"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
उत्तराखण्डस्य जनसमुदयस्य स्वमूलस्थानानुगुण्येन ’गढ्वालि’ उत ’कुमावि’ इति व्यवहारः अस्ति। सम्पूर्णस्य समुदायस्य “पहाडि” इति व्यवहारः अस्ति। पञ्जाबदेशात् आगताः प्रव्रज्याः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति। एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति। रज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति।
==प्राकृतिकवर्णनम्==
[[चित्रम्:Nanda devi.jpg|thumb|'''नन्दादेवी शिखरप्रदेशः''']]
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः भवति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः [[हिमालयः|हिमालयस्य]] अङ्गप्रदेशः भवति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। [[हिमालयः|हिमालयस्य]] सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमानम् अस्ति। [[हिमालयः|हिमालयस्य]] परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु [[व्याघ्रः|व्याघ्राः]], [[चित्रकः|चित्रकाः]], [[हिमचित्रकः|हिमचित्रकाः]] इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। [[भारतम्|भारतीय]] पवित्रतमौ महानद्यौ [[गङ्गा]] [[यमुना]]च उत्तराखण्डस्य [[हिमालयः|हिमपर्वतमूले]] उद्भूते। [[हिमालयः|हिमालयपर्वतश्रेणेः]] दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलयाच आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। [[नैनिताल्]] जनपदस्य रामनगरे “जिम् कार्बेट् राष्ट्रिय उद्यानम्” अस्ति। चमोलि जनपदे “पुष्पकन्दरराष्ट्रिय उद्यानम्” [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रिय उद्यानञ्च]] स्तः। [[उत्तरकाशि]] जनपदे “गोविन्द् पशु राष्ट्रिय उद्यानम्” “गङ्गोत्रि राष्ट्रिय उद्यानञ्च” स्तः। [[हरिद्वारम्]] जनपदे “राजाजि राष्ट्रिय उद्यानम्” अस्ति।
==प्रवासोद्यमविभागः==
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। [[नैनिताल्]], [[मस्सूरि]], [[अल्मोरा]] तथा [[राणिखेत्]] इत्यादीनि गिरिधामानि प्रसिद्धानिच भवन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानञ्च]] स्तः। विश्वपरम्परास्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानमपि]] एकम्। अधिकान् पर्यटकान् आकर्षितं स्थानम् इदम्।
==धार्मिकक्षेत्राणि==
{{लघुचतुर्धाम}}
हैन्दवानां पवित्रतम पुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]](चार् धाम्) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिच भवन्ति। तथैव [[हरिद्वारम्]], [[हृषीकेशः|हृषीकेशौ]] पवित्रक्षेत्रे भवतः। सिक् धर्मस्य “हेमकुण्ड साहेब्” पुण्यं स्थानं भवति। [[टिबेट्]] [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम् अत्रैव अस्ति।
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्