"बिजापुरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[बिजापुरम्|बिजापुरं]] दक्खनप्रान्तस्य राजधानी आसीत् । दक्षिणभारते बिजापुरनगरे अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः ।
बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु [[बिजापुरमण्डलम्]] अपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररुपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामीचालक्यमहाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २००वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।
==[[गोल् गुम्बज़्गुम्बज़]]==
[[बिजापुर]]नगरस्थेषुबिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तिम् अगच्छत् । उत्तमयवनकलाकारैः करकुशलताम् उपयुज्य अतीवसुन्दरतया एतस्य निर्माणं कृतम् । भारतस्य एतत् गोलगुम्बज् वास्तुशिल्पेतिहासे विश्वस्य प्रमुखादभुतम् इति प्रख्यातम् ।
पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् ।
इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् ।
"https://sa.wikipedia.org/wiki/बिजापुरम्" इत्यस्माद् प्रतिप्राप्तम्