"अष्टाध्यायी" इत्यस्य संस्करणे भेदः

Link no longer exists
No edit summary
पङ्क्तिः १:
{{wikisourcecat}}
==निर्वचनम्==
अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्‍टाध्‍यायी',इति जगत्प्रसिद्धः संस्‍कृतव्‍याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारम् अवादयत् । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव "महेश्वरादागतानि माहेश्वराणि" [[माहेश्वरसूत्राणि]] इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः '''अष्टाध्यायी''' इति व्याकरणग्रन्थं लिखितवान् । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । अष्टाध्याय्यां व्याकरणस्य ३९६५ सूत्राणि सन्ति ।
Line ६ ⟶ ७:
==व्याख्यानानि==
पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः [[पतञ्जलिः]] अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं [['''महाभाष्यम्|महाभाष्यं''']] नाम ग्रन्थं लिखितवान् । "अथ शब्दानुशासनम्" इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति '''शब्दानुशासनम्'''। पाणिनिः, [[कात्यायनः]], पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः [[सिद्धान्तकौमुदी|सिद्धान्तकौमुदीं]] रचितवान् । वरदराजः [[लघुसिद्धान्तकौमुदी|लघुसिद्धान्तकौमुद्याः]] रचनां कृतवान् ।
 
{{wikisourcecat}}
 
 
"https://sa.wikipedia.org/wiki/अष्टाध्यायी" इत्यस्माद् प्रतिप्राप्तम्