"मेघालयराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
| type = राज्यम्
| native_name =
| state_name = मेघालयराज्यम्
| district = ११
| latd = |latm = |lats =
| longd= |longm= |longs=
| area_total = ८.७०० चदरमैलपरिमितम्
| area_magnitude =
| altitude =
| population_total = २,१७५,०००
| population_as_of = २०००
| population_density =
| leader_title_1 =
| leader_name_1 =
| leader_title_2 =
| leader_name_2 =
| footnotes =
}}
[[चित्रम्:Meghalaya in India (disputed hatched).svg|thumb|]]
'''मेघालयः''' ईशान्यभागे [[भारतम्|भारते]] विद्यमानं किञ्चन राज्यम्। मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति। सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत्। राज्यस्य उत्तरभागे [[असमराज्यम्]], दक्षिणे [[बाङ्ग्लादेशः|बाङ्ग्लादेशश्च]] भवतः। [[शिलाङ्ग]] अस्य राज्यस्य राजधानी। अस्य नगरस्य जनसंख्या २६०,००० भवति। रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति। [[असमराज्यम्|असमराज्यात्]] त्रयाणां मण्डलानां [[खासिहिल्स्]], [[जैनतियाहिल्स्]] तथा [[गारोहिल्स्]] विभागकरणेन [[१९७२]] तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत्।
'''मेघालय''' भारतस्य एक: लघु प्रान्त: अस्ति । १९९१ तमस्य वर्षस्य गणनानुसारम् अत्रत्या जनसंख्या १,७७४,७७८ परिमिता अस्ति ।
==जनसंख्या==
{{stub}}
मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति। तेष्वपि ’खासि’ जनाः अधिकतया सन्ति। ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति। अन्ये जैन्, तियार, कोच्, हजोङ्ग, दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि जनसमुदायाः अत्र निवसन्ति। [[भारतम्|भारते]] अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम्। अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति। अन्ये द्वे राज्ये [[नागाल्याण्डराज्यम्|नागाल्याण्ड]], [[मिजोरामराज्यम्|मिजोरामश्च]] भवतः। [[१९९१]] तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म। ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म। अस्मिन् समये [[मिजोरामराज्यम्|मिजोरामापेक्षया]] मेघालये [[२००१]] तमे संवत्सरे क्रिश्चियनजनाः अधिकतया वसन्तिस्म। [[२००१]] तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति। मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति।
==भाषाः==
[[आङ्ग्लभाषा]] मेघालयस्य राज्यभाषा अस्ति। ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति। प्रायः मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति। खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति। खासि भाषायाः लिपिः नास्ति। [[भारतम्|भारते]] मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा। गारो, भोडो भाषयोः साम्यता अस्ति। अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति। अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति। प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।
==भूगोलम्==
[[चित्रम्:Umiam Lake Meghalaya.jpg|thumb]]
