"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
अत्र सहस्राधिकविधाः तरुलताः, १३९विधाः सस्तनिनः, ५०८विधाः प्रादेशिकपक्षिणः, २५९विधाः प्रादेशिकाः द्विचरिणः च सन्ति ।एतेषां सर्वेषाम् आश्रयस्थानम् अस्ति पश्चिमघट्टप्रदेशः । जगति नाशं अनुभवत्सु जीववैविध्येषु ३२५ वंशीयाः जीविनः पश्चिमघट्टे सन्ति । पश्चिमघट्टः नैजार्थे पर्वतश्रेणी न । दक्षिणपीठभूमेः पश्चिमपरिधौ एते सन्ति । सामान्यतः १५० दशलक्षवर्षेभ्यः पूर्वम् गोण्डानामहाभूखण्डः छिद्रः अभूत् । तदा पश्चिमघट्टानाम् रचनाऽपि अभूत इति शङ्कते । घट्टप्रदेशेस्मिन् सामान्यतः दृश्यमानाः शिलास्तावत् बसाल्ट् । अस्य स्तरः भूमौ ३ कि. मी. पर्यन्तं व्याप्य तिष्ठति । एवम् अन्यः शिलाप्रकारास्तावत् ग्रानैट्, स्वोंडालैट्, लेप्टिनैट्, चार्नोकैट् इत्यादयः । उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, [[सह्याद्रिः]], [[बिळिगिरिः]] [[सर्वरायन् श्रेणी]] , एवं [[नीलगिरिः]] । बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कुटजाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
[[चित्रम्:Karnataka.jpg|thumb|220px250px| कर्णाटकस्थः कुदुरेमुखारण्यप्रदेशः]]
[[चित्रम्:Indiahills.png|thumb|220px250px| भारतमानचित्रे पश्चिमपर्वतश्रेणी]]
[[चित्रम्:Anamudi 1.jpg|thumb|300px250px| दक्षिणभारते अत्युन्नतः आनैमुडीपर्वतः]]
 
== नद्यः तथा जलपाताः ==
भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति [[जोगजलपातः]] ।भारतस्य अनेकासां सार्वकालिकीनां नदीनाम् पश्चिमघट्टः एव मूलस्त्रोतः । अत्र [[ताम्रपर्णी]], [[गोदावरी]], [[कृष्णा]] एवं [[कावेरी]] एताः प्रमुखनद्यः । एताः पूर्वाभिमुखं प्रवहन्ति । पश्चिमाभिमुखगामिन्यः नद्यः वेगेन प्रवहन्ति तासां व्याप्तिरपि अल्पा । [[माण्डवी]], [[जुवारी]] , [[शरावती]] [[नेत्रावती]] एतासु प्रमुखाः । वेगेन प्रवहन्ति इत्यतः एताः अनेकजलविद्युतयोजनानाम् आधारभूताः । विद्युत् योजनार्थं अनेके जलबन्धाः निर्मिताः सन्ति। । तेषु खोपोलि कोय्ना, लिङ्गनमक्की तथा परम्बिकुलं योजनाः प्रमुखाः ।
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्