"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Bhaskar Bhatt Joshi इति प्रयोक्त्रा छत्तीसघडराज्यम् इत्येतत् छत्तीसगढराज्यम् इत्येतत् प्रति चालितम् |
No edit summary |
||
पङ्क्तिः ३१:
अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति। परुशराम नामि तथा वल्लभाचार्यादीनां केचन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति। महर्षि महेशः योगि इति प्रख्यातः हिन्दूमुखण्डः तथा हरिकथाकारश्च आसीत्। अयं जबल्पुर प्रदेशीयः आसीत्। अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति। तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जातयः। अरण्यप्रदेशेषु विद्यमानाः जातयः गोण्ड, हल्बा, कमार् उत बुज्ज् तथा ओरयान् इत्यादयः भवन्ति।
==प्रवासोद्यमः==
[[File:Chitrakot panoramic.jpg|right|580px|thumb| '''सूरज् पूर् जलपातः''']]
छत्तीसगढ [[भारतम्|भारतस्य]] हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरंपरागतं प्रकृतिरम्यञ्च भवति। अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकानि’, ’वन्यजन्तवः’, ’बौद्धधर्मसंबन्धितानि’ स्थलानि च सन्ति। एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते। आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते। “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति। अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति। अस्य देवालयस्य निर्मितकालः ७ तम शतकादारभ्य ११ तम शतमानं भवेदिति। अयं देवालयः [[कवार्धाद]] समीपे अस्ति। इतः १८ कि.मि भवति देवालयः विद्यते। "गिरौध् पुरि" सत्नामीधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले भवतः। [[चीनः|चीनदेशस्य]] इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत्। इतः २० कि.मि. दूरे “तालारुद्रः”प्रख्यातदेवालयः अस्ति। ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति। [[जञ्जिगिर्]] क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति। [[खरोद्]] क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति। [[शियोरिनारायण्]] क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति। [[सिङ्घ्पूर्]] प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति। [[राजिम् भगवान्]] क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति। [[रतन्पुर्|रतन्पुरे]] महामायायाः देवालयः अस्ति। अत्रैव [[रतन्पुर्|रतन्पुरे]] [[खुदिया]] जलबन्धः, [[खुताघाट्]] जलबन्धः तथा [[लोर्मि]] जलबन्धाश्च सन्ति। “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति। “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम्।
|