मिघालयराज्यम् मेघालयस्य “प्रस्थभूमिः” इति व्यवहारः अस्ति। अस्मिन् अधिकतया प्राचीनशिला खण्डसदृशाः विद्यन्ते। आङ्गाराष्म, चूर्णशिला, युरेनियम् तथा सिलिमनैट सदृशाः खनिजाः शिलारूपाः भवन्ति। मेघालये काश्चन नद्यः वहन्ति। तासु काश्चन वर्षाश्रिताः सन्ति। अतः कालानुगुण्येन वहन्ति। डेरिङ्ग, साण्डा, बान्द्रा, भोगै, डारेङ्ग, सिसाङ्ग, नितै तथा भूपै इत्यादीनि गारोहिल्स् प्रदेशस्य मुख्याः नद्यः। उम्ख्रि, उमियम्, किञ्चियाङ्ग, माव्वा, उमियिव, मैन्गोट तथा मैण्ट्डु इत्यादीनि प्रस्थभूमेः केन्द्रभागस्य तथा पूर्वविभागस्य मुख्याः नद्यः भवन्ति। एताः नद्यः गहनकन्दराणां तथा सुन्दरजलपातानां सृष्टिकर्त्र्यः भवन्ति। प्रस्थभूमेः उन्नतश्रेणिः १५० तः १९६१ मी. भवति। खासिहिल्स् प्रदेशे विद्यमानायाः प्रस्थभूमेः केन्द्रभागस्य औन्नत्यम् अधिकं भवति। जैनतियाहिल्स् प्रदेशे विद्यमानः पूर्ववलयः औन्नत्ये द्वितीयः भवति। मेघालये उन्नतः शिलाङ्गशिखरः भवति। खासिहिल्स् प्रदेशे विद्यमानः शिखरः शिलाङ्गशिखरस्यापेक्षया उन्नतः भवति। अयं शिखरः १९६१ मि. उन्नतः अस्ति। प्रस्थभूमेः पश्चिमविभागे विद्यमानः गारोहिल्स वलयः प्रायः समतलप्रदेशः भवति। गारोहिल्स वलयस्य नोक्रेक् शिखरः उन्नतः भवति। अस्य औन्नत्यं १५१६ मिटर्परिमितं भवति।
==प्रवासोद्यमविभागः==
[[चित्रम्:Nohkalikai fall.JPG|thumb|'''नोह्कालिकेय् जलपातः''']]
[[चिरापुञ्जि]] ईशान्य [[भारतम्|भारतस्य]] जनप्रियं प्रेक्षणीयस्थलम्। [[चिरापुञ्जि]] [[शिलाङ्ग|शिलाङ्गनगरात्]] दक्षिणदिशि विद्यते। ’एलिफण्ट जलपातः’, ’शाद्धुम् जलपातः’, ’वेय्निया जलपातः’, ’बिषप् जलपातः’, ’नोह्कालिकेय् जलपातः’, ’ल्याङ्ग्षियाङ्ग् जलपातः’, ’स्वीट् जलपातश्च’ प्रसिद्धाः जलपाताः भवन्ति। मासिन्राम् समीपे “जाक्रेम् अष्णजलउत्सांसि” सन्ति। रोगनिरोधकशक्तिः ऊष्णजले अस्ति। मेघालये मानवनिर्मिताः नैसर्गिकाश्च तटाकाः सन्ति। [[गुवहाटी|गुवहाटीतः]] [[शिलाङ्ग|शिलाङ्गगमनमार्गे]] विद्यमानस्य 'उमियम्' तटाकस्य “बडापानि” इति ख्यातिरस्ति। उमियम् तटाकः जानाकर्षकं प्रवासिस्थानं भवति। थङ्गखारङ्ग् उद्यानम्, इको उद्यानम्, सस्यशास्त्रीयोद्यानम्, लेडिहैदरि उद्यानानि प्रसिद्धानि भवन्ति।
==मण्डलानि==
मेघालयराज्यं त्रिषु विभागेषु विभक्तम्। [[जैनतियाहिल्स्]], [[खासिहिल्स्]], [[गारोहिल्स्]] त्रयः विभागाः सन्ति। ११ मण्डलानि अस्मिन् राज्ये सन्ति।
*[[जैनतियाहिल्स्]]:
:*[[पूर्व जैनतियाहिल्स्]]
:*[[पश्चिम जैनतियाहिल्स्]]
*[[खासिहिल्स्]]:
:*[[पूर्व खासिहिल्स्]]
:*[[पश्चिम खासिहिल्स्]]
:*[[दक्षिण खासिहिल्स्]]
:*[[रि-भोई]]
*[[गारोहिल्स्]]:
:*[[पूर्व गारोहिल्स्]]
:*[[पश्चिम गारोहिल्स्]]
:*[[उत्तर गारोहिल्स्]]
:*[[दक्षिण गारोहिल्स्]]
:*[[वायव्य गारोहिल्स्]]
==जातयः==
*खासी: 49%
*गारो: 34%
*बंगाली: 2.5%
*न॑पाली : ४%
*शेख: 2.3%
*हाजोंग: 1.8%
*अन्य: 10.4%
==धर्म:==
*इसाई-64.6%
*प्रकृतिवादी- 16.7%
*हिन्दू -14.7%
*मुसलमान- 4%
==वीथिका==
<gallery>
चित्रम्:Seal of Meghalaya.gif
चित्रम्:Nepenthes khasiana.jpg
चित्रम्:IIMSHILLONG.jpg
चित्रम्:Shillong from Shillong Peak.jpg
चित्रम्:Folk dancer megh.jