"पुराणम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding or:ପୁରାଣ
(लघु) r2.7.3) (Robot: Adding jv:Purana; अंगराग परिवर्तन
पङ्क्तिः १:
[[Imageचित्रम्:Ashta-Matrika.jpg|thumb|300px| रक्तबीजासुरेण सह योद्धुं प्रस्थिता दुर्गा, मार्कण्डेयपुराणम्]]
पुरा नवं पुराणमिति व्युत्पत्तिः ।

पङ्क्तिः ११:
पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोध्दव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः ।
== पुराणलक्षणम् ==

पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्त्तमाना भाविनश्चार्या वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभिदधते । पुराणेषु पुराणलक्षणमित्यमुक्तम् –
पङ्क्तिः २७:
कस्यापि मानवसमाजस्य इतिहासस्तावन्न पूर्णो मन्यत्, याक्तस्य सृष्टेः प्रारम्भकालत इतिहासोन प्रस्तूयते पाश्चात्त्यशिक्षाप्रभाविता विद्वांसो नैतदनुमोदयन्ति स्म, अत एव ते पुराणानि सत्यानि न स्वीकुर्वन्ति स्म, परं सम्प्रति दृष्टिकोणपरिवर्तनं जातम् । एच्. जी. वेल्स महोदयः '''औट् लैन् आफ़् दि हिस्टरी'' नामके स्वग्रन्थे पौराणिकी प्रणालीमनुव्सृतवान् । अनया सुसंस्कृतया दृष्ट्या भारतीयमितिहासं जिज्ञासमानानां कृते पुराणानि निधय इव ।

== पुराणानां रचनाकालः ==
पुराणानां रचना कदा जातेति प्रश्ने निम्नलिखितविषयाः पूर्वं ध्यातव्याः –
# अथर्ववेदे पुराणस्य उल्लेखो दृश्यते –
पङ्क्तिः ४५:
तदिमानि सर्वाणि तत्त्वानि पुराणानां वैदिककालेऽप्यस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट शतकपूर्वतनकाले पुराणानामस्तित्वमासीदिति कल्पनाऽपि सत्यानुमोहिता । इदं तु सत्यं यत् पुराणस्यादिमं रुपं सम्प्रति नावाप्यते । पुराणं कदाचिदेकत्र समये नारच्यत, समये समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्त्तमानरुपमुपन्नमासीत् ।

== पुराणानां नामानि तत्प्रमाणं च ==

पुराणानां संख्याविषये मतभेदो नास्ति, सर्वावदिसिध्दं तेषामष्टादशत्वम् ।
पङ्क्तिः ६०:
लि – लिङ्गपुराणम् – १५
ग – गरुडपुराणम् – १६
कू - कूर्मपुराणम् – १७
स्क – स्कन्दपुराणम् -१८
एतत्पुराणातिरिक्तानि अष्टादशोपपुराणान्यप्याख्यायन्ते
पङ्क्तिः ७९:
: १. पुरा भवम् – पुरा “ट्युल्” (४.३.२३)
“उद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः” उ.रा. २-२९ । “पुराणमित्येव न साधु सर्वम्” माल. १-२
: २. पुरापि नवः रा.भा., शां.भा.
: “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इत्येतस्य वचनस्य अनुसारं वेदेषु उक्तान् कठिनविचारान् सुलभरीत्या जनान् बोधयितुं बहुभिः महर्षिभिः रचिताः ग्रन्थाः एते ।

== महापुराणानि ==
महापुराणानि अष्टादश । एतानि [[वेदव्यासः|वेदव्यास]]महर्षिणा रचितानि इति प्रतीतिः ।

'''ब्राह्मं पाद्मं वैष्णवं च शैवं च लैङ्गं च गारुडम् ।'''

'''नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥'''

'''भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।'''

'''मात्सयं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।'''

'''अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥'''

::::अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
::::भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ मत्स्यपुराणम् (५३-७०)

