"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४५:
आवर्षम् अत्र शीतकालः इव उत्तमं वातावरणं भवति । फेब्रुवरीमासे मरीचस्य पक्वकालः । एप्रिल्मासे काफीसस्यानि पुष्पितानि भवन्ति । तदा तेषां सुगन्धः अत्यन्तम् आह्लादकरः भवति । मे मासे हरितानि बीजानि रक्तानि भवन्ति । काफी सस्ये फलानां पक्वभवनस्य कालः । मनमोहकं काफिवाटिकादृश्यं रमणीयं भवति ।
[[कावेरी]]नदी सदा जलपूर्णा प्रवहति । तत्र तत्र अनेके जलपाताः निर्मिताः सन्ति वर्षाकाले नदीजलं भयं जनयति । जलपातेषु अधिकं जलं तदा पतति । जूनमासे वर्षारम्भः भवति । नव रात्रिपर्यन्तं वृष्टिः भवति । तलकावेर्यां जलोद्गमः , दसरामहोत्सवः , हुत्तरिपर्व कोडगुमण्डले अतीव वैभवयुक्तानि पर्वाणि सन्ति ।
मडिकेरीतः [[तलकावेरी]] ४६ कि.मी दूरेऽसि । अत्रैव कार्वर्याः उद्गमस्थानम् अस्ति । इर्प्पुजलपातम् अब्बीफल्स् सदा जलपूर्णानि दर्शकाणां आनन्ददायकानि भवन्ति । कुशालनगरसमीपे कावेरीनिसर्गधाम सुन्दरम् अस्ति ।
कोडगुप्रदेशे पादचारणाय माकुट्ट, बर्पोळे नीलं पोले प्रदेशाः अतिजनप्रियाः । इग्गुतप्प, तडियण्ड् मोळ्, चिन्ननप्प शिखरारोहणं साहसयात्रा एवास्ति । तडियण्ड् मोळ् सागरस्तरतः ५००० पादोन्नतम् अस्ति । सोमवारपेटे पुष्पगिरि कुमारपर्वतशिखरं च पादचारणाय विशिष्टानि सन्ति ।
 
 
Line ६८ ⟶ ७०:
मार्गः मडिकेरीतः ६२ कि.मी.
बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
३.[[मडिकेरी]]
कोडगुप्रदेशे [[मडिकेरी]]गिरिधाम सागरस्तरतः ३८०० पादोन्नते स्थलेऽस्ति । राजासीट् उद्यानं निसर्गसुन्दरं रम्यं स्थलम् । इतः सूर्यास्तदर्शनं शालीक्षेत्राणां दर्शनं, वाटिकादर्शनम् अतीव सन्तोषाय भवति । प्रतिवर्षं राजासीटप्रदेशे फलपुष्पप्रदर्शनम् अत्युत्तमतया आयोजितं भवति । उद्यानवने सन्ध्यारागनामकः कश्चन कार्यक्रमः भवति । इदानीम् अत्र लघुधूमशकटं बालानां विनोदसञ्चाराय निर्मितम् अस्ति ।
मडिकेरीदुर्गम् एतिहासिकं भवनमस्ति । अत्र विशालं राजगृहं, प्राच्यवस्तुसङ्ग्रहालयः, जिल्लाकेन्द्रीयन्थालयः, कोटेगणपतिदेवालयः आकर्षकाः सन्ति । दुर्गस्य रचनायाः विशेषः नाम षड्कोणाकारकः तलविन्यासः । षट्कोणेषु कोत्तलु (विशेषदर्शकस्थानम्) निर्मितम् अस्ति दर्शकस्थानं वृत्ताकारकम् अस्ति ।
राजगृहस्य मृच्छदः आङ्ग्लैः आनीतः अस्ति । सुन्दरभवनस्य द्विस्तरीयानि तोरणानि, चौकाकाराणि वातायनानि, काचकैः सम्यगलङाकृतानि सन्ति । विशालजलाशये कश्चन लघु शिलाकूर्मः अस्ति । गजाकृतयः जीवन्त्यः इव सन्ति । नगरे ओङ्कारेश्वरमन्दिरं राज्ञां मृतस्मारकाणि दर्शनीयानि सन्ति ।
ओङ्कारेश्वरमन्दिरं क्रिस्ताब्दे १८२० तमे वर्षे गार्थिक्-इस्लामिक् मिश्रशैल्या निर्मितम् ।
==मार्गः==
कोडगुमण्डले धूमशकटमार्गः नास्ति।
===वाहनमार्गः===
[[बेङ्गळूरु]]तः २६० कि.मी । [[मैसूरु]]तः १३४ कि.मी वसत्याः कृते मडिकेरी भागमण्डलम् इत्यत्र व्यवस्थाः सन्ति । (मङ्गळूरुतः १३५ कि.मी।) कुशालनगरम् इत्यादिस्थलेषु उपाहारगृहाणि सन्ति ।
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्