"तूतुकुडिमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा तूतुकुडि मण्डलम् इत्येतत् तूतुकुडिमण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
तूत्तुकुडिमण्डलं (तमिऴ्:தூத்துகுடி மாவட்டம் आङ्ग्लम्: Thoothukudi District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।
तमिळनाडु राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[तूतुकुडि]] नगरः |
 
==भौगोलिकम्==
 
तूत्तुकुडिमण्डलं [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] आग्नेयकोणान्ते अस्ति । अस्य उत्तरभागे तिरुनेल्वेलि-विरुदुनगर-रामनाथपुरमण्डलानि सन्ति । पूर्वभागे आग्नेयदिशि च मन्नारसमुद्रकुक्षिः अस्ति । पश्चिमे नैर्ऋत्ये च [[तिरुनेल्वेलिमण्डलम्]] अस्ति । मण्डलस्य विस्तारः ४६२१ चतुरश्रकिलोमीटर् ।
 
==इतिहासः==
 
तूत्तुकुडिमण्डलं १९८६तमे वर्षे अक्टोबरमासस्य २० दिनाङ्के तिरुनेल्वेलिमण्डलतः पृथक्कृतम् । तूत्तुकुडिनगरं [[भारतम्|भारतस्य]] प्रमुखेषु नौकानिःस्थानेषु अन्यतमम् । इतिहासे क्रिस्तीयषष्ठशतकाद् अपि अस्य उल्लेखः दृश्यते । भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अनेके वीराः तूत्तुकुडिमण्डले उत्पन्नाः । तेषु प्रमुखाः महाकविः [[सुब्रह्मण्य भारती]], वी ओ [[चिदम्बरम् पिळ्ळै]], ऊमैतुरै, वीरपाण्ड्यकट्टबोम्मन्, वेळ्ळैयतेवन्, वीरन् सुन्दरलिङ्गम् इत्यादयः ।
 
==जनसंख्या==
 
२०११तमवर्षस्य जनगणनानुगुणं तूत्तुकुडिमण्डलस्य जनसंख्या १,७३८,३७६ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७७तमं स्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७८ (९८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ९.१४% आसीत् । तूत्तुकुडिमण्डले पुं-स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८६.५२% अस्ति । अत्र भाषमानासु [[तमिळ्|तमिऴ्भाषा]] प्रमुखा । आङ्ग्लभाषा अपि अधिकतया उप्युज्यते ।
 
==उपमण्डलानि==
 
तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति ।
 
:१) तूत्तुकुडिः
:२) तिरुच्चेन्दूरुः
:३) सतङ्गुळम्
:४) श्रीवैकुण्ठम्
:५) ओट्टपिडारम्
:६) कोविल्पाट्टि
:७) एट्टैयापुरम्
:८) विळात्तिकुळम्
 
==कृषिः वाणिज्यं च==
 
मण्डले बृहन्तः जलाशयाः न सन्ति इत्यतह् तिरुनेल्वेलिमण्डले विद्यमानौ पापनाशम्-मणिमुत्तारुजलबन्धौ कृषेः जलमूलत्वेन उपयुज्यन्ते । तूत्तुकुडिमण्डले प्रवहन्त्यः वैपारु-करुमेनि-पाळैयकायल्नद्यः अपि जलं प्रयच्छन्ति ।
 
श्रीवैकुण्ठ-सतङ्गुळ-तिरुच्चेन्दूरु-उपमण्डलेषु तण्डुलः रुह्यते । कोविल्पाट्टि-ओट्टपिडार-तूत्तुकुडि-उपमण्डलेषु कार्पासस्य कृषिः दृश्यते । कुम्बु, जोळम्, कुदिरैवलि इति स्थलीयभाषायां ज्ञातानां सस्यानां कृषिः अपि अधिकतया भवति । श्रीवैकुण्ठ-तिरुच्चेन्दूरु-उपमण्डलयोः कदलीफलानां शाकानां च कृषिः भवति । तमिऴ्नाडुराज्ये कदलीनाम् अत्यधिकम् परस्थलविक्रयणं तूत्तुकुडिमण्डलादेव भवति ।
तमिऴ्नाडुराज्यस्य ७०%, भारतस्य ३०% लवणोत्पादनम् अस्मिन् मण्डले एव भवति । भारते लवणोत्पादकेषु तूत्तुकुडिमण्डलस्य द्वितीयं स्थानम् ।
सिद्धवस्त्राणाम् उत्पादनेन पुदियम्पुत्तूरुग्रामः सुप्रसिद्धः । इतः आराज्यम्, मुम्बयीप्रभृतिभ्यः प्रदेशेभ्यः च सिद्धवस्त्राणि प्रेष्यन्ते । अत्र दशसहस्राधिकेभ्यः उद्योगः लभ्यते ।
 
==वीक्षणीयस्थलानि==
===सुब्रह्मण्यस्वामिदेवालयः, तिरुच्चेन्दूरुः===
 
बङ्गालसमुद्रस्य तीरे अयं देवालयः अस्ति । कार्त्तिकेयस्य ‘आरुपडैवीडु’ क्षेत्रेषु इदं द्वितीयम् । अत्र मुरुगः ‘सेन्दिलाण्डवर्’ इति नाम्ना आराध्यते । इदं क्षेत्रं बहु जनप्रियम् अस्ति ।
 
===अरुळमिगु मुत्तारम्मन् देवालयः, कुलशेखरपत्तनम् ===
 
अस्मिन् देवालये आचर्यमाणः नवरात्रोत्सवः बहु प्रसिद्धः । अस्मिन् समये ‘दसरा कुऴु’ इत्येतत् प्रामुख्यं भजते ।
 
===तूत्तुकुडि क्रैस्तदेवालयः (अवर् लेडि आफ़् स्नोस् बेसिलिका)===
 
अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः १५४२तमे वर्षे इमं देवालयं सन्दर्शितवान् । १९८२तमे वर्षे अस्य देवालयस्य ४००तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।
 
 
 
{{तमिळनाडु मण्डलाः}}
"https://sa.wikipedia.org/wiki/तूतुकुडिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्