"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
}}
 
 
[[चित्रम्:Anamudi 1.jpg|thumb|300px| दक्षिणभारते अत्युन्नतः आनैमुडीपर्वतः]]
 
पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्य सह्यपर्वत इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठ भूमिम् अरब्बि समुद्रस्य सूक्ष्मम् कोङ्करण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे [[तपतीनदी|तपतीनद्याः]] दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यन्ते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः [[महाराष्ट्रम्]], [[गोवा]], [[कर्णाटकम्]], [[केरळम्]], [[तमिळ्नाडु]] राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः।
पङ्क्तिः २४:
 
[[चित्रम्:Karnataka.jpg|thumb|220px| कर्णाटकस्थः कुदुरेमुखारण्यप्रदेशः]]
[[चित्रम्:Indiahills.png|thumb|220px| कर्णाटकस्थःभारतमानचित्रे कुदुरेमुखारण्यप्रदेशःपश्चिमपर्वतश्रेणी]]
[[चित्रम्:Anamudi 1.jpg|thumb|300px| दक्षिणभारते अत्युन्नतः आनैमुडीपर्वतः]]
 
== नद्यः तथा जलपाताः ==
भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति [[जोगजलपातः]] ।भारतस्य अनेकासां सार्वकालिकीनां नदीनाम् पश्चिमघट्टः एव मूलस्त्रोतः । अत्र [[ताम्रपर्णी]], [[गोदावरी]], [[कृष्णा]] एवं [[कावेरी]] एताः प्रमुखनद्यः । एताः पूर्वाभिमुखं प्रवहन्ति । पश्चिमाभिमुखगामिन्यः नद्यः वेगेन प्रवहन्ति तासां व्याप्तिरपि अल्पा । [[माण्डवी]], [[जुवारी]] , [[शरावती]] [[नेत्रावती]] एतासु प्रमुखाः । वेगेन प्रवहन्ति इत्यतः एताः अनेकजलविद्युतयोजनानाम् आधारभूताः । विद्युत् योजनार्थं अनेके जलबन्धाः निर्मिताः सन्ति। । तेषु खोपोलि कोय्ना, लिङ्गनमक्की तथा परम्बिकुलं योजनाः प्रमुखाः ।
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्