"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
<br>
<br>
अयं [[काव्यशास्त्रम्|काव्यशास्त्रस्य]] विषयः अस्ति ।
 
अलङ्कारशब्दस्य व्युत्पत्तिः डुकृञ् (कृ)-धातुना अण् प्रत्ययं कृत्वा भूषणार्थे अलं-शब्देन समासं कृत्वा भवति । अलङ्कारः काव्यस्य भूषणं भवति यथा अङ्गद-कुण्डलादयः मनुष्यस्य भूषणानि भवन्ति । तथैव ते काव्यस्य सौन्दर्योत्कर्षहेतवः भवन्ति । अलङ्कारस्योपरि अनेकैः आचार्यैः विशदः विमर्शः कृतः । काव्यस्य सौन्दर्यविधायकेषु तत्त्वेषु अलङ्कारस्य कियत् स्थानम् कियत् प्राधान्यं वा इति विषये आचार्येषु मतभेदः वर्तते। परन्तु काव्योत्कर्षे अलङ्काराणाम् अत्यधिकं महत्त्वम् अस्ति इति मतं सर्वे अङ्गीकुर्वन्ति । काव्यस्य सौन्दर्यविधायकतत्त्वेषु कस्य तत्त्वस्य प्राधान्यम् आत्मतत्त्वत्वं वा इति मतमधिकृत्य काव्यशास्त्रस्य अनेके सम्प्रदायाः विकसिताः । [[अलङ्कारसम्प्रदायः]] अपि एतेषामेकः अस्ति । सम्प्रदायानां, तेषां प्रवर्तकाचार्याणां, प्रवर्तकग्रन्थानां च नामानि एतानि सन्ति -
पङ्क्तिः २०:
==सङ्ख्याविषयः==
अलङ्काराणां संख्याविषयेमतभेदाः दृश्यन्ते । भरतो यमकाख्यमेकं शब्दालङ्कारं, उपमादीपकरूपकाख्यान् त्रीनर्थालङ्कारांश्च प्रत्यपादयत् । अग्निपुराणेऽष्टौ, [[विष्णुधर्मोत्तरपुराणम्|विष्णुधर्मोत्तरपुराणे]] सप्तदश चालङ्काराः वर्णिताः । दण्डी पञ्चत्रिंशत्, भामहोद्भटौ षट्त्रिंशत्, च अलङ्कारान् कथयामासुः । मम्मटः एकषष्टिसंख्याकान्, [[विद्यानाथः]], षट्षष्टिसंख्याकान् (रसवदादिभिस्सप्तभिर्मेलने त्रिसप्तातिः), [[विश्वनाथः]] नवसप्ततिसंख्याकान् जयदेवः एकाधिकशतसंख्याकान्, [[अप्पय्यदीक्षितः]] एकविंशत्युत्तरशतसंख्याकान् च, अलङ्कारान् पर्यगणयन् । शोभाकरमिश्रोऽलङ्कारसंख्यामितोऽप्यवर्धयत् । भरतप्रोक्तानि भूषणानि, लास्याङ्गानि, नाट्यालङ्काराः , केचित्सन्ध्यङ्गानि चार्वाचीनैरालङ्कारिकैरलङ्कारेषु विन्यस्तानि । किमिमे सर्वेऽप्यलङ्काराः भवन्ति ? केचनालङ्काराः अलङ्कारान्तरेषु, अन्तर्भावयितुं शक्यन्ते वा ? इति विमर्शो रसगङ्गाधरे परिदृश्यते ।
 
==विभागाः==
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धमाना दृश्यते । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यते । ततः भामहः काव्ये अलङ्काराणां महत्त्वम् उपलक्ष्य [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
 
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
* [[शब्दालङ्कारः]]
* [[अर्थालङ्कारः]]
शब्दालङ्काराः अर्थालङ्काराश्चेति भेदेन प्राधान्येनालङ्काराः द्विविधाः भवन्ति । केचिदुभयालङ्काराः इति तृतीयमपि भेदमाहुः । अर्थमनपेक्ष्य शब्दं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराश्शब्दालङ्काराः उच्यन्ते । अर्थं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराः अर्थालङ्काराः भवन्ति । शब्दार्थाश्रयाः अलङ्काराः उभयालङ्काराः कथ्यन्ते ।
 
