"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
==विषयाः==
समाजस्य विधिव्यवस्थां लक्षीकृत्य सर्वविधा विषया भगवता मनुना स्वसंहतियां सन्निवेशिताः सन्ति । मनुस्मृतौ द्वादश अध्यायाः सन्ति । आहत्य २६९४ श्लोकाः सन्ति । तेषु प्रथमेऽध्याये सृष्टिरचना तथा प्राणिनाम् उत्पत्तिः, द्वितीयेऽयाये जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरोरभिवादनविधिः विचारितः । ततस्तृतीयेऽध्याये समावर्त्तन-विवाह-नित्यश्राद्धादीनां विचारः । चतुर्थेऽध्याये ऋतप्रमुतादिजीविकानां लक्षणं स्नातकधर्माश्च प्रतिपादिताः । ततः पञ्चमाध्याये भक्ष्याभक्ष्यप्रकरणस्य विचारः, द्रव्यशुद्धिविचारः, अशौचविचारश्च कृतः । तदनु षष्ठाध्याये वानप्रस्थाश्रम-सन्यासाश्रमयो धर्माः, सप्तमेऽध्याये राजधर्मः, अष्टमाध्याये व्यवहारपदानां विवेचनम्, साक्षिप्रश्नविधानञ्च, नवमाध्याये दायभागः, स्त्रीपुंधर्म द्यूतसमाहवयादि -विवादपदानि विवेचनानि, दशमाध्याये आपद्धर्मः जातिवर्णविवेकश्च विचारितः, एकादशाध्याये पापानां विविधत्वम्, प्रायश्चित्तानां च विचारः कृतः । द्वादशाध्याये कर्मानुसारेण सांसारिकगतयः देशधर्म-जातिधर्मादीनां च विवेचनं कृतम् । इयञ्चोपलब्धा मनुस्मृतिः भृगुप्रोक्तेति कथ्यते ।
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । ।
 
==टीकाः==
अस्याः स्मृतेरुपरि नवटीकाः प्रकाशिताः सर्वत्र ममुपलभ्यते । तासु कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा प्रामाणिकी विद्वज्जनादृता चेति वक्तुं शक्यते । एवमेव तपोमहत्त्वस्य तथा कृतकर्मणां च फलादीनां वर्णनमपि साङ्गेपाङ्गतया दृश्यते । मनुष्याणां नियमविधिः, अध्ययनाध्यापनविधिः, राजधर्मः, गार्हस्थ्यधर्मः, तथा वर्णाश्रमानुकूलानां धर्माणां सर्वविधोपायश्च सर्वं किञ्चित् मनुस्मृतौ वर्णितमस्ति, यस्या अनुशीलनेनावश्यं मनुष्यः सम्यक्तया सचेतनः पूतचित्तो नागरिकः सन् समाजे जनकल्याणं साधयितुं क्षमो भवेत् । सर्वासामितरासां स्मृतीनां ‘मनुस्मृतिः’ मूलाधारो भवतीति कथनं सर्वथा समीचीनमिति ।
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्