"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७०:
मार्गः मडिकेरीतः ६२ कि.मी.
बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
 
:३.[[मडिकेरी]]
३.[[मडिकेरी]]-कोडगुप्रदेशे [[मडिकेरी]]गिरिधाम सागरस्तरतः ३८०० पादोन्नते स्थलेऽस्ति । राजासीट् उद्यानं निसर्गसुन्दरं रम्यं स्थलम् । इतः सूर्यास्तदर्शनं शालीक्षेत्राणां दर्शनं, वाटिकादर्शनम् अतीव सन्तोषाय भवति । प्रतिवर्षं राजासीटप्रदेशे फलपुष्पप्रदर्शनम् अत्युत्तमतया आयोजितं भवति । उद्यानवने सन्ध्यारागनामकः कश्चन कार्यक्रमः भवति । इदानीम् अत्र लघुधूमशकटं बालानां विनोदसञ्चाराय निर्मितम् अस्ति ।
मडिकेरीदुर्गम् एतिहासिकं भवनमस्ति । अत्र विशालं राजगृहं, प्राच्यवस्तुसङ्ग्रहालयः, जिल्लाकेन्द्रीयन्थालयः, कोटेगणपतिदेवालयः आकर्षकाः सन्ति । दुर्गस्य रचनायाः विशेषः नाम षड्कोणाकारकः तलविन्यासः । षट्कोणेषु कोत्तलु (विशेषदर्शकस्थानम्) निर्मितम् अस्ति दर्शकस्थानं वृत्ताकारकम् अस्ति ।
राजगृहस्य मृच्छदः आङ्ग्लैः आनीतः अस्ति । सुन्दरभवनस्य द्विस्तरीयानि तोरणानि, चौकाकाराणि वातायनानि, काचकैः सम्यगलङाकृतानि सन्ति । विशालजलाशये कश्चन लघु शिलाकूर्मः अस्ति । गजाकृतयः जीवन्त्यः इव सन्ति । नगरे ओङ्कारेश्वरमन्दिरं राज्ञां मृतस्मारकाणि दर्शनीयानि सन्ति ।
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्