"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding fa:ودانگا
पङ्क्तिः १९:
वेदाः सन्ति छन्दोबद्धाः । अतस्तषापुच्चाफ़णनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम् । विना छन्दोज्ञानं यो वेदाध्ययनयजनयाजनादिकर्माणि करोति तस्य तानि सर्वाणि कार्याणि न भवन्ति फलितानि । छन्दः इत्येतस्य पदस्य व्युत्पत्तिः -"छन्दयति प्रीणाति इति वा, छन्दयति अह्लादयति इति वा छन्दः" इति। "छन्दांसि छादनात्" इति यास्ककथनतः वेदार्थवाचकं छन्दःपदं "छ्द् छादने" इति धातोः निष्पन्नम् । प्रधानेषु वैदिकेषु छन्दसु इमानि गण्यन्ते-गायत्री उष्णिक्-अनुष्टुप्-बृहती-पङिक्त-त्रिष्टुप्-जगति-अतिजगति-शक्वरी-प्रभृतयः ॥
==कल्पः==
वेदविहितानां कर्मणां क्रमपूर्वकं विधानं कल्पशास्त्रे कल्पितम् । उक्तञ्च- ‘कल्पे वेदविहितानां कर्मणाम् आनुपूर्व्येण कल्पनाशास्त्रम्’ इति।

कल्पसूत्राणि सन्ति चतुर्विधानि । श्रौतसूत्रं, गृह्यसूत्रं, धर्मसूत्रं, शुल्बसूत्रञ्चेति । श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौताग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते । गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्कारणां विस्तृतं विवरणं प्रस्तुतं विद्यते । धर्मसूत्रे चतुर्णां वर्णानाम् आश्रमाणां च कर्तव्यानि निर्दिष्टानि सन्ति । चतुर्थं शुल्बसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति
 
धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयः महत्त्वशाली । ऋग्वेदस्य आश्वलायनं शाङ्खायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । गृह्यसूत्रे च तदीये आश्वलायनं शाङ्खायनं च स्तः । शुक्लयजुर्वेदे श्रौतसूत्रम् एकमेव, तदस्ति कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि बौधायन-आपस्तम्ब-हिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बौधायनगृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अर्णयं कल्पसूत्रं प्राचीनतमम् । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशाखीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं, किञ्च तदीयं गृह्यसूत्रं कौशीसंज्ञकं वेद्यम् । धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बौधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥
 
धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बौधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥
 
==ज्योतिषम्==
इदं कालविज्ञापकं शास्त्रम् । मुहूर्तं शोधयित्वा क्रियमाणाः यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते नान्यथा । तन्मुहूर्तज्ञानं च ज्योतिषाश्रितम् । अतोस्य ज्योतिश्शास्त्रस्य वेदाङ्गत्वं स्वीकृतम्। उक्तश्चायमर्थः आर्चज्योतिषे यथा -
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्