== अष्टादशपुराणानां श्लोकसंख्या अत्र निरूप्यते ==

:१ तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश | १४००० श्लोकाः
पङ्क्तिः १००:
:३ तद्भागवतमुच्यते, अष्टादशसहस्राणि | १८००० श्लोकाः
:४ चतुर्विंशत्सहस्राणि तथा पञ्चशतानि च |
: भविष्यचरितप्रायं भविष्यं तदिहोच्यते | २४५०० श्लोकाः
:५ ब्राह्म त्रिदशसाहस्रं पुराणं परिकीर्त्यते | १३००० श्लोकाः
:६ तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते | १८००० श्लोकाः
पङ्क्तिः ११६:
:१८ स्कन्दं नाम् पुराणञ्च ह्येकाशीतिर्निगद्यते | ८११०० श्लोकाः

== पुराणानां विषयव्याप्तिः ==
वेदोपनिषत्सु विद्यमानानि गहनतत्त्वानि कथानां द्वारा बोधनम् इतेतत् पुराणानां प्रमुखं प्रयोजनम् । एतत् अतिरिच्य भारतस्य प्राचीनयुगस्य इतिहासस्य पुनर्निर्माणे अपि एतत् साहित्यं महता प्रमाणेन उपकरोति इत्येतत अवश्यं स्मर्तव्यम् ।
अष्टादशसु महापुरणेषु एकैकस्मिन् अपि भारतस्य विविधस्थलानां परिचयः, विविधकालस्य च निरूपणं दृश्यते । इतिहासे प्रसिद्धानां राजवंशानां विवरणं, राज्ञां विजयपराभवानां विवरणं च उपलभ्यते । तस्मिन् काले प्रसिद्धानां बहु जनानां प्रस्तावः दृश्यते । शुङ्ग-नन्द-मौर्य-इक्ष्वाकु-पुरूरववंशीयानां चरित्रं दृश्यते ।
पङ्क्तिः १२६:
एवं पुराणानां विषयविस्तारः अस्ति सुमहान् ।

== पुराणविभागः ==
महापुराणानि द्विधा विभज्यते ।
=== सात्त्विक-राजस-तामसपुराणानि ===

:::वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
पङ्क्तिः १४२:
:::आग्नेय्ञ्च षडेतानि तामसानि निबोधत ।|
मत्स्य-कूर्म-लिङ्ग-शैव-स्कान्दपुराणानि तामसानि ।|
[[Imageचित्रम्:Dwarka.jpg|left|thumb|right| द्वारिकानगरी, हरिवंशः]]

::सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
पङ्क्तिः १५१:
सात्त्विकपुराणेषु हरेः माहात्म्यं, राजसपुराणेषु ब्रह्मणः माहात्म्यं, तामसपुराणेषु शिवस्य माहात्म्यं च वर्णितं दृश्यते । सरस्वत्याः पितॄणां च स्तुतिः यत्र कृतः अस्ति तानि संकीर्णपुराणानि इति मत्स्यपुराणे उल्लेखः दृश्यते ।

=== ब्रह्म-विष्णु-शिवपुराणानि ===
==== ब्रह्मपुराणानि ====
# [[ब्रह्मपुराणम्]]
# [[ब्रह्माण्डपुराणम्]]
पङ्क्तिः १५८:
# [[मार्कण्डेयपुराणम्]]
# [[भविष्यपुराणम्]]
==== विष्णुपुराणानि ====
# [[विष्णुपुराणम्]]
# [[श्रीमद्भागवतपुराणम्]]
पङ्क्तिः १६५:
# [[पद्मपुराणम्]]
# [[अग्निपुराणम्]]
==== शिवपुराणानि ====
# [[शिवपुराणम्]]
# [[लिंगपुराणम्]]
# [[स्कन्दपुराणम्]]
# [[वायुपुराणम्]]
=== महापुराणानि ===

{| class="wikitable sortable"
पङ्क्तिः २१५:

== सन्दर्भ ==
{{reflist}}

[[वर्गः:पुराणानि]]
Line २३८ ⟶ २३७:
[[it:Purāṇa]]
[[ja:プラーナ文献]]
[[jv:Purana]]
[[ka:პურანები]]
[[kn:ಪುರಾಣಗಳು]]
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्