"गार्गी" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५:
==याज्ञवल्केयन सह वादः==
किन्तु गार्गी न भीता । धैर्येण याज्ञवल्क्येन सह वादं कर्तुम् आरब्धवती । भगवन्, एतानि सर्वाणि पार्थिववस्तूनि जले सन्ति । किन्तु जलं कस्मिन् अस्ति ? इति पृष्टवती । जलं वायौ सम्मिलितमस्ति इति [[याज्ञवल्क्यः]] उत्तरं दत्तवान् । एवं वादः प्रतिवादाः वायोः, आकाशस्य, अन्तरिक्षस्य, गन्धर्वलोकस्य, आदित्यलोकस्य, चन्द्रलोकस्य, नक्षत्रलोकस्य, देवलोकस्य, इन्द्रलोकस्य, प्रजापतिलोकस्य विषये अभवन् । प्रश्नोत्तराणि अभवन् । [[याज्ञवल्क्यः]] गार्ग्याः ब्रह्मज्ञानम् अभवत् । अतः सः तस्याः बहुधाप्रशंसां कृतवान् । ब्रह्मलोकः कस्मिन् सम्मिलितः अस्ति ? इति गार्गी आग्रहेण पुनः पृष्टवती । गार्गि, एषः कश्चित् अतीतः प्रश्नः । अत्र उत्तरस्य सीमा एव अस्ति । एतस्य अनन्तरम् अन्यप्रश्नः नागच्छेत् । तथा करोति चेत् भवत्याः शिरः छिन्नं भवति । विदुषी गार्गी याज्ञवल्क्यस्य अन्तर्भावं ज्ञात्वा, अन्यान् तात्विकप्रश्नान् पृष्टवती । उत्तरं यच्छन् सः ऋषिः अक्षरतत्त्वं, परब्रह्मं, परमात्मतत्त्वं च उत्तमरीत्या निरूपितवान् । तदा सा एव [[याज्ञवल्क्यः|याज्ञवल्क्यस्य]] अपेक्षया उत्तमः ब्रह्मवेत्ता नास्ति इति घोषितवती, [[याज्ञवल्क्यः]] अपि गार्ग्याः विद्वत्तायाः श्रेष्ठत्वस्य, तस्याः ज्ञानस्य च श्लाघनां कृतवान् । एवं परस्पराणां श्लाघनानि तयोः विशालहृदयं प्रतिपादयन्ति । तावत्पर्यन्तम् एतादृशेषु वादेषु स्त्रियः अधिकतया भागं न गृह्णन्ति स्म । एषा तद् साधयित्वा [[भारतम्|भारतस्य]] स्त्रीरत्नम् अभवत् ।
 
 
{{भारतस्य ब्रह्मवादिन्यः}}
 
[[वर्गः:ब्रह्मवादिन्यः]]
"https://sa.wikipedia.org/wiki/गार्गी" इत्यस्माद् प्रतिप्राप्तम्