"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
[[File:Chitrakot panoramic.jpg|right|580px|thumb| '''सूरजपूरजलपातः''']]
छत्तीसगढ [[भारतम्|भारतस्य]] हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरम्परागतं प्रकृतिरम्यञ्च अस्ति । अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकाणि’, ’वन्यजन्तवः’, ’बौद्धधर्मसम्बद्धानि’ स्थलानि च सन्ति। एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते। आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते। “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति। अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति। अस्य देवालयस्य निर्माणकालः सप्तमशतकादारभ्य एकादशशतकं यावत् भवेदिति। अयं देवालयः [[कवार्धाद]] समीपे अस्ति। इतः १८ कि.मी.दूरे देवालयः विद्यते। "गिरौध् पुरि" सत्नामिधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले स्थः। [[चीना|चीनदेशस्य]] इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत्। इतः २० कि.मी. दूरे “तालारुद्र”नामकः प्रख्यातदेवालयः अस्ति। ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति। [[जञ्जिगिर्]] क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति। [[खरोद्]] क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति। [[शियोरिनारायण्]] क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति। [[सिङ्घ्पूर्]] प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति। [[राजिम् भगवान्]] क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति। रतन्पुरे महामायायाः देवालयः अस्ति। अत्रैव रतन्पुर्रे]] [[खुदिया]] जलबन्धः, [[खुताघाट्]] जलबन्धः तथा [[लोर्मि]] जलबन्धाश्च सन्ति। “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति। “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम्।
==छत्तीसगढराज्यस्य प्रेक्षणीयस्थानानि==
छत्तीसगढराज्यं नूतनतया निर्मितम् अस्ति । २००० तमवर्षस्य नवम्बरप्रथमदिनाङ्के [[मध्यप्रदेशः|मध्यप्रदेशतः]] एतत् राज्यं पृथक् कृतमस्ति । छोटानागपूरप्रस्थभूमिप्रदेशे व्याप्तम् अस्ति । अस्मिन् राज्ये ३५ आदिवासिजनजातियाः निवसन्ति । नाल्कारु, बैरा, मुण्ड, मादिया नाहर् इत्यादि जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्याणि लोहोद्यमः इत्यादिकार्येषु निरताः सन्ति ।
हजारीबाग् उपत्यकासु एतेषां जीवनदर्शन कर्तु शक्यते । अत्र करनपुर सौत् पहार् इत्यादिस्थानेषु आदिकालतः निर्मितासु गुहासु भित्तिचित्राणि दृश्यन्ते । एतस्य दर्शनेन इङ्ग्लेण्डदेशस्य स्टोन् हेञ्जस्थानस्य स्मरणं भवति ।
===बस्तर===
बस्तरप्रदेशे जगदलपुरमण्डलम् अस्ति । निसर्गरमणीयः अयं प्रदेशः नदीभिः जलपातैः पर्वतैः युक्तः अस्ति । अत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुर राज्यस्य राजधानी अस्ति ।
बस्तरवनप्रदेशे नद्यः गुहाः च विशिष्टानि सन्ति ।
===[[चित्रकूटम्]]===
[[चित्रकूटम्|चित्रकूटे]] जलपातः अतीवसुन्दरः अस्ति । धनुराकारकं ९६ पादमितं जलपातं छत्तीसगढ्राज्यस्य नयागरा इति वदन्ति । कङ्गारराष्ट्रियोद्यानं विशालं रमणीयं च अस्ति । अत्र पादचारणं पर्वतारोहणं प्राणिवीक्षणं वर्णयुक्तानां पतङ्गानां दर्शनं च अतीव हर्षाय भवन्ति ।
पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गमार्गाः निर्मिताः सन्ति ।
===मैन् पाट्===
मैन् पाट् प्रदेशः छत्तीसगड् राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिताः गणेशविग्रहाः वालुकशिलाभि निर्मिताः,दन्तेश्चरी (दान्तेवाडा), विष्णुदेवालयः, च [[महानदी]] तीरस्य इतराकर्षकस्थानानि सन्ति । अमरकाण्टकम् अपि अस्य सीमायां भवति ।
==वाहनमार्गः==
रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाडा ८५ कि.मी. ।
===कैलासगुहाः===
कोटम्मसारप्रदेशस्य तथा कैलासप्रदेशस्य गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः अस्ति । इतः खनिजानि [[विशाखापट्टनम्|विशाखपट्टनं]] प्रति नीयन्ते। केरन्दूलतः विशाखापत्तनधूमशकटमार्गः अतीव रोमाञ्चकारि- अनुभवं जनयति ।
छत्तीसगढराजस्य रायगढमण्डले अनेकानि दर्शनीयानि स्थानानि सन्ति । चित्रकूटे माण्ड्वा जलपाताः, निसर्गरमणीयाः च सन्ति । बहुदूरपर्यन्तं व्याप्ताः भूगर्भकैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनुभवं यच्छन्ति । प्रत्यक्षं दर्शनम् एव वरम् ।
====मार्गः====
जगदलपुरतः ४० कि.मी. ।
====धूमशकटमार्गः====
रायगढधूमशकटनिस्थानतः अपि वाहनसौकर्यमस्ति ।
 
 
 
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्