अनुप्रासयमकादयश्शब्दालङ्काराः उपमारुपकादयोऽर्थालङ्काराः, पुनरुक्तवदाभासलाटानुप्रासादयः , उभयालङ्काराः भवन्ति । भोजः सरस्वतीकण्ठाभरणे शब्दालङ्काराः बाह्याः, अर्थालङ्काराः आभ्यन्तराः इति व्याजहार । जाति- गति- रीति- वृत्ति- च्छाया –मुद्रा –शय्यादयोऽपि शब्दालङ्काराः एवेति निश्चिकाय । औचित्यमनुसृत्य प्रयुक्ताश्शब्दालङ्काराः पाठकानामानन्दमभिवर्धयन्ति । संस्कृतकवयो वनयुध्दवर्णनादि सन्दर्भेषु शब्दालङ्कारान्बहुविधान् समायोजितवन्तः । आन्ध्रभाषाकवयोऽपि वन- जल- क्रिडा- पुष्पापचय-प्रभृति वर्णनेषु शाब्दालङ्कारप्रीतिमदर्शयन् । वस्तुतश्छन्दोयुक्ता रचनैव शब्दालङ्काररुपा इति केचिद्वदन्ति । अर्थालङ्काराणां योजनेन कवेः प्रतिभाकौशलमतीवाऽभिव्यज्यते । आनन्दजनकाः भावरामणीयकचमत्काराः एव मूलमलङ्काराणाम् । यद्यप्यलङ्कारास्समग्रलक्षणलक्षिताः भवन्ति , तथापि तेषामङ्गिसैन्दर्यजनकता यदि न स्यात्तदा तेऽलङ्काराणां प्रधानं कार्यमिति वदन्त्यालङ्कारिकाः । अलङ्काराः यदा ललनाशरीरमधिष्ठाय सौन्दर्यमभिवर्धयन्ति तदैव तेऽलङ्काराः शब्दवाच्या भवन्ति, न तु पेटिकास्थिता अलङ्काराः । एवं रसध्वन्युपरस्कारकाणामेवालङ्काराणामलङ्कारता सिध्यति । अन्यथा ते केवलमर्थचित्रा भवन्ति । केचित् रसमप्यलङ्कारं भावयन्ति । तन्न युक्तम् । यतो रसो न कमप्यलङ्करोति । अपि तु स्वयमलङ्कार्यो भवति । यो हयप्रधानो जायमानः अन्यमलङ्करोति स एवालङ्कारशब्दव्यपदेश्यो भवति । अतो रसः केवलमलङ्कार्यो भवति, न त्वलङ्कारः ।
 
===प्रतापरुद्रीयेऽलङ्काराणां विभागः इत्थं परिदृश्यते ।===
 
:रुपक- परिणा सन्देहादयः (१६) प्रतीयमानौपम्याः । एष्वौपम्यं व्यङ्ग्यतया भासते न तु वाच्यतया ।
:समोसोक्ति – पर्यायोक्ति – आक्षेप- परिकरादयः (१०) प्रतीयमान वस्तुकाः । एषु वस्तु व्यङ्ग्यतयाऽवभासते ।
:रसवत् –प्रेय –ऊर्जस्वि- समाहित – भावोदय- भाव शान्ति – भावसन्धि – भावशबलताः (८) प्रतीयमानरसभावाः । एतेषु रसभावाः व्यङ्ग्यतयाऽभिव्यज्यन्ते । :शिष्टाः उपमादयोऽलङ्काराः (४०) अस्फुटप्रतीयमानौपम्यरसभावाः । एषु वस्तु – रस –भाव- औपम्यादयोऽस्फुटतया केवलं प्रतीयन्ते ।
 
:# साधर्म्य – विरोधादि मूलकतयाऽलङ्कारा द्वादश विद्या विभक्ताः । रुपक परिणामादयः (७) अभेद प्रधान साधर्म्याः ।
 
