"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
fix
पङ्क्तिः ६:
 
==महाभारतस्य नामकरणम्==
इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिध्दम् । [[नारायणम्|नारायणं]] नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥’ इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च । महाभारतमल्पपरिमाणं स्वरुपत ऎतिहासिककथाप्रधानञ्चावर्त्तत नोपदेशप्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मितत्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामासेति सा प्रथमावस्था महाभारतस्य ।
वैशम्पायनश्च गुरोर्व्यासादधीते जये स्वरचितसंवादादि योजयित्वा नागयज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विशतिसाहस्त्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृहितो भूत्वा लक्षश्लोकपरिमाणो महाभारतसंज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था । तृतीयावस्थायां मनुनाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थे महाभारतमिति तस्य संज्ञा सौतिकृता ।
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्