"लाल कृष्ण आडवाणी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६७:
==जनतापक्षः==
जनतापक्षः अनेकपक्षाणां नेतृभिः कार्यकर्तृभिः च सम्भूय निर्मिता वेदिका । ते सर्वे एकीभूय १९७५ तमे वर्षे तदानीन्तनप्रधानमन्त्रिणा [[इन्दिरा गान्न्धिः]]वर्यया प्रयुक्तायाः आपत्कालिक्याः स्थित्याः विरोधं कृतवन्तः।
 
यदा १९७७ तमे वर्षे निर्वाचनम् उद्घोषितम् अभवत् तदा ,[[कांग्रेस् (ओ)]], [[स्वतन्त्रपक्षाः]], [[भारतीयसमाजवादीपक्षः]], [[भारतीयजनसङ्घः]], [[लोकदलं]] च मिलित्वा, [[जनतापक्षः]] इति नाम्ना नूतनं पक्षम् आरब्धवन्तः। [[जगज्जीवनरामः]] अपि कांग्रेसपक्षतः बहिरागत्य, [[कांग्रेस् फ़ार् डेमोक्रसि]] इति, पक्षं संस्थाप्य, जनतापक्षस्य आश्रयम् आगतवान् । आपत्कालिकीं स्थितिं विरुध्य जनाः निर्वाचने जनतापक्षं प्रति स्वमतदानेन अधिकारारूढं कृतवन्तः । [[मोरार्जी देसायी]] भारतस्य प्रधानमन्त्री अभवत् । अड्वानी तदा सूचना तथा प्रसारणविभागस्य सचिवः अभवत् । तस्य परममित्रं जनसङ्घस्य सहोद्योगी , [[अटलबिहारी वाजपेयी]] [[विदेशाङ्गसचिवः]] अभवत् ।
 
जनतापक्षस्य जन्म एव तदीयस्य विनाशे बिजाङ्कुरः इव अभवत् । मिथः अविश्वासः च सर्वकारस्य पतने हेतू अभवताम् । द्विसदस्यता एव कलहे प्रमुखं कारणं सञ्जातम्। जनसङ्घतः ये आगताः, ते राष्ट्रियस्वयंसेवकसङ्गस्य सदस्यत्वं त्यजेयुः इति वादः प्रादुरभवत्।
 
जनसङ्घस्य पूर्वतनसदस्याः जनतापक्षात् बहिरागत्य, “[[भारतीयजनतापक्षः]]“इति नूतनं पक्षम् आरब्धवन्तः। अड्वानी तत्र प्रमुखः नायकः भूत्वा , राज्यसभायां तस्य पक्षस्य नायकः अभवत् ।
==भारतीयजनतापक्षस्य उन्नतिः==
Line ७४ ⟶ ७७:
अड्वानी तावत् स्वदृढमनसा पक्षम् १९९१ तमे वर्षे उन्नतस्थानं नीतवान् ।
सः क्रमेण पक्षस्य सिद्धान्तेषु हिन्दुत्वपोषकांशान् संयोजितवान् । तेन फलमपि प्राप्तवान् । वित्तसचिवस्य विश्वनाथप्रतापसिंहस्य कांग्रेसपक्षतः बहिरागमनं लाभकारि अभवत्। १९८९ तमे निर्वाचने [[वी.पी.सिंहः|वी.पी.सिंहस्य]] जनतादलस्य तथा भारतीयजनतापक्षस्य च स्थितिः उत्तमा अभवत् । यद्यपि कांग्रेस् पक्षः एकाकिना अधिकसदस्ययुतः अभवत् तथापि सः पक्षः विरोधपक्षत्वेन कार्यं कर्तुं सिद्धः अभवत्। [[वी.पी. सिंहः]] अनेकमित्रपक्षाणां सहयोगेन प्रधानी अभवत्। भारतीयजनतापक्षःसर्वकारतः बहिः स्थित्वा एव तस्य समर्थनम् अकरोत्।
 
