"बेलूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६२:
}}
 
[[File:Belur statue.jpg|thumb|rightlef|300px|'''दर्पणसुन्दरी''']]
[[File:Belur 1.jpg|thumb|'''चेन्नकेशवमन्दिरम्''']][[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५x३९६ पादपरिमितः अस्ति । महाराजः [[विष्णुवर्धनः]] अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।
[[कर्णाटकम्|कर्णाटकप्रदेशे]] पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तम् प्रसिद्धाः च आसन् । [[होय्सळाः|होय्सळानाम्]] अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।
"https://sa.wikipedia.org/wiki/बेलूरु" इत्यस्माद् प्रतिप्राप्तम्