"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उत्तराखण्डराज्यं [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]] प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः [[नैनिताल्]] नगरे अस्ति।
==विभागः==
[[चित्रम्:UttarakhandDistricts.png|thumb|'''जनपदाः''']]
अस्मिन् राज्ये विभागद्वयं भवतः [[गढ्वाल्]] तथा [[कुमाव्]] इति। अस्मिन् राज्ये १३ जनपदाः सन्ति। [[गढ्वाल्]] विभागे [[चमोलि]], [[डेहराडून्]], [[हरिद्वारम्]], [[पौडि]], [[रुद्रप्रयाग]], [[टिह्रि]] [[गढ्वाल्]] तथा [[उत्तरकाशि]] जनपदाः सन्ति। [[कुमाव्]] विभागे [[अल्मोरा]], [[बागेश्वर्]], [[नैनिताल्]], [[पिथोरागढ्]], [[चम्पावत्]] तथा [[उधम् सिंघ्]] जनपदाः सन्ति। राज्यस्य शासनभाषा हिन्दी भवति। “चिप्को” उद्यमस्यारम्भः उत्तराखण्डराज्ये प्रप्रथमतया जातः। उत्तराखण्डस्य विस्तीर्णं ५१,१२५ च.कि.मी अस्ति। प्रायः जनसंख्या ८५ लक्षजनाः सन्ति। [[डेहराडून्]], [[हरिद्वारम्]] तथा [[नैनिताल्]] इत्यादयः अस्य राज्यस्य नगराणि भवन्ति। राज्यस्य ९२.५७% भागः पर्वतप्रदेशः अस्ति। ६३% भागः अरण्यप्रदेशः अस्ति। उत्तराखण्डस्य मुख्याः पर्वतशिखराः [[नन्दादेवी]] (७८१६ मी.), [[बदरीनाथः]](७१४० मी.), [[चौखम्बा]](७१३८ मी.) तथा [[त्रिशूल्]](७१२० मी.) भवन्ति।
==इतिहासः==
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्