१९८९ तमे वर्षे भारतीयजनतापक्षः अड्वानीनायकत्वे रामजन्मभूमिरिति नूतनं विषयं स्वीकृत्य देशे आन्दोलनम् आरभत। । भा.ज.पक्षः बाब्रीमस्जिद् यत्र अस्ति तत्रैव रामालयस्य स्थापनं भावेत् इति निर्धारम् अकरोत् । [[भारतीयपुरातत्त्वविभागः|भारतीयपुरातत्त्वविभागस्य]] आशयः यत् तत्र एव राममन्दिरम् आसीत् यत्र इदानीं [[बाबरीमस्जिद्]] अस्ति इति। १५२८ तमे वर्षे यदा बाबरः आक्रमणं कृतवान् तस्मात् पूर्वं तत्र देवालयः आसीत्। केन्द्रीय सुन्निमण्डली विभागस्य वादं निराकरोत्, ५० पादमिते तले खननं न अभवत् एव। राजकीयपरिहारस्य अभावे, कश्चन हिन्दुगणः तस्य विवादितस्य भवनस्य नाशम् अकरोत् । एतेन हिन्दूमुस्लिम् जनानां मध्ये वैषम्यं प्रादुरभवत् ।
 
अड्वानी रथयात्राप्रसङ्गेन करसेवकान् सर्वान् बाबरीमस्जिद् स्थाने प्रार्थनां कर्तुम् आहूतवान् । एषा रथयात्रा वातानुकूलितवाहनेन अभवत् , यच्च वाहनं रथसदृशं कल्पितम् आसीत् ।गुजरात्राज्यस्य [[सोमनाथः|सोमनाथदेवालयतः]] आरब्धा यात्रा उत्तरभारते बहून् प्रदेशान् अगच्छत् । परन्तु [[बिहारम्|बिहारराज्ये]] मुख्यमन्त्रिणा लालूप्रसादेन एषा यात्रा स्थगिता । तदा अड्वानीबन्धनम् अभवत् । तदा मतीयवैषम्यस्य कारणात् बहवः मारिताः।
 
भाजपक्षस्य स्थितिः विशेषतः उत्तरभारते उत्तमा अभवत् । एतेन ध्रुवीकरणेन उच्चजातीयजनानां मतानि भा.ज.पक्षं प्रति आगतानि । ये च उच्चजातीयाः आसन् ते मण्डल् आयोगस्य कारणतः कांग्रेस्पक्षः विमुखाः आसन् ।१९९१ तमे निर्वाचने भारतीयजनतापक्षः सदस्यसंख्यया द्वितीयं स्थानं प्राप्नोत् । [[कांग्रेस् पक्षः]] प्रथमं स्थानम् अलभत ।
 
रथयात्रायाः वर्षद्वयानन्तरं,१९९२ तमे वर्षे ,कल्य़ाणसिंहस्य नेतृत्वे वर्तमानः भा.ज.पक्षस्य सर्वकारः उच्चन्यायालये यद्यपि बाब्रीरक्षणार्थं कृतप्रमाणः, आसीत् तथापि बाबरी विनाशे कारणमभवत् । कल्याणसिंहस्य सर्वकारः एतदर्थं साहाय्यमकरोत् । बाबरीमस्जिद् विनाशे अड्वानी दोषिश्वन्यतमः इति।
 