:# दीपकतुल्ययोगितादयः (८) भेदप्रधानसाधर्म्याः ।
 
:# उपमा – अनन्वयादयः (४) भेदाऽभेदप्रधानसाधर्म्याः ।
 
:# एवं साधर्म्यमूलकाः अलङ्कारा (१९) एकोनविंशति भेदभिन्नाभवन्ति ।
 
:# उत्प्रेक्षाऽतिशयोक्त्य्लङ्कारौ (२) अध्यवसायमूलौ ।
 
:# उपमेयं वाच्यतयाऽनुक्त्वा उपमानमात्रमुक्त्वा तयोरभेदकथनमध्यवसायः उच्यते ।
 
:# विभावना विशेषोक्त्यादयः (१०) विरोधमूलाः । एषु कार्यकारणवैरुध्यमुपलक्ष्यते ।
 
:# यथासंख्य- परिसंख्य- प्रभृतयः (५) वाक्यन्यायमूलाः भवन्ति । वाक्यन्यायमीमांसाशास्त्रसम्बध्दाः भवन्ति ।
 
:# परिवृत्ति- प्रत्यनीक –प्रभृतयः (८) लोकव्यवहारमूलाः ।
 
:# काव्यलिङ्ग – अनुमान –अर्थान्तरन्यासाः (३) तर्कन्यायमूलाः ।
 
:# कारणमाला एकावली – मालादीपकसाराः (४) श्रृङ्खलावैचित्र्यमूलाः । हारस्थानां मौक्तिकानां रत्नादीनां च पौर्वापर्यसम्बन्धेन सौन्दर्यातिशयो यथा भवति तद्वदत्रापि वैचित्र्यं भवति ।
 
:# व्याजोक्ति- अपह्नवौ (२) विशेषणवैचित्र्यमूलकौ भवतः ।
 
:# शिष्टाः श्लेषादयः (३) केवलालङ्काराः भवन्ति । अत्र न कस्यापि न्यायादेरपेक्षा वर्तते ।
केचित् पुनः शास्त्रीयांशानां प्रवेशमालम्ब्य अलङ्कारान् व्याकरणमूलकाः, मीमांसामूलकाः, न्यायशास्त्रमूलकाः, वेदान्तशास्त्रमूलकाः इति व्यभजन् ।
प्राचीनालङ्कारिकाः केचिदुपमायाः , अन्ये वक्रोक्तेः , अपरे श्लेषस्य च प्राधान्यमदुः । वामनः, उपमालङ्कारं सर्वालङ्कारबीजभूतममन्यत । अतोऽयमुपमागर्भानलङ्कारान् विस्तरेण प्रत्यपादयत् । अर्वाचीनाः आलङ्कारिकाः वामनमतमेवाऽनुसरन्तः, स्वीयग्रन्थेषु उपमायाः प्राथम्यं प्राधान्यं चाकल्पयन् । दण्डी बहून् उपमालङ्कारभेदानकथयत् । अप्पय्यदीक्षितश्चित्रमीमांसायां –
 
:'''उपमैका शैलूषी संप्राप्ता चित्र भूमिका भेदान् ।'''
:'''रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥'''
Line ६२ ⟶ ८४:
आनन्दवर्धनः काव्येऽलङ्कारप्रयोगसन्दर्भे कविना पालनीयान् नियमान् समीक्षाप्रकारांश्च निरवोचत् । अलङ्कारास्समुचिते समये स्वीकरणीयाः । ते अप्रयत्नसिध्दा भवेयुः । ते रस परन्त्रतया विन्यसनीयाः । अलङ्कारस्याद्यन्तं पोषणं कर्तव्य मित्यभिनिवेश सत्याज्यः । अलङ्कारा स्सर्वदाऽङ्गभूता भवेयुः । प्रतिभावतां कवीनां काव्येषु, अलङ्कारा अपृथग्यत्न निर्वर्त्य महमहमिकया परापतन्ति । मनोरञ्जकानां वाक्प्रकाराणा मनन्ततयाऽलङ्कारा अपि, अनन्ता भवेयुः । तेषां प्रत्येकशो निरुपणं दुस्साधमेव भवति । परं प्राचीना आलङ्कारिका अलङ्काराणां स्वरुपस्वभावयो राविष्करणे, तेष्वन्योन्यभेदानां प्रतिपादने, तदीयाना मवान्तरभेदानां निरुपणे च महान्तं कौशलं प्रदर्शयामासुः ।
 
