"अलङ्काराः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
* [[अर्थालङ्कारः]]
केचिदुभयालङ्काराः इति तृतीयमपि भेदमाहुः । अर्थमनपेक्ष्य शब्दं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराश्शब्दालङ्काराः उच्यन्ते । अर्थं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराः अर्थालङ्काराः भवन्ति । शब्दार्थाश्रयाः अलङ्काराः उभयालङ्काराः कथ्यन्ते ।
 
अनुप्रासयमकादयश्शब्दालङ्काराः उपमारुपकादयोऽर्थालङ्काराः, पुनरुक्तवदाभासलाटानुप्रासादयः , उभयालङ्काराः भवन्ति । भोजः सरस्वतीकण्ठाभरणे शब्दालङ्काराः बाह्याः, अर्थालङ्काराः आभ्यन्तराः इति व्याजहार । जाति- गति- रीति- वृत्ति- च्छाया –मुद्रा –शय्यादयोऽपि शब्दालङ्काराः एवेति निश्चिकाय । औचित्यमनुसृत्य प्रयुक्ताश्शब्दालङ्काराः पाठकानामानन्दमभिवर्धयन्ति । संस्कृतकवयो वनयुध्दवर्णनादि सन्दर्भेषु शब्दालङ्कारान्बहुविधान् समायोजितवन्तः । आन्ध्रभाषाकवयोऽपि वन- जल- क्रिडा- पुष्पापचय-प्रभृति वर्णनेषु शाब्दालङ्कारप्रीतिमदर्शयन् । वस्तुतश्छन्दोयुक्ता रचनैव शब्दालङ्काररुपा इति केचिद्वदन्ति । अर्थालङ्काराणां योजनेन कवेः प्रतिभाकौशलमतीवाऽभिव्यज्यते । आनन्दजनकाः भावरामणीयकचमत्काराः एव मूलमलङ्काराणाम् । यद्यप्यलङ्कारास्समग्रलक्षणलक्षिताः भवन्ति , तथापि तेषामङ्गिसैन्दर्यजनकता यदि न स्यात्तदा तेऽलङ्काराणां प्रधानं कार्यमिति वदन्त्यालङ्कारिकाः । अलङ्काराः यदा ललनाशरीरमधिष्ठाय सौन्दर्यमभिवर्धयन्ति तदैव तेऽलङ्काराः शब्दवाच्या भवन्ति, न तु पेटिकास्थिता अलङ्काराः । एवं रसध्वन्युपरस्कारकाणामेवालङ्काराणामलङ्कारता सिध्यति । अन्यथा ते केवलमर्थचित्रा भवन्ति । केचित् रसमप्यलङ्कारं भावयन्ति । तन्न युक्तम् । यतो रसो न कमप्यलङ्करोति । अपि तु स्वयमलङ्कार्यो भवति । यो हयप्रधानो जायमानः अन्यमलङ्करोति स एवालङ्कारशब्दव्यपदेश्यो भवति । अतो रसः केवलमलङ्कार्यो भवति, न त्वलङ्कारः ।
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्