"गोकाकजलपातः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding pnb:گوکک چھمبر; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १:
[[चित्रम्:Gokak Falls.jpg|thumb|300px|'''गोकाकजलपातः''' ]]'''गोकाकजलपातः''' – [[कर्णाटक]]राज्ये [[बेळगावीमण्डलम्|बेळगावीमण्डले]] मण्डलकेन्द्रतः ७२कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७कि.मी.दूरे एव कर्णाटकस्य नयागरा इति कथ्यमाना गोकाक् जलपातः दृश्यते । तत्र [[घटप्रभा]] नदी १८०मी. गहने कन्दरे पतति ।एतस्या। एतस्या: वैशाल्यमंवैशाल्यं १७६ मीटर् । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७मी. दीर्घः दोलासेतुः निर्मितः । इतः दृष्टुम् अधिकं धैर्यम् आवश्यकं भवति यतः नद्यः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति यः स्पृशति सः निमज्जति एव । जूनमासतः अक्टोबर पर्यन्तं जलपातविक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति ।
बहुकालपर्यन्तम् एषः जलपातः अदृष्टः एव आसीत् । कयामल् नाम आङ्गलाधिकारी मृगयार्थं आगतः जलपतनशब्दं श्रुत्वा अत्र अगतवान् । अतीवसुन्दरं जलपातं दृष्ट्वा बहुसन्तुष्टः अभवत् । घटप्रभानद्या निसर्ग निर्मितः जलपातः भारतीयनयागराजलपातः इति ख्यातः अस्ति । १७६ मीटरोन्नतप्रदेशात् १८० पादविस्तृतवक्रप्रदेशतः जलं पतति । त्रिकिलोमीटरतः एव जलपातशब्द- श्रवणं भवति । पुरतः यदा सूर्यः आगच्छति तदा इन्द्रधनुषः निर्माणम् अतीव सुन्दरं भवति । जलधारासु वर्णविन्यासः अपूर्वः भवति ।
जलं कार्पासः इव अधः पतति । परितः वनप्रदेशः वृक्षाः सुन्दरवातावरणं च आकर्षकाणि सन्ति । वृक्षेषु पक्षिणां कलरवः सदा भवति । अत्रैव समीपे नदीतरणाय कृतः २०१ मीटरदीर्घः तोलनसेतुः अस्ति । क्रिस्ताब्दे १८८७ तमे वर्षे अयोरज्जुभिः निर्मिता इयं सेतुः इदानीमपि कार्यरता अस्ति ।
वर्षकाले एव जलपातदर्शनं मनोहरम् । प्रतिदिनं जनाः सहस्रशः आगच्छन्ति । जलबन्धकारणात् सर्वदा जलं भवति । तथापि विशेषतः ग्रीष्मकाले जलम् अल्पं पतति ।
==मार्गः==
===धूमशकटमार्गः===
[[पुणे]]-हुब्बळ्ळीमार्गे गोकाकधूमशकटनिस्थानम् अस्ति । ततः १५.कि.मी ।
===वाहनमार्गः===
[[बेळगावी]]तः ५८ कि.मी । बेङ्गळूरुतः ५३६ कि.मी । [[बेळगावीतः प्रति पञ्चदशनिमेषेषु एकं वाहनं गच्छति ।
समीपस्थं विमान निस्थानम् –बेळगावी
 
अस्य जलपातस्य विशेष: नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टि: अभवत् । शिला: उपरितनेन भारेन भग्ना: भूत्वा ताः द्विधा विभक्ताः भवन्ति । एक: भाग: अध: अपसरति । नद्या: जलं उपरिष्टात् अध: अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपात: रचित: अस्ति । अत: एतस्य विशालता अधिका अस्ति ।
[[चित्रम्:Gokak Falls-Hanging Bridge.jpg|left|250px|thumb|'''दोलासेतुः''']]
== सम्पर्कः ==
 
राजधानीबेङ्गळूरुतः बेळगावीपर्यन्तं रेल् यानानि अधिकानि सञ्चरन्ति । सर्वकारीयाणि बस् प्रतिरात्रं चलन्ति । बेङ्गळूरुतः साक्षात् गोकाक् पर्यन्तं गत्वा ततः ६कि.मी.दूरं भाटकयानेन सञ्चरितुं शक्यते । भोजनावासादिव्यवस्थाः गोकाक् पत्तने भवितुमर्हति । जलपातस्य परिसरे वसतिभोजनादिव्यवथा अस्ति किन्तु मिता अस्ति ।
 
[[वर्गः:कर्णाटकस्य जलपाताः]]
"https://sa.wikipedia.org/wiki/गोकाकजलपातः" इत्यस्माद् प्रतिप्राप्तम्