सर्वेऽलङ्कारा अभिधारुपा भवन्तीति केचित् ब्रुवन्ति । ते च ध्वने रङ्गभूता ध्वनिसम्बन्ध संशोभिता स्सन्त एव मनोहरा भवन्ति । अर्थ रामणीयकस्य कदाचित् व्यङ्ग्यार्थो मूलहेतु र्भवति । एवं वाच्यार्थोऽपि कदाचित् हेतुभूतो भवेत् । ततश्च रमणीयार्थ प्रतिपादन तत्परः कविः, सदा ध्वनावेव केवल मनुरक्तिं विहाय मध्ये मध्ये गुणीभूतव्यङ्ग्य मार्ग मप्यनुसरति । समासोक्ति – अप्रस्तुतप्रशंसा- दीपक् –परिकरादयोऽलङ्कारा गुणीभूतव्यङ्ग्या एव भवन्ति । ध्वनि रङ्गी, अलङ्कार्यश्च भवति । अलङ्कारोऽङ्गभूतः । कदाचि द्यदि व्यङ्ग्यभूतस्य, अलङ्कारस्य प्राधान्यं तदा स ध्वनि रेव भवति । व्यङ्ग्यस्याऽप्राधान्ये च गुणीभूतव्यङ्ग्यो भवति । अलङ्काराणां ध्वन्यङ्गतया निवेशने एव कविभिः, सदा प्रयत्नो विधेयः ।
 
==अलङ्काराणामुत्पत्तिः==
अलङ्काराणामुत्पत्तिः – यस्यां कस्या मपि भाषायां काव्य सम्बन्धिनां गुणालङ्कारादीनां बीजानि सहजतयैव निविष्टानि भवन्ति । तान्येव बीजानि काव्येषु कविभिः परिष्कृतानि सन्ति स्पष्टतां प्राप्य पाठकेष्वानन्दं जनयन्ति । सामान्यानां जनानां सम्भाषणेऽपि विना प्रयत्न मलङ्कारा स्सहजतया परापतन्तो दरीदृश्यन्ते । “ प्रक्षालनाध्दि पङ्कस्य् दूरा दस्पर्शनं वरम्”, “ भुजङ्ग एव जानीते भुजङ्ग चरणम्” “अयं राक्षसः” “तस्य स एव सदृशः” इत्यादिषु व्यवहारेषु, अलङ्कारै स्साकं छन्दसोऽपि बीजानि दृश्यन्ते । प्रपञ्चवाङ्मय एव प्रथम इति वक्तव्यः ग्रन्थः ऋग्वेदः । तत्र बहवः काव्यगुणाः प्रसिध्दा अलङ्कारा श्च लक्ष्यन्ते ।
 
अलङ्काराणामुत्पत्तिः – यस्यां कस्या मपि भाषायां काव्य सम्बन्धिनां गुणालङ्कारादीनां बीजानि सहजतयैव निविष्टानि भवन्ति । तान्येव बीजानि काव्येषु कविभिः परिष्कृतानि सन्ति स्पष्टतां प्राप्य पाठकेष्वानन्दं जनयन्ति । सामान्यानां जनानां सम्भाषणेऽपि विना प्रयत्न मलङ्कारा स्सहजतया परापतन्तो दरीदृश्यन्ते । “ प्रक्षालनाध्दि पङ्कस्य् दूरा दस्पर्शनं वरम्”, “ भुजङ्ग एव जानीते भुजङ्ग चरणम्” “अयं राक्षसः” “तस्य स एव सदृशः” इत्यादिषु व्यवहारेषु, अलङ्कारै स्साकं छन्दसोऽपि बीजानि दृश्यन्ते । प्रपञ्चवाङ्मय एव प्रथम इति वक्तव्यः ग्रन्थः ऋग्वेदः । तत्र बहवः काव्यगुणाः प्रसिध्दा अलङ्कारा श्च लक्ष्यन्ते ।
:'''सूर्यो देवी मुषसं रोचमानां ।'''
:'''मर्यो न योषामभ्येति पश्चात् ॥'''
इति वर्णनं सूर्यसूक्ते वर्तते । यथा मर्त्यस्सुन्दरीं युवतिं पश्चादनुसरति तथा सूर्योऽपि रोचमानां उषोदेवीमनुस्रतीति भावः । अन्यत्र ‘मात्रा स्नातानुलिप्तायुवति रिव त्व मात्मनः शरीर लावण्यं सर्वेभ्यः प्रदर्शयसि’ एव माद्यर्थकानि सूक्तानि उपमालङ्कार शोभितानि ऋग्वेदे तत्र तत्रोपलभ्यन्ते । निरुक्ते यास्काचार्यः “ अथ उपमाः” इत्युपक्रम्य द्वादशविधान् उपमाभेदान् प्रतिपादितवान् । अनेन तस्मिन्नेव काले, अलङ्कारशास्त्रस्य विकासोऽवर्तत इत्यनुमातुं शक्यते । श्रीमद्रामायणॆ महाभारते पाणिनीयादिषु च, अलङ्कार प्रशंसा दृश्यते । वात्स्यायन निर्मितेषु कामसूत्रेषु, चतुष्षष्टि कलास्वन्यतमत्वेन परिगणितस्य क्रियाकल्पस्य व्याख्याता “काव्यालङ्कार इत्यर्थः” इति विवरण मकरोत् । ललितविस्तर ग्रन्थे क्रिया कल्पकलायाः प्रस्तावो वर्तते । क्रिस्तु शतक प्रारम्भे निर्मितेषु केषुचित् संस्कृतभाषा शासनेषु शब्दालङ्कारा गुणा श्च प्रस्तुताः । अनन्तरकाले काव्य रुपकादिषु शब्दार्थालङ्कारा बहुशः प्रयुक्ताः । आलङ्कारिका स्सर्वान् तानलङ्कारान् क्रोडीकृत्य, परिशील्य तेषु विद्यमानान् भेदान् अवान्तरभेदां श्च न्यरुपयन् । त्रिचतु स्संख्याका एवालङ्काराः प्रारम्भे वर्तमाना आसन् । कालक्रमेणाऽलङ्काराणां संख्या शताधिका संजाता ।
अलङ्काराणा मभावेऽपिअलङ्काराणामभावेऽपि कवे श्चातुर्य वशात् रसाः प्रतीयेरन् । केषुचित्स्थलेषु रसानां पुष्टिं सम्पादय न्त्यलङ्काराःसम्पादयन्त्यलङ्काराः । परं रस एवाऽलङ्कारेषु गर्भितो भवतीति वक्तु मयुक्तम् । कदाचित् शब्दालङ्कारा रस भञ्जका अपि भवेयुः । अत स्तेषां प्रयोगे कविभि स्सावधनै र्वर्तनीय मस्ति ।मुक्ताहारादयो यथाऽङ्गभूतानां कण्ठादीनां शोभां जनयन्तोऽन्ततः, अङ्गिन श्शोभां सम्पादयन्ति तथा काव्याङ्गभूत शब्दार्थानां वैचित्र्यं प्रथमं सम्पाद्य, यमकोपमादयोऽलङ्काराः, पर्यन्तेऽङ्गिभूतस्य रसस्य काव्यस्य च सौन्दर्य मभिवर्धयन्ति । यदि तत्र रसो न भवेत्तदाऽलङ्काराः केवलं शब्दार्थ वैचित्र्य मात्र सम्पादका भवन्ति । एव मलङ्कारा गुण- रीति- वृत्त्या द्यपेक्षया नात्यन्तप्रधाना इति वक्तुं शक्यते । तथापि लाक्षणिका स्सर्वे काव्येऽलङ्काराणां समुचितं स्थान मस्तीत्येवाङ्गीकुर्वन्ति । रसादिभ्यः व्यङ्ग्याच्च् भिन्नः, शब्दार्थयो रन्यतर माश्रित्य प्रवर्तमानः, परम्परया प्रधानेन रसादिना सम्बध्दः चमत्कृति सम्पादकः पदार्थ एवाऽलङ्कारः ।
 
अलङ्काराणा मभावेऽपि कवे श्चातुर्य वशात् रसाः प्रतीयेरन् । केषुचित्स्थलेषु रसानां पुष्टिं सम्पादय न्त्यलङ्काराः । परं रस एवाऽलङ्कारेषु गर्भितो भवतीति वक्तु मयुक्तम् । कदाचित् शब्दालङ्कारा रस भञ्जका अपि भवेयुः । अत स्तेषां प्रयोगे कविभि स्सावधनै र्वर्तनीय मस्ति ।मुक्ताहारादयो यथाऽङ्गभूतानां कण्ठादीनां शोभां जनयन्तोऽन्ततः, अङ्गिन श्शोभां सम्पादयन्ति तथा काव्याङ्गभूत शब्दार्थानां वैचित्र्यं प्रथमं सम्पाद्य, यमकोपमादयोऽलङ्काराः, पर्यन्तेऽङ्गिभूतस्य रसस्य काव्यस्य च सौन्दर्य मभिवर्धयन्ति । यदि तत्र रसो न भवेत्तदाऽलङ्काराः केवलं शब्दार्थ वैचित्र्य मात्र सम्पादका भवन्ति । एव मलङ्कारा गुण- रीति- वृत्त्या द्यपेक्षया नात्यन्तप्रधाना इति वक्तुं शक्यते । तथापि लाक्षणिका स्सर्वे काव्येऽलङ्काराणां समुचितं स्थान मस्तीत्येवाङ्गीकुर्वन्ति । रसादिभ्यः व्यङ्ग्याच्च् भिन्नः, शब्दार्थयो रन्यतर माश्रित्य प्रवर्तमानः, परम्परया प्रधानेन रसादिना सम्बध्दः चमत्कृति सम्पादकः पदार्थ एवाऽलङ्कारः ।
 
 
Line ८१ ⟶ १०४:
* [[औचित्य]]सम्प्रदायः - [[क्षेमेन्द्रः]] ([[औचित्यविचारचर्चा]])
 
शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धमाना दृश्यते । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यते । ततः भामहः काव्ये अलङ्काराणां महत्त्वम् उपलक्ष्य [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
 
* [[अर्थालङ्कारः]]अर्थालंकारॆषु भ्रान्तिमान अलंकारॊ यथा-
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
* [[शब्दालङ्कारः]]
* [[अर्थालङ्कारः]]अर्थालंकारॆषु भ्रान्तिमान अलंकारॊ यथा-
समता अथवा सादृश्‍यकारणात् कस्मिश्चित् वस्‍तौ अन्‍यवस्‍तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्‍यते ।
 
साम्‍यादतस्मिस्‍तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थित: ।
 
Line ९९ ⟶ १२०:
प्रस्‍तुतोदाहरणे चन्‍द्रमस: मयूखे दुग्‍धस्‍य, कुवलये कुमुदस्‍य एवं च कर्कन्‍धुफले मुक्‍ताफलस्‍य कविकल्‍पनया भ्रान्तिपूर्णं वर्णनं कृतमस्ति अ‍त: अत्र भ्रान्तिमान् अलंकार: अस्ति ।
 
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
अर्थालंकार: - दृष्‍टान्‍त अलंकार:
 
वाक्‍ययो: उपमानोपमेयायो: प्रतिबिम्‍बनं दृष्‍टान्‍त अलंकार: कथ्‍यते ।
 
दृष्‍टान्‍तस्‍तु सधर्मस्‍य वस्‍तुन: प्रतिबिम्‍बनम् । अर्थात् द्वयो: वाक्‍ययो: धर्मयुक्‍तवस्‍तो: (उपमानस्‍य च उपमेयस्‍य च) बिम्‍बप्रतिबिम्‍बभाव: दृष्‍टान्‍तअलंकार: कथ्‍यते । तात्‍पर्यमस्ति यत् यत्र उपमेय, उपमानभूतयो: वाक्‍ययो: धर्मयुक्‍तउपमेयउपमानयो: प्रतिबिम्‍बनं वर्णितं भवति तत्र दृष्‍टान्‍तअलंकार: भवति ।
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्