"चम्पानेरपावागढपुरातत्त्वोद्यानम्" इत्यस्य संस्करणे भेदः

चम्पानेरस्य पावागडस्य पुरातत्त्वविभागस्य उद... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
चम्पानेरस्य पावागडस्य पुरातत्त्वविभागस्य उद्यानम् युनेस्को निश्चितं विश्वपरम्परास्थानं [[भारतम्|भारते]] स्थितम् अस्ति । विश्वपरम्परावल्यां क्रि.श. २००४तमे वर्षे संयोजितम् । अत्र अतिविशाले स्थाने [[भारतससर्वकारः|भारतससर्वकारस्य]] पुरातत्त्वविभागद्वारा उत्खननेन प्राप्तानि ऐतिहासिकानि सांस्कृतिकानि वस्तूनि प्राप्तानि। तेषु प्रागैतिहासिकविशिष्टस्थानानि, प्राचीनहिन्दुसाम्राज्यस्य राजधानीभवनं दुर्गाः, सप्तदशतमशतकस्य गुजरातप्रदेशस्य राजधान्यवशेषाः, मुख्याः भवन्ति । अपि च अत्र अष्टमशतकतः चतुर्दशशतकपर्यन्तकाले निर्मिताः दुर्गाः, प्रासादाः, धार्मिकभवनानि, आवासीयभवनानि, कृषिकर्मसम्बद्धवस्तूनि, कृषिकर्मनिर्माणानि, इत्यादीनां भग्नावशेषाः सन्ति ।
 
==हिन्दुतीर्थस्थानम्==
[[चित्रम्:Champaner003.jpg|250px|thumb|left|]]
पावागढपर्वतस्य मस्तके निर्मितः कालिकादेवालयः अतिप्राचीनं अतिपवित्रस्थानम् इति जनविश्वासः । अत्र आवर्षं सहस्रशः श्रद्धालवः आगच्छान्ति । एतत् किञ्चिद्विशिष्टं स्थानं यतः बहुकालं मुगलानां प्रशसने आसीदपि महम्मदीयपरिवर्तनं न प्राप्तम् । अस्य पत्तनस्य विषये वास्तुज्ञः करणग्रोवरः विशेषं लक्ष्यं दत्तवान् यः अस्त्र बहुकालम् एतत् पत्तनं पुनस्थापयितुं परिश्रमेण कार्यं कृतवान् । [[भारतम्|भारतस्य]] एतां सांस्कृतिकसम्पत्तिं संरक्षितुम् अस्य योगगानं महत् अस्ति ।
[[चित्रम्:Hdr champaner.jpg ‎|250px|right|thumb|]]
 
 
==बाह्यानुबन्धाः==