"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
[[File:Qutb Minar from the Quwwuatul ul-Islam mosque, Qutb complex.jpg|thumb|कुतुब् मिनार्]]
 
==गमनपथः==
कुतुबमिनारभवनं देहल्यां दक्षिणभागे ९-१० मैलदूरे अस्ति । १२०० तमे वर्षे कुतुबुद्दीनः ऐकः(गुलामवंशीयः) एतस्य भवनस्य निर्माणम् आरब्धवान् । एतस्य औन्नत्यं २३९ पादमितम् अस्ति । पञ्च अट्टाः सन्ति एतस्मिन् ।३७८ सोपानानि सन्ति अत्र ।
एतत् भवनं रक्तवर्णईयया सङ्गमरमर शिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः ।द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अटटयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति शॄयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् ।
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्