भा.ज.पक्षः, अड्वानीनायकत्वे १९९१ तः आरभ्य १९९६ पर्यन्तं विरोधपक्षत्वेन कार्यम् अकरोत्, यदा [[पी वी नरसिंहरावः]] प्रशास्ति स्म। रावस्य प्रशासनं उत्कोचयुतं, बहवः दोषाः सञ्जाताः प्रशासनेन इति भा.ज.पक्षः अवदत् । भा.ज.पक्षः एक एव पक्षः यः भ्रष्टरहितशासनं कर्तुं समर्थः इति ।
==एन्.डि. ए. सर्वकारस्य स्थापानम्==
१९९६ सार्वत्रिक निर्वाचने बाजप एकः एव पक्षः अधिकसंख्ययायुतः आसीत् ॥ राष्ट्रपतिना सर्वकारस्य घटनार्थं आहूतः। [[अटलबिहारी वाजपेयी] देशस्य प्रधानी अभवत् । परन्तु बहुकालं शासनं कर्तुम् असमर्थः। १३ मासानन्तरं वाजपेयी त्यागपत्रं दत्तवान् वर्षद्वयानन्तरम्, राजकीयवनवासेन बहिरागतः भाजपः एन्.डि.ए नेतृत्वे पुनः अधिकारग्रहणम् अकरोत् ।१९९८ तमे वर्षे वाजपेयी पुनः प्रधानमन्त्रिपदे नियुक्तः ।
[[हेच् डी देवेगौड]] तथा [[ऐ.के गुज्राल्]] नेतृत्वे अस्थिरसर्वकारः स्थापितः अनन्तरम् निर्वाचनम् अभवत् । अड्वानी देशस्य गृहसचिवः अभवत् । अनन्तरम् [[उपप्रधानमन्त्री]]पदे नियुक्तः । तदा पाकिस्थानतः उग्रगामिनाम् आक्रमणं देशस्य विभिन्न भागेषु अभवत्। वाजपेयी [[प्रधानमन्त्री]] भूत्वा भाजपनेतृत्वे, एन्.डि.ए.सर्वकारः आपञ्चवर्षं प्रशासनम् अकरोत् । अस्य सर्वकारस्य वाजपेयी प्रधानमन्त्री आसीत् । एन्.डि.ए केवलम् एकः एव तादृशः काङ्ग्रेस्भिन्नसर्वकारः यः आपञ्चवर्षं शासनम् अकरोत्।
 
आड्वानी हवालाद्वारा धनं स्वीकृतवान् इति आरोपः अभवत्। उच्चन्यायालयेन एषः आरोपः तिरस्कृतः। सि.बि.ऐ अपि एतदर्थं साक्ष्यं न प्राप्नोत् ।
तथापि सः अपराधित्वेन न परिगणितः इति सि.बि.ऐ निन्दनम् अभवत् सर्वत्र । केचन उक्तवन्तः एतेन भा.ज.पक्षः उन्नतस्थितिम् एव प्राप्नोत् इति । अन्ये केचन उक्तवन्तः एतत् केवलराजकीयप्रेरितम् इति ।
 
2004 निर्वाचनसभायां अड्वानी उद्घोषितवान् यत् ’कांग्रेस्पक्षः१०० स्थानानि अपि न प्राप्स्यति’ इति । परन्तु मतदातारः अन्यथा एव कृतवन्तः । भा.ज.पक्षः निर्वाचने पराजयं प्राप्नोत् , विरोधपक्षस्य स्थाने उपाविशत् । तदा अन्य गणः [[युनैटेद् प्राग्रेस्सिव अलयन्स्]] इति नाम्ना कांग्रेस्पक्षः अधिकारं प्राप्नोत् । ए.डि ए विभजितम् अभवत् । तेलगुदेशं पक्षः ततः निर्गत्य, युनैटेद् प्राग्रेस्सिव अलयन्स् (यु.पी.ए) सर्वकारं बाह्यतः एव समर्थनं ददाति स्म ।
 
वाजपेयी २००४ निर्वाचनानतरं सक्रियराजकीयतः निवृत्तः । अड्वानी भा.ज.पक्षस्य नेता अभवत् । अड्वानी २००४ तः २००९ पर्यन्तं लोकसभायां विरोधपक्षस्य नायकः आसीत् । अस्मिन् समये पक्षे अपि केचन विरोधिनः उदभवन् । उमाभारती, मदनलाल् खुराना, दीर्घकालिकः विरोधी मुरलीमनोहरजोशी च साक्षात् तं विरुध्य आरोपाणि कृतवन्तः। २००५ तमे वर्षे यदा स पाकिस्थानदेशे जिन्ना स्मारकं प्रति गतवान् यत् च [[कराची]] मध्ये अस्ति । कराची अड्वाणीमहोदयस्य जन्मस्थानम् अस्ति । तत्र सः उक्तवान् ’[[मोहम्मद् आलि जिन्ना]] जात्यतीतः नायकः इति । भारते सर्वत्र जनाः एतं वादं तिरस्कृतवन्तः । तस्मिन् विश्वासः कुण्ठितः अभवत् । राष्ट्रियस्वयंसेवकसङ्घाय तु एतस्य वचनं न अरोचत। अतः सः पक्षाध्यक्षस्थानं त्यक्तवान् । परन्तु सः केषाञ्चन दिनानां अनन्तरं पुनः अध्यक्षपदवीं आरूढः।
 
