"ताजमहल् प्यालेस्" इत्यस्य संस्करणे भेदः

[[File:Taj Mahal Palace Hotel at night.jpg|thumb|300px|left|रात्रौ ताजमहल् प्यालेस... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:४४, ११ अक्टोबर् २०१२ इत्यस्य संस्करणं

ताजमहल् प्यालेस् मुम्बयीनगरे स्थितं ताज् उपाहारवसतिगृहम् अतीव प्रसिद्धम् अस्ति । १०५ वर्षेभ्यः अधिकप्राचीनम् एतत् । अत्र ५६५ प्रकोष्ठाः सन्ति । भव्यभवनम् एतत् । मूरिष-ओरियण्टल् -फ्लारण्टेनशिल्पकलामिश्रितां शैलीम् अत्र पश्यामः । मुम्बयीनगरे प्रमुखभागे गेट् वे आफ् इण्डिया समीपे ताज् महल् प्यालेस् अस्ति। मुम्बयीमहानगरे अस्मिन् भवने राजानः महाराजाः विश्वविख्याताः विदेशीयाः अध्यक्षाः, प्रधानमन्त्रिणः, अधिकारिणः, हालिवुडबालिवुड्नटाः च स्थित्वा विश्रान्तिम् अनुभूतवन्तः सन्ति । विश्वविख्याताः क्रिकेटक्रिडकाः अत्र वासं कृतवन्तः सन्ति। अस्य निर्माणविषये एक प्रमुखं कारणमासीत् । पूर्वमत्र व्याट्सन् होटेल् आसीत् । तत्र भारतीयानां प्रवेशः नासीत् । श्री जेमशेडजीटाटा महोदयस्यापि भारतीयः इति प्रवेशः निषेधितः आसीत् । तेन अवमानितः जेमशेडजीटाटा एकम् उपाहारवसतिगृहं निर्मातुं सङ्कल्पं कृतवान् । प्यारिस् डसेल् डार्फ् इत्यादिनगराणि अटित्वा उत्तमानि वस्तूनि चित्वा आनीय भव्यस्य उपाहारवसतिगृहस्य निर्माणं कारितवान् ।

रात्रौ ताजमहल् प्यालेस्
ताजमहल् प्यालेस्
"https://sa.wikipedia.org/w/index.php?title=ताजमहल्_प्यालेस्&oldid=209634" इत्यस्माद् प्रतिप्राप्तम्