"अमरकोशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''अमरकोशः''' ([[आङ्ग्लभाषा]]:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः '[[निघण्टुः]]' इति कथ्यते। नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७)। 'अर्थान् निघण्ट्यत्यस्मात् निघण्टुः परिकीर्तितः'।अत्र शब्दानां सङ्ग्रहः, समानार्थकाः पर्यायशब्दाः, अनेकार्थकाः शब्दाः च अत्र उपलभ्यन्ते ।[[संस्कृतम्|संस्कृते]] सर्वविधानां कोशानां मूलम् अस्ति वैदिकनिघण्टुः। [[यास्कः|यास्के]]न रचितः [[निरुक्तः]] अस्य [[वैदिकनिघण्टुः। वैदिकनिघण्टोः]] भाष्यम्।
:अमरकोशस्य कर्ता [[अमरसिंहः]]। एषः चतुर्थे शतके द्वितीय-चन्द्रगुप्तस्य आस्थाने विद्यमानेषु [[ नवरत्नानि|नवरत्नषेुनवरत्नेषु]] अन्यतमः आसीत् इति श्रूयते। केचन वदन्ति अयं सप्तमे शतके विक्रमादित्यस्य आस्थाने आसीत् इति। '[[नामलिङ्गानुशासनम्]]' इत्येतत् अस्य अपरं नाम वर्तते। अत्र शब्दानाम् अर्थेन सह लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं ग्रन्थः अत्युपयुक्तः वर्तते ।
==ग्रन्थस्वरूपम्==
अमरकोशः श्लोकरूपेण रचितः अस्ति। अतः कण्ठपाठार्थं बहु सुलभं भवति। अमरकोशे त्रीणि काण्डानि (अध्यायाः) सन्ति। स्वर्गादिकाण्डं, भूवर्गादिकाण्डं,सामान्यादिकाण्डम् चेति। एकैकस्मिन् काण्डे अनेके वर्गाः सन्ति। विषयानुगुणं शब्दाः अत्र वर्गीकृताः सन्ति। नानार्थवर्गे विषयविभागः अशक्यः इत्यतः अत्र अन्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतम् अस्ति।शब्देन सह अत्र लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं कोशः अत्यन्तम् उपयुक्तः अस्ति।
"https://sa.wikipedia.org/wiki/अमरकोशः" इत्यस्माद् प्रतिप्राप्तम्