"पटोललता" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४०:
इदं पटोलसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इयं लता इति कारणात् आधारम् अवलब्य वर्धते । इयं लता अधिकतया गङ्गानद्याः तीरे, उत्तरप्रदेशे, बङ्गाले च वर्धते । अन्येषु प्रदेशेषु अपि वर्धते । अस्याः लतायाः पर्णानि हृदयस्य आकारकाणि अथवा आयताकारकाणि भवन्ति । तानि पर्णानि कर्कशस्पर्शाणि भवन्ति । पर्णानि ३ – ४ अङ्गुलं यावत् दीर्घाणि, २ अङ्गुलं यावत् विशालानि च भवन्ति । अस्याः लतायाः पुष्पाणि श्वेतवर्णीयानि । अस्याः पटोललतायाः फलानि लम्बाकारकाणि, २ – ४ अङ्गुलतः २-४ पादपरिमितानि दीर्घाणि च भवन्ति । तानि फलानि आरम्भे वर्धनावसरे श्वेतमिश्रित – हरितवर्णीयानि, अनन्तरं वर्धनानन्तरं (पक्वानन्तरं) पीतवर्णीयानि अथवा रक्तवर्णीयानि भवन्ति । अस्याः अपक्वे फले २ % यावत् प्रोटीन् इत्यंशः, ०.३ % यावत् मेदस्, २.२ % यावत् कार्बोहैड्रेट्, ०.५ % यावत् खनिजं भवति । अस्याः लतायाः पर्णे ५ % यावत् प्रोटीन्, १.१ % यावत् मेदस्, ५.६ % यावत् कार्बोहैड्रेट्, ३ % यावत् खनिजं चापि भवति । बीजे २६.३ % यावत् तैलांशः अस्ति । अस्याः लतायाः फलानि आहारे शाकत्वेन उपयुज्यन्ते ।
== इतरभाषाभिः अस्य पटोलसस्यस्य नामानि ==
इदं पटोलसस्यम् आङ्ग्लभाषया........... इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Trichos Anthes Diodila इति । हिन्दीभाषया“परवल” इति, तेलुगुभाषया“कोम्बु पोटालिल” इति, तमिळभाषया“कम्बुपादालायि” इति, मलयाळभाषया“काट्टु पोटोलम्” इति, कन्नडभाषया“पडवल” इति, बङ्गभाषया "चिचिङ्गा" इति उच्यते ।
 
== आयुर्वेदस्य अनुसारम् अस्य पटोलसस्यस्य प्रयोजनानि ==
अस्य पटोलसस्यस्य रसः तिक्तः । इदं लघुगुणयुक्तं, रूक्षं चापि ।
"https://sa.wikipedia.org/wiki/पटोललता" इत्यस्माद् प्रतिप्राप्तम्