"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । [[केरळम्|केरल]][[मुम्बई|मुम्बयी]]प्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति ।
अनपेक्षितान् शिलाभागान् ये अपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।
==अजन्ता– उन्नतकलास्थानम्==
विश्वविख्यातं कलाकेन्द्रं बौद्धानां श्रेष्ठं स्थानम् अजन्तागुहासु अस्ति । बहुवर्षाणि यावत् अज्ञातमेव एवासीत् । क्रिस्ताब्दे १८१९ तमे वर्षे आङ्गलाधिकारिणः मृगयां कर्तुम् एतत्प्रदेशम् आगतवन्तः । तदा अज्ञातम् एतत्स्थलं कुतूहलकारि सञ्जातम् । अपूर्वम् एतत्स्थानं ते अधिकारिणः सम्यक् दृष्ट्वा सर्वेषा दर्शनाय व्यवस्थां कृतवन्तः ।
[[महाराष्ट्रम्|महाराष्ट्रराज्ये]] [[औरङ्गाबाद्]]नगरसमीपे जलगां प्रदेशस्य निकटे पर्वतप्रदेशे वने एतदपूर्वं स्थानम् अस्ति देवनिर्मिते प्रकृतिमन्दिरे मानवनिर्मितं कल्पस्थानं सौन्दर्यावासस्थानमस्ति ।
पूर्वं बौद्धसंन्यासिनः अत्र गुहासु मोक्षसाधनाय कार्याणि कुर्वन्तः अत्र एव निवासं कृतवन्तः । क्रमशः एकैका गुहा निर्मिता अभवत् । अत्र स्तम्भेषु द्वारेषु भित्तिषु च अपूर्वा शिल्पकलाकृतिः मनोहारिणी अस्ति । प्रायशः क्रिस्ताब्दे द्वितीये शतके तथा अष्टमे शतके निर्मितम् अद्भुतकलादर्शकस्थानम् एतदस्ति । बौद्धगुहाः अतिप्राचीनाः वर्णचित्रयुक्ताः सन्ति । आहत्य २९ गुहाः अत्र सन्ति ।
षट्सु गुहासु आकर्षकाणि चित्राणि रचितानि सन्ति । बौद्धपुराणविषयाः वर्णचित्रेषु दर्शिताः सन्ति । बुद्धस्य जीवनविशेषाः पूर्वजन्मकथाः (जातककथाः ) विविधरीत्या चित्रिताः सन्ति ।
प्रथमा गुहा प्राचीना विशिष्टा च अस्ति । अत्र सिद्धार्थस्य गृहत्यागसमयस्य चित्रणमस्ति । सिद्धार्थः पद्मपाणिः किरीटधारी च अस्ति । द्वारे एव यक्षदम्पती काशिराजनागराजस्य च चित्राणि सन्ति ।
प्रत्येका गुहापि भारतीयसंस्कृतेः प्रतीकास्ति । सर्वत्र प्रकृतिपूजां पश्यामः । सप्तमी गुहा बुद्धविहारः अस्ति ।१९ तम्यां गुहायां बुद्धस्य आकर्षकयुक्ताः बृहन्मूर्तयः सन्ति । गुहासुन्दरीणां केशालङ्कारः वस्त्राभरणानि मनमोहकानि सन्ति । गुहासु चित्रविषयाः जातककथाधारिताः सन्ति ।
अजन्तागुहासु बुद्धस्य पूजास्थाने प्रकृतिः, शिल्पकला, चित्रकला च दर्शनीयाः सन्ति । चित्रेषु जीवप्रपञ्चस्य दर्शनं भवति । वृक्षाः तरवः विकसत्कुसुमानि, विविधाः पक्षिणः, सुन्दरमृगाः, गम्भीराः गजाः, सुन्दराः अलङ्कृतमण्डपाः, गृहाणि, महाद्वाराणि, राजगृहाणि, एतेषु क्रीडन्तः ध्यानस्थाः जीवविशेषाः, एतेषां मध्ये ध्यानस्यः बुध्ददेवः दृश्यते । उत्तरभित्यां स्थितं बोधिसत्वपद्यपाणेः चित्रं विश्वे एव अतिसुन्दरचित्रमिति विख्यातमस्ति ।
अन्यचित्रे इम्मडिपुलकेशिः पार्सिराजदूताय राजसभाङ्गणे दर्शनं यच्छन् अस्ति । एषा चित्रशाला, चित्रकलोपासनाकेन्द्रं सौन्दर्योपासकानाम् अपूर्वं स्थानं पवित्रस्थलं चासीत् ।
==वाहनमार्गः==
[[औरङ्गाबाद्|औरङ्गाबादतः]] १०६ कि.मी । जलगांतः ६० कि.मी । फर्दापुर समीपेऽस्ति ।
अत्र सोमवासरे राष्ट्रीयविरामदिनेषु च प्रवेशावकाशः नास्ति । मार्गर्दर्शकाः सन्ति । गुहासु प्रकाशः विपुलः नास्ति । अतः करदीपः (Torch) आवश्यकः ।
 
 
==वीथिका==
"https://sa.wikipedia.org/wiki/अजन्तागुहाः" इत्यस्माद् प्रतिप्राप्तम्