यदा राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः [[के.एस् सुदर्शनः]] उक्तवान् “आड्वानीवाजपेयिभ्यां च नूतनजनानां कृते नायकपदवी दातव्या” इति तदा अड्वानी-रा.स्व.सङ्घ्योः परस्परं मैत्रीभावः दूरङ्गतः। मुम्बैनगरे प्रवृत्ते भाजपरजतमहोत्सवसन्दर्भे अड्वानी स्वपदवीं त्यक्तवान् । राजनाथसिंहः यश्च उत्तरप्रदेशराज्यीयः , राजकीये कश्चन कनिष्ठः अध्यक्षत्वेन निर्वाचितः । २००६ मार्च मासे , हिन्दूनां पवित्रतमे क्षेत्रे वाराणस्यां विस्फोटः अभवत्, तदा अड्वानी भारतसुरक्षायात्राम् आरब्धवान् , तेन प्रतिपादितं ’युनैटेद् प्राग्रेस्सिव अलयन्स् (यु.पी.ए) तावत् उग्रवादिनां निग्रहणे असमर्थम्’ इति ।
==प्रधानमन्त्रिस्थानस्य अभ्यर्थी==
२००६ तमे वर्षे एकस्याम् वार्तागोष्ठ्यां , सः उक्तवान् “प्रजाप्रभुत्वे, विरोधपक्षस्य नायकः सन् प्रधानमन्त्रिपदस्य अभ्यर्थी अहम् । निर्वाचनम् २००९ वर्षस्य मेमासे १६ दिनाङ्के भविष्यति” इति । एतद् वाक्यं बहूनां सहोद्योगिनां कृते अपि अपथ्थ्यं सञ्जातम् , ये च तं प्रधानमन्त्रिस्थानस्य कृते नेच्छन्ति स्म ।
 
मुख्यः अंशः नाम भा.ज.पक्षे , वाजपेयी अनन्तरम् बलावान् नायकः एषः एव । वाजपेयी अपि एतमेव इच्छति स्म प्रधानमन्त्रि-अभ्यर्थित्वेन। २००७ तमवर्षस्य मे मासस्य द्वितीये दिनाङ्के कस्मिंश्चित् सन्दर्शने [[राजनाथसिंहः]] अवदत् ’एषः एव प्रधानमन्त्री भवितुं अर्हः अभ्यर्थी । अटल- अनन्तरम् एकः एव अड्वानी । स एव प्रधानी भवेत् ।२००९ तमवर्षस्य निर्वाचने सः एव प्रधानमन्त्रिस्थानस्य अभ्यर्थी’ इति। भाजपसंसदीयमण्डल्या अपि उद्घोषितम्।
 
परन्तु पक्षस्य अन्तः पक्षात् बहिः च तस्य विद्यार्हता , प्रशासनकौशलस्य च विषये विरोधः प्रकटितः अभवत् ।
२००९ तमे निर्वाचने भारतीय-राष्ट्रिय-कांग्रेसपक्षस्य गणः जितवान्। मनमोहनसिंहः एव प्रधानमन्त्रिपदे अन्ववर्तत । लोकसभानिर्वाचने पराजितः पक्षस्य एल् के अड्वानी विरोधपक्षस्य नेतृत्वं [[सुष्मास्वराज्]] कृते प्रदत्तवान् ।
"https://sa.wikipedia.org/wiki/लाल_कृष्ण_आडवाणी" इत्यस्माद् प्रतिप्राप्तम्