"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
उपालङ्कारस्तु एकः [[अर्थालङ्कारः]] वर्तते ।
उपमा कालिदासस्य इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । अस्य अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –
 
'उपमा कालिदासस्य" इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । अस्य अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
:'''उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।'''
:'''हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥'''
 
यत्र उपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्र उपमालङ्कारः । इयं च पूर्णौपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिव शब्दश्चेत्ये तेषामुपमानोपमेयसाधारणधर्मोपवाचकानां चतुर्णामप्युपादानात् ।
 
यत्र यस्मिन् काव्ये द्वयोर्व्स्तुनोरुपमानोपमेयत्वेन प्रसिध्दयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः, उल्लसति उद्भूततया भाति (व्यङ्गयमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालङ्कारः
 
==उपमायाः अवयवाः==
उपमायाः सन्तिचत्वारोऽवयवाः । उपमानम्, उपमेयम्, साधारणधर्मः, उपमावाचकश्चेति । तत्राधिकगुणवत्वेन प्रसिध्दमुपमानं चन्द्रादि । प्रकृते वर्ण्यमानं मुखाद्युपमेयं न्यूनगुणम् । आह्लादकत्वादिकं साधारणो धर्मः । इवादि शब्दाः सादृश्यवाचकाः । सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् ।
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्