारः उन्मत्तः अभवत वा?" इति शीर्षिकया सर्वकारस्य नीतिबाह्यवर्तनं सः केस्रीपत्रिकायाः सम्पादकीये वचने आक्षिप्तवान् ।
तिलकस्य् परुषपदजालेन सर्वकारः अकम्पत । तिलकः बहिः भवति चेत् स्वसर्वकारस्य् समस्या एवै इति आङ्ग्लेयाः भावितवन्तः । अन्ते यथाकथञ्चित् तिलकः कारागारे स्थापनीय इति सर्वकारेण् निश्चितम् ।
राण्ड् इत्यस्य हनने तिलकस्यापि हस्तः अस्तीति सन्देहं प्राप्तवान् आङ्ग्लसर्वकारः । केसरी पत्रिकायां शिवमहाराजमुद्दिश्य् लिखिताम् एकां कवितां, एअकं लेखं च द्ष्ट्वा स्व्स्य आक्षेपं प्रकटयन् सर्वकारः तिलकं कारागारे अब्ध्नात् । लेखैः अशान्तिं जनयतीति, शासनम् उल्लङ्घते इति, सर्वकारस्य विरोधाय् जनान् प्रचोदयतीति सर्वकारः तिलके अभियोगं कृतवान् । तिलकाय सार्धीकवर्षात्मक कठिनकारागारद्ण्डः विहितः ।
==पञ्जरे सिंहः==
तेषु दिनेषु कारागारप्रकोष्ठानि नाम् नूनं नरकस्थानानि एव आसन् । त्रयोदशपदरिमितानि नाम नूनं नरक्स्थानानि एव आसन् । त्रयोदशपदपरिमितानि उन्न्तानि प्रकोष्ठानि सम्पूर्ण्तया तमसा आवृतानि आसन् । तत्र बन्दिनः पार्श्व परिवर्तनाय अपि अवकाशः न भवति स्म । बन्दिभ्यो दत्तेषु आच्छादनेषु यूकाः भवन्ति स्म । एवं प्रकोष्ठे सर्वत्र मशकाः आसन् । रक्तपिपासूनां मत्कुणानाण् विषये वक्तव्यमेव नासीत् । बन्दिभिः स्थूलवस्त्राणि धारणीयानि । तेभ्यः दियमानासु रोटिकासु सिकतारेणवः भवन्ति स्म् । कारगारस्य् अघिकारिणः दयागुणं न जानन्ति स्म । बन्दीन् प्रहरन्ति, कष्ट्साढ्यमपि कार्यं तैः कारयन्ति च ते । एवं तेषां अभ्यासः आसीत् ।
नारिकेमवल्कलेन रज्जुवेष्टनं, कटनिर्माणं तिलकस्य् कार्यम् आसीत् । त्स्य सर्वाः अङ्गुल्यः स्फुटन्ति स्म । माकस्मुल्ल्रर् सदृशमहापण्डितस्य् प्रशंसाः प्राप्तः यः ’ओरायन्’ इति ग्रन्थः तत्प्राणेतौः तिलकस्य अङ्गुल्यः इदानीं रज्जुं वेष्टयन्ते । स्फुटिताभ्यः अङ्गुलीभ्यः रक्तं स्रवति स्म् । चतुर्ष मासेषु तस्य भारः ४० पौण्ड्मितं न्यूनम् अभवत् । कारागारे अम्पविरामसमये अपि तिलकः अनेकान् ग्रन्थान् पठन्नासीत् । अस्मिन् कारागारे एव सः " आर्कटिक होम् इन् द वेदास्" इति ग्रन्थं लिखितवान् ।
विश्वे सर्वकोणेभ्यः विद्वांसः , राजनीतिवेत्तारः तिलकं विमोक्तुं सर्वकारं विज्ञापितवन्तः । नियमद्वयेन सर्वकारः अङ्गीकृतवान् । कारागारात् विमोचनानन्तरं क्स्यामपि सत्कारसभायां तिलकेन भागः न स्वीकरणीयः एतं नियमं तु तिलकः अङ्गीकरोत्येव, यतः तस्मै स्त्कारादिकं न रोचते स्म । किन्तु द्वितीयं नियमं स नाङ्गीकृतवान् । सर्वकारमधिकृत्य किमपि व्याख्यानं न करणीयम् इति द्वितीयः नियमः आसीत् । दोषम् अकृत्वा अपि भीरुः इव महाराष्ट्रे मुखं पिधाय अवस्यानादपि द्वीपान्तरवासदण्डनं प्राप्य अण्ड्मान्द्वीपं प्र्ति गमनमेव वरमिति तिलकः अचिन्तयत । अत एव द्वितीयं नियमं नाङ्गीकृतवान् । अन्ते सर्वकारेण् दण्डनकालः न्यूनीकृतः । इत्युक्ते कारागारवासः एकवर्षे समापितः ।
==राष्ट्रियनायकः==
१८९८तमे वर्षे दीपावलीदिने तिलकः कारागारतः? विमुक्तः । प्रजानाम् आनन्द्स्य प्रग्रहः नासीत् । सर्वगृहेषु दीपाः ज्वालिताः । सर्वविथीषु विस्फोटनसामग्री स्फोटिता । आनन्दोत्साहैः असङ्ख्याकाः जनाः तिलकं द्रष्टुं पूनानगर्वीथीषु प्रविष्टाः । महतीं शोभायात्रां कृत्वा सादरस्वागतं व्याहृतवन्तः । एतदपूर्वं दृश्यं दृष्टवतां नयनेभ्यः आनन्दाश्रूणि प्रसृतानि । बालाः, मातरश्च गृहेषु धूपवर्तिकाः, कर्पूरं च ज्वालयित्वा तिलकस्य छायाचित्रस्य् पूजादिकं कृतवन्तः । महाराष्ट्रनायकः इदानीं भारतनायकः सञ्जातः । सर्वेषां भारतीयानां हृदयेषु तिलके भक्तिश्रध्दादयः भावाः पूर्णाः ।
कारावासे अनुभ्हूतानां कष्टानां कारणेन तिलकस्य स्वास्थ्थम् अतीव क्षीणम् । सः अधिकं श्रान्तः । कान्तिमतोः तस्य नयनयोः तेजः अदृश्यतां गतम् । मुखं कृशम् अभवत् । कारावासात् विमोचनानन्तरं अल्पकाले एव तस्य पुनः स्वास्थ्यं सम्प्राप्तम् ।
==पवित्रशब्दः-स्वदेशी(यता)==
स्वदेशीयता उद्यमः प्रवृध्दः । स्वदेशीयता उद्यमः नाम् विदेशीयवस्तूनां बहिष्करणमेव । एतस्य उद्यमस्य श्रेष्ठतां गोखले, रानडे, पराञ्जपे इत्यादि नायकाः बहुधा विवृतवन्तः । पत्रिकासु लेखान् लिखित्वा तिलकः एतम् उद्यमं
महाराष्ट्रे प्रतिग्रामं नीतवान् । स्व्स्य गृहस्य् पुरतः एकं बृहन्तं स्वदेशीयवस्तुविपणि (स्वदेशी-बाजार्) नाम्ना आपणसमुदायमेव उदघाटितवान् । एतस्मिन् आपणसमुदाये ५० आपणेषु स्वदेशीयवस्तून्येव विक्रीयन्ते स्म । ’स्वदेशी’ निनादः देशे सर्वत्र विश्रूयते स्म । जनाः विदेशीयवस्तूनां राशीन् द्ग्धवन्तः । विदेशीयश्र्करां त्यक्त्वा जनाः गुडं उपयुञ्ज्ति स्म । वस्त्राणां, कागदस्य च निर्माणार्थं विविधप्रदेशेषु यन्त्रागाराणि अपि आरब्धानि ।
कोल्हापुरे राजाराम् कलाशाला छात्राः परीक्षाकेन्द्रे रिक्तसमाधानपत्राणि छिन्नवन्तः । ’विदेशीयकागदं नैव उपयुञ्जमहे’ इति, ’स्वदेशीयकागदं यच्छन्तु’ इति दृढं घोषितवन्तः । अधिकारिणः एतेषां छात्राणां षट् वेत्रप्रहाराणां दण्ड्नं विहितवन्तः? । किन्तु प्रहारा अपि स्वदेशीयवेत्रेणैव भवेयुः इति छात्राः प्रार्थितवन्तः । स्वदेशीयता, स्वराज्यं, विदेशीयबहिष्करणम्, जातीयविद्या इति चत्वारि पवित्रपदानि तिलकमहोदयेन सृष्टानि । एतानि चत्वारि पदानि जनाः शूलानीव उपयुक्तवन्तः । भारतीयेषु आङ्ग्लेयानां सविधे दास्यविषये तिरस्कारभावः प्रफुल्लः । स्वदेशविषये अभिमानः जागृतः । एषा तिलकेन साधिता क्रान्तिः ।
==लज्जारहितः सर्वकारः==
चतुर्दशवर्षाणामनन्तरं गान्धीमहाभागः सहायनिराकरणान्दोलनम् आरब्धवान् । एतदान्दोलनाय अनुसृता पध्दतिः १९०६ वर्षे एव तिलकेन कल्पिता आसीत् ।
एतन्मध्यकाले आङ्ग्लपत्रिकाभिः, सर्वकारेण् च तिलकाय् अनेकसङ्कटानि कल्पितानि । बाबामहाराजः इति कश्चन ध्निकः मृतः । सः स्वस्य धनस्य सर्वान् अधिकारान् स्वच्छन्दं तिलकाय् दत्त्वा मृतः । तदानुसारं तिलकः स्वकार्यमारब्धवान् । किन्तु केषाञ्चन स्वार्थपराणां पिशुनवचनानि श्रुत्वा बाबामहाराजस्य पत्नी तिलकः दोषी इति सर्वकाराय् सूचितवती । सर्वकारः बहुकालतः तिलकं केनापि कारणेन् पीडयितुअं प्रतीक्षते स्म । अवकाशः लब्धः । बाबामहारजस्य् पत्न्या कृतस्य् अभियोगस्य् विचारणम् आरब्धम् । परिशीलनार्थं सर्वकारः एकं विशिष्ट्म् अधिकारणं नियोजितवान् । तिलकः असत्यसाक्ष्यं दत्तवानिति, असत्यहस्ताङ्कनं कृतवानिति अन्ते सर्वकारनिर्णयः अभवत् । चोराणां, घातुकानामिव तिलकस्य ह्स्तद्वयं निगडितं कृत्वा कारावासं प्रेषितवन्तः अधिकारिणः । विशेषानुमतिं स्वीकृत्य सः बहिरागतवान् । प्रायः चतुर्दशवर्षाणि विविधेषु न्यायालयेषु सः सत्यनिर्णयार्थं युध्दं कुर्वन्नेवासीत् । अन्ते आङ्ग्लदेशस्थ प्रीवीकौन्सिल् मध्ये तिलकस्य अनुकूलः न्यायनिर्णयः लब्धः । बाबामहाराजस्य पत्न्या कृतस्य अभियोगस्य विचारणम् आरब्धम् | परिशीलनार्थं सर्वकारः एकं विशिष्टम् अधिकारिणं नियोजितवान् | तिलकः अस्त्यसाक्ष्यं दत्तवानिति, असत्यहस्ताङ्कनं क्ऱुतवानिति अन्ते सर्वकारनिर्णयः अभवत् | चोराणां, घातुकानामिव तिलक्स्य हस्तद्वयं निगडितं कृत्वा कारावासं प्रेषितवन्तः अधिकारिणः | विशेषानुमतिं स्वीकृत्य सः बहिरागतवान् | प्रायः चतुर्दशवर्षाणि विविधेषु न्यायलयेषु सः सत्यनिर्णयार्थं युध्दं कुर्वन्नेवासीत् | अन्ते आङ्ग्लदेशस्थ प्रवीकौन्सिल् मध्ये तिलकस्य अनुकूलः न्यायनिर्णयः लब्धः | एतम् अभियोगं भारतीयन्यायालयाः यथा परिशीलितवन्तः तां रीतिं प्रीवीकौन्सिल् (सर्वेच्चन्यायसभा) तीव्रं आक्षिप्तवती |
बाबामहाराजं मारयितुं तिलकः जनान् प्रेरितवानित्यपि लण्डन् नगरस्थे ग्लोब्, दि टायिम्स् आफ् इण्डिया पत्रिके निराधारं दोषारोपणानि कृतवत्यौ | ते पतिके अन्ते तिलकस्य आग्रहेण क्षमां याचितवत्यौ |
==देशदौर्भाग्यम्==
आङ्ग्लेयाः वङ्गप्रान्तं विभक्तवन्तः | वङ्गजनाः अपि विदेशीयवस्तु-बहिष्करणोद्यमं अत्यन्तप्र्भावपूर्णं साधितवन्तः | वङ्गविभजनं विरुध्य तत्र एकः महान् उद्यमः आरब्धः | तदानीअं तत्रत्यः जनपदन्यायाधीशः अन्यायस्वरुपः | तं लक्ष्यीकृत्य खुदीरामबोसः नाम क्रान्तिकारी बमविस्फोटकं क्षिप्तवान् |
प्रजासु उद्भूतम् आवेशं शमयितुं सर्वकारेण् अत्यन्तकठिनतया व्यवहृतम् | अरविन्दघोषस्य हस्तयोः अयः श्रृङ्खलां बध्दा, कण्ठे रज्जुअं बध्द्वा बीथीषु पर्याट्यन्तः रक्षकभटालयं नीतवन्तः | विस्फोटकसामग्य्राः उपयोगं करोतीत् सन्देहः भवति चेत् तस्मै चतुर्दशवर्षपर्यन्तं कारावासदण्डः विधातुं शक्यते स्म | सर्वकारः एवं क्रूरतया यदा व्यवहरन्नसीत् तदा जनाः इतोऽपि द्विगुणितं स्वीयम् उद्यमं विजृम्भितवन्तः | सर्वकारं प्रतियोध्दुं च सिध्दाः अभवन् |
तिलकस्य अपि आवेशेन रक्तं वेगेन प्रसरति स्म | 'देश्स्य दौर्भाग्यम्' इति शीर्षिकया केस्री पत्रिकायां तेन एकः लेखः लिखितः | तस्मिन् सः सर्वकारं तीव्रं आक्षिप्तवान् |
" देशे बम्विस्फोटकनिर्माणं तु दौर्भाग्यमेव | किन्तु एतां स्थितिं के कल्पित्वन्तः ? बम् निर्माणाय, तस्य क्षेणणाय चा परिस्थितिअः या उप्तन्ना, तस्याः कारणत्वं सर्वकारस्य अक्रमपरिपालनकारणतः एव सम्भूतम्" इति सः लिखितवान् |
वायुपूरिते बुब्ददे यदि कण्ट्कं प्रविशति तर्हि किं भवति ? तादृशस्थितै मग्नः तदा सर्वकारः | तिलकः यावद् बहिः तिष्ठ्ति तावत् सर्वकारस्य समस्या एव इति आङ्ग्लेयाः पुनः निश्चितवन्तः |
==देशबहिष्करणम्==
'देशदौर्भाग्यम्' इति शिर्षिकया लेखं लिखितवानिति व्याजं दर्शयित्वा तिलकं देशद्रोहित्वेन सर्वकारः चित्रितवान् | १९०७तमे वर्षे जून् २४ दिनाङ्के मुम्बय्यां सः निर्बध्दः | षड्वर्षपर्यन्तं देशबहिश्ह्कारदण्डनं तस्य् विहितम् |
तिलकस्य वयः ५२ वर्षाणि | स्वस्थ्यम् अगणयित्वा स्वातन्त्र्याय समरे प्रवृत्तः तिलकः अस्वास्थ्यमाप्तवान् | मधुमेहव्याधिना ग्रस्तः सः अतीव दुर्बलः अभवत् | भारतदेशं त्यक्त्वा कुत्रापि दूरे षड्वर्षपर्यन्तं सः कथं कारावासदण्डनम् अनुभोक्तुं शक्नोति ?
समस्तदेशः दुःखसागरे मग्नः | विश्वे सर्वत्र गौरवादरान् प्राप्तवतः तिलकस्य निर्बन्धनं विविधदेशीयाः मेधाविनः तीव्रं आक्षिप्तवन्तः |
==कारागारे पाण्डित्यप्रदर्शनं, नेतृत्वञ्च==
ब्र्ह्मदेशस्थे माण्ड्लेकारागारे तिलकः निर्बध्दः | तस्य प्रकोष्ठं दारुखण्डैः निर्मितम् | तस्मिन् प्रकोष्ठे एकः मञ्चः उत्पीठिका, आसन्दः, पुस्तकानां कपाटिका च आसीत् | तत्र सर्वदिग्भ्यः शीतलवायुः वाति स्म | तेन शरीरे
कम्पनमेव भवति स्म | किमपि कर्तुं नैव शक्यते सम | अन्यैः सह मेलनं यथा न भवेत् तथा सः दूरे स्थापितः |
माण्ड्लेकारगारे एव एकं वर्षम् अतीतम् | कस्माच्चित् मित्रात् काचन् सूचना प्राप्ता |
कांशचन् नियमान् सः अङ्गीकरोति चेत् सर्वकारः? तिलकं मोचयिष्यति इति सा सूचना आसीत् | तिलकः तत् मित्रमुद्दिश्य एवं पत्रं लिखितवान् |
"इदानीं मम वयः ५३ वर्षाणि | यदि इतोऽपि दशवर्षपर्यन्तं जीविष्यामि इति भवान् चिन्तयति चेत् कारगारविमुक्त्यनन्तरं पञ्चवर्षाणाम् एव समयः अवशिष्यते इत्यर्थः | तानि पञ्चवर्षाणि प्रजानां सेवां कर्तुअं शक्नोमि | किन्तु एतान् नियमान् अङ्गीकरोमि चेत् अहम् इदानीमेव मृतः भवेयम्" इति |
दैवात् कठिनकारावासद्ण्डं साधारणकारावासदण्डरूपेण् परिवर्तितवान् सर्वकारः | एतेन कारणेन कारागारे ,पठनाय, लेखनाय् अनुमतिः लब्धा | तस्मिन् कारागारे एव तिलकः 'गीतारहस्य 'मिति ग्रन्थं लिखितवान् | तस्य प्र्तिभायाः दर्पणः एव अयं ग्र्न्थः |
एकाकित्वस्य दूरीकरणाय तिलकः पठनस्य, लेखनस्य अभ्यासं कृतवान् | षड्वर्षाणां कारागारदण्ड्नसमाप्तिपर्यन्तं सः ४०० पुस्तकानि सङ्गृहीतवान् | 'भवन्तः अपि अभ्यस्यन्तु' इति नाम्ना मुद्रितानि पुस्तकानि आनाय्य् कारागारे एव फ्रेञ्च्, जर्मन् भाषे अभ्यस्तवान् |
देशस्य विविधसेवाकार्यक्रमेषु मग्नः तिलकः समयस्य अलाभात् स्वीयकार्याणि त्यक्तवान् | किन्तु कारागारे समयो लब्ध इति कारण्तः पुनः दैवप्रार्थनां, गायत्रिमन्त्रजपं च करोति स्म | तदनन्तरं पुस्तकानि पठति स्म, लिखति स्म सः | माण्ड्लेकारावाससमये एव तस्य पत्नी भारतदेशे दिवङ्गता |
==भारतदेशे==
१९१४त्मे वर्षे जूनमासे अष्टमे दिनाङ्के सः पूनाम् आनीतः | अनेकाः संस्थाः तस्य सम्मानसभाः आयोजितवत्यः |
" षड्वर्षपर्यन्तं दूरे स्थित्वा अपि भवतां विषये मयि स्थिताः प्रेमानुरागादिभावाः नैव न्यूनाः | स्वराज्यभावनां नाहं विस्मृतवान् | मया प्रारब्धे कार्यक्रमे किमपि परिवर्तनं नास्ति | तथैव प्र्चलिष्यति | इति तिलकः प्रजाना पुरतः शपथं कृतवान् |
माण्ड्लेकारागारतः तिलकस्य आगमनात् पूर्वं काङ्ग्रेस् संस्थायां पक्षद्वयं जातम् | तीव्राः अभिप्रायभेदाः आविर्भूताः | आगमनानन्तरं द्वयओः एकतासम्पादनार्थं सः बहुधा प्रायतत, किन्तु फ्लां शून्यमेव | अतः स्वयमेव अन्याम् एकां संस्थाम् आरब्धुं चिन्तितवान् | सा एव संस्था ' होमरूल् लीग्' इति स्वातन्त्र्यसाधनमेव तस्याः संस्थायाः लक्ष्यम् आसीत् |
होमरूल् उद्यमार्थं सः ग्रामं ग्रामम् अटितवान् | होम् रूल् लीग् संस्थायाः लक्ष्याणि विवृतवान् | कृषकान् सर्वान् स्वपक्षीयान् कृतवान् |
"होम् रूल नाम - अस्माकं गृहविषयः अस्माभिः चिन्तनीयः इति | पार्श्वगृहस्थाः अस्माकं गृहे अधिकारं प्रदर्शयन्ति वा ? एकस्य आङ्ग्लेयस्य आङ्ग्लदेशे यावती स्वेच्छा भवति स्वेच्छा भारतदेशे भारतीयस्य अपि लभ्येत् | " इति |
जनेषु स्मेकतानिर्माणाय सः निरन्तरं पर्यटितवान् | शते सभासु सः होम् रूल् इत्यमुं विषयं विवृतवान | सर्वत्र तस्मै अपूर्वं स्वागतं लब्धम् |
लखनौ अनन्तरं तिलकः कानुपुरं गतवान् |
==स्वातन्त्र्यम् अस्माकं जन्मसिध्दः अधिकारः==
"वयं समानत्वम इच्छामः | विदेशीयानां पालने वयं दासा न भवामः | एतावप्र्यन्तम् अनुभूतं दास्यम | इतः परम् क्षणमपि न सहामहे | स्वातन्त्र्यम् अस्माकं जन्म्सिध्दः अधिकारः | यत्किमपि भवतु, वयम् एतत् साधयाम एव | अस्मदृशाः आशियावासिनः एव जापानदेशीयाः यदि विमुक्ताः, तर्हि वयं किमर्थं दास्यमनुभवामः ? अस्माकं मातृभूमेः एताः श्रृङ्खलाः कियत्कालं भवेयुः ? " इति स्वातन्त्र्यहोमवेदिः प्रज्वलिता | पुनः सर्वकारः किङ्कर्तव्यतामूढः अभवत् |
दिनानि गच्छन्ति स्म | "स्वातन्त्र्यम् अस्माकं जन्मसिध्दः अधिकारः" इति तिलकस्य निनादः सर्वस्यापि भारतीयस्य हृदयफलके मुद्रितः अभवत् | तिलके आदराभिमानादिभावाः समस्ते देशे परिव्याप्ताः |
==षष्टिपूर्तिः==
१९१६तमे वर्षे तिलकस्य ६० वर्षाणि पूर्णानि | षष्टिवर्षाणां सार्थकजीवनम् अधिकृत्य तस्य षष्टिपूर्ति उत्सवः आयोजितः | अनेके विद्वांसः, नायकाः, मित्राणि तस्य गृहे समाविष्टाः |
तस्मै सम्मानपत्रं समर्पितवन्तः | लक्ष रूप्यकाणां धनराशिमपि समर्प्य तं पुरस्कृतवन्तः | सर्वकारेणापि षष्टिपूर्तिसन्दर्भे एकः पुरस्कारः प्रेषितः | षष्टिपूर्तेः पूर्वदिने सर्वकारेण एकं सूचनापत्रं प्रेषितम् | एकवर्षस्य स्त्प्रवर्तनं प्रशंसन् सर्वकारः विंशतिसहस्त्ररूप्यकाणां पुरस्कारं प्रददतीति तेन ज्ञातम् |
क्र्मशः तिलकस्य स्वास्थ्यं क्षीणं भवति स्म | तस्य भाषणानि पूर्वम् इव उद्रेकपूरितानि नासन् | स्वास्थ्यं यद्यपि सम्यक् नासीत् तथापि कांग्रेस् संस्थां पुनः एकीकर्तुं सः प्रयतमानः एवासीत् | अन्ते तस्य प्रयत्नः सफलो जातः |
==आङ्ग्लदेशे==
इङ्ग्लण्ड्देशीयः कस्याश्चित् पत्रिकायाः लेखकः चिरोलः यदा भारतदेशमागतवान् तदा तिलकेन निरूह्यमानम् उद्यमम् परिशीलितवान् | तिलकम् उद्दिश्य दुष्टाः व्याख्याः कृतवान् | तिलकः सायुधक्रान्तिनायकः इति चिरोलः आरोपितवान् | एतेन दुष्टेन आरोपणेन तिलकः कुपितः? | स्वप्रतिष्ठाभङ्गकराः व्याख्याः कृतवति चिरोले सः प्रतिष्ठाभङ्गाभियोगं कृतवान् | तन्निमित्तं तेन इङ्ग्लण्ड्देशः गन्तव्यः अभवत् | त्रयोदशमासपर्यन्तं तत्र् स्थातव्यमापतितम् |तेन अमूल्यः समयः व्यर्थः अभवत् | अधिकं धनमपि व्यर्थमभवत् |
किन्तु तिलकः केवलं एतस्याभियोगस्य कारणतः एव आङ्ग्लदेशं न गतवान् | आङ्ग्लेयानां पालने भारतदेशे सम्भूतानां दुर्भरप्रिस्थितीनां विवरणमपि तस्य यात्राध्येय-मासीत् | तत्राऽपि शते सभासु सः भाषितवान | होम् रूल् आन्दोलनम् वर्धितवान् | लबरपार्टी नायकैः सह मैत्रीमपि सम्पादितवान् |
==केसरी दिवङ्ग्तः==
विश्वयुध्द्समये आङ्ग्लेयाः भारतीयानां साहाय्य्प्राप्त्यर्थं प्र्यतितवन्तः | विजयप्राप्त्यनन्तरं तु ते उन्मत्ता एव अभवन् | तेन भारतदेशजनानां विषये दमनं, दौर्जन्यं च अधिकम् कुर्वन्तः आसन् |
रौलट्शासनधिककारेण् जिलियनवालाबाग् स्थाने हननकाण्डः प्रवर्तितः | दयादाक्षिण्यरहितः आङ्ग्ग्लसर्वकारः निरायुधेषु सामान्यजनसमूहेषु गोलकास्त्रैः विस्फोटनं कारितवान् | जलियनवालाबाग् रक्तसिक्तम् अभवत्|
एतां वार्तां श्रृत्वा तिलकः भारतदेशं प्रत्यागतवान् | भारतीयानां वाञ्छानां साधनाय् यथाकथञ्चित् आन्दोलनं चालनीयमेवेति सः भारतीयान् आहूतवान् |
ततः पूर्वमेव तिलकस्य स्वास्थ्यं क्षीणं भवति स्म | शरीरं श्रान्तम् | तथापि प्रजानां जागरणाय सः पर्यटन्नेवासीत् | साङ्गली, हैदराबाद्, कराचि, शोलापूर्, काशीनगरेषु सः भाषितवान् | अन्ते मुम्बयीम् प्रत्यागतवान् |
१९२०तमे वर्षे जुलैमासे तस्य स्वास्थ्यम् अत्यन्तं क्षीणम् | अगस्तमासस्य प्रथमदिनाङ्के तिलकदीपः निर्वातः अभवत् | एतां दुः खवार्तां श्रृत्वा प्रजासागरः तटीं भित्त्वा इव तिलकस्य अन्तिमदर्शनार्थं अतिवेलं समागतः | प्रायशः द्विलक्षं जनाः तस्य अन्तिमयात्रायां भागं गृहीतवन्तः | महात्मागान्धी, लालालजपतराय्, शौकत् आली इत्यादय?ः नेतारः तस्य पार्थिवशरीरं स्वयम् ऊढ्वन्तः |
तिलकस्य जीवनं दिव्यम् | सर्वेषां जनानाम् आदराभिमानान् सः प्राप्तवान् | सः देशसेवां कृतवान् | तस्य् सविधे ध्नं कदापि नासीदेव | वस्त्राण्यपि अतिसामान्यानि | शरीरे धौतवस्त्रं , करांशुकं, भुजयोः एकं राङ्कवं, शिरसि रक्त्तवर्णीयम् उष्णीषम् - एष एव तस्य वेषः |
लोकमान्यतिलकस्य् पत्नी सत्यभाबमाबायी अपि तिलक इव साधारणजीवनमेव यापितवती | कदापि सा मूल्यवन्ति वस्त्राणि न धृतवती | कुटुम्बस्य, अतिथीनां च विषये एव तस्याः जीवनं नीतम् | मरणात् पूर्वं तु पत्या सहैव स्थातुमैच्छत् | किन्तु तथा नाभवत् | यतः तदा तिलकः माण्ड्ले कारागारे आसीत् |
==आदर्शजीवनम्==
१८५६त्मे वर्षे जुलैमासे २३ दिनाङ्के तिलकः रत्नगिरौ जातः |६४ वर्षाणि यावत् देशसेवां कृत्वा सः परमपदं प्राप्तवान् | तिलकः स्मृत्वा आङ्ग्लसर्वकारः कथं कम्पते स्म् इति विष्यः १९०८ तमे वर्षे भारतदेशीयकार्यदर्शिनं प्र्ति मुम्बयी गवर्नर् महोदयेन लिखितेन लेखेन ज्ञायते |
" आङ्ग्लेयान् विरुध्द्य कुतन्त्रं रचयितृषु सः अन्यतमः | प्रायः सः प्रधानः कुतन्त्ररचयिता अपि | भारतदेशे आङ्ग्लेयानां पालन्स्य अन्तं कर्तुम् एव सः गणेशोत्सवान्, शिवाजीजयन्त्युत्सवान्, जातियपाठशालाः च आरब्धवान् | " इति |
तिलकः यदा स्वर्गस्थः अभवत् तदा गान्धीजी एवमुक्तवान् - " तिलकमहोदयः दृढनिश्च्येन स्वजीवनं देशसेवायै विनियुक्तवान् | तस्य जीवनम् उदघाटितं पुस्तकमेव | देशजनानां कृते एव जीवनं यापितवन्तं तिलकं भाविभारतीयाः अपि सर्वदा सादरं स्म्रिष्यन्ति |" इति |
 
परिवर्तिनि संसारे मृतः को वा न जायते |
[[वर्गः:महाराष्ट्रस्य व्यक्तयः]]
स जातो येन जातेन याति वंशः समुन्नतिम् ||
[[वर्गः:भारतीयदेशभक्ताः]]
[[वर्गः:१८५६ जननम्]]
[[वर्गः:१९२० मरणम्]]
 
[[bn:বাল গঙ্গাধর তিলক]]
[[cs:Bál Gangádhar Tilak]]
[[de:Bal Gangadhar Tilak]]
[[en:Bal Gangadhar Tilak]]
[[es:Bal Gangadhar Tilak]]
[[eu:Bal Gangadhar Tilak]]
[[fr:Bal Gangadhar Tilak]]
[[gu:લોકમાન્ય ટિળક]]
[[hi:बाल गंगाधर तिलक]]
[[it:Bal Gangadhar Tilak]]
[[ja:バール・ガンガーダル・ティラク]]
[[kn:ಲೋಕಮಾನ್ಯ ಬಾಲ ಗಂಗಾಧರ ತಿಲಕ]]
[[ml:ബാല ഗംഗാധര തിലകൻ]]
[[mr:बाळ गंगाधर टिळक]]
[[no:Bal Gangadhar Tilak]]
[[pl:Bal Gangadhar Tilak]]
[[pt:Bal Gangadhar Tilak]]
[[ru:Тилак, Бал Гангадхар]]
[[sv:Lokmanya Tilak]]
[[ta:பால கங்காதர திலகர்]]
[[te:బాలగంగాధర తిలక్]]
[[tr:Bal Gangadhar Tilak]]
[[ur:بال گنگا دھر تلک]]
[[vi:Bal Gangadhar Tilak]]
[[zh:巴尔·甘格达尔·提拉克]]
४७७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/203284" इत्यस्माद् प्रतिप्राप्तम्