"विन्ध्यपर्वतश्रेणी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
विन्ध्यः भारतस्य अत्यन्तं प्राचीनः प्रर्वतः । कुलपर्वतेषु अन्यतमौ ऋक्षवान्-पारियात्रौ अपि विन्ध्यस्य एव भागभूतौ । अस्मात् पर्वतात् नर्मदा, [[क्षिप्रानदी|क्षिप्रा]], करतोया, वैनगङ्गा, तमसा, दशार्णा, विपाशा, शोणभद्रा, महानदी इत्यादयः नद्यः प्रवहन्ति । अयं पर्वतः उत्तरदक्षिणभारतयोः दक्षिणोत्तरसीमा । अयं विन्ध्यः मध्यभारतस्य आधारः अपि । अयं विन्ध्यपर्वतः उत्तरदिशि अवतरन्निव [[गङ्गा|गङ्गायाः]] उपत्यकापर्यन्तं प्रसृतः ।
विन्ध्यस्य विषये पुराणे एवं काचित् कथा श्रूयते । मेरुपर्वतं परितः [[सूर्यः|सूर्येण]] क्रियमाणं प्रदक्षिणं दृष्टवतः विन्ध्यस्य असूया सञ्जाता । मयापि तादृशः गौरवः प्राप्तव्यः इति इच्छया उपर्युपरि अवर्धत सः । अनन्तरं सूर्यं ’मां परितः अपि प्रदक्षिणं करोतु’ इति प्रार्थयत् । किन्तु सूर्यः तथा नाकरोत् । कुपितः विन्ध्यः सूर्यस्य अवरोधं कुर्वन् इतोपि उन्नतः सञ्जातः । तेन सूर्यस्य चलनस्य अवरोधः सञ्जातः । तदा चिन्ताकुलाः देवताः विन्ध्यस्य गुरुम् [[अगस्त्यः|अगस्त्यम्]] एतां समस्यां परिहर्तुं प्रार्थयन् । तदा देवतानां प्रर्थनानुसारं [[काशी|वाराणसीतः]] दक्षिणदिशि प्रस्थाय विन्ध्यपर्वतं प्राप्नोत् अगस्त्यः । गुरुं दृष्टवान् विन्ध्यः शिरः अवनम्य साष्टाङ्गनमस्कारम् अकरोत् । “मम दक्षिणतः प्रत्यागमनपर्यन्तं भवान् एवमेव भवतु” इति आज्ञाप्य दक्षिणम् अगच्छत् अगस्त्यः । दक्षिणतः अगस्त्यः पुनः न प्रत्यागच्छत् एव । तस्मात् विन्ध्यः अपि [[शिरः]] उन्नेतुं नाशक्नोत् । दक्षिणे [[लोपामुद्रा|लोपामुद्राम्]] ऊढवान् अगस्त्यः । कालान्तरे लोपामुद्रा एव [[कावेरी]] अभवत् । एषा कथा अगस्त्यस्य दिग्विजयं बोधयति । प्राचीन[[तमिळुतमिळ्|तमिळुभाषायाः]] व्याकरणरचनां कृतवान् अगस्त्यः । सागरम् उल्लङ्घ्य विदेशेषु धर्मप्रसारं कृतवत्सु प्रथमः अगस्त्यः एव ।
 
अस्य पर्वतस्य विन्ध्याचले विन्ध्यावासिन्याः अथवा कौशिकीदेव्याः मन्दिरम् अस्ति । एतत् [[देवीभागवतम्|देवीभागवते]] उक्तेषु १०१ शक्तिपीठेषु अन्यतमम् । अस्मिन् मन्दिरे [[नवरात्रम्|नवरात्रावसरे]] महान् उत्सवः प्रचलति । अत्र [[महाकाली|महाकाल्याः]] अष्टभुजेश्वर्याः च मन्दिरे अपि स्तः । विन्ध्यावसिनी, महाकाली, अष्टभुजेश्वरी च क्रमेण [[लक्ष्मीः|लक्ष्म्याः]] [[पार्वती|पार्वत्याः]] [[सरस्वती|सरस्वत्याः]] च अंशभूताः । [[दुर्गासप्तशती|दुर्गासप्तशत्यनुसारं]] शुम्भ-निशुम्भयोः संहारार्थं पार्वत्याः अंशतः रूपिता शक्तिः एव महाकाली । [[देवकी|देवक्याः]] अष्टमः पुत्रः इति बुध्या [[कृष्णः|कृष्णस्य]] स्थाने सुप्तं शिशुं यदा [[कंसः]] मारयितुम् उद्युक्तः तदा तस्य हस्तात् स्खलित्वा अष्टभुजेश्वरीरूपेण कंसाय दर्शनं दत्तवती सा विन्ध्याचलं प्राविशत् इति । सा विन्ध्यावासिनी एव [[उज्जयिनी|उज्जयिन्याः]] [[विक्रमादित्यः|विक्रमादित्यस्य]] कुलस्वामिनी ।
"https://sa.wikipedia.org/wiki/विन्ध्यपर्वतश्रेणी" इत्यस्माद् प्रतिप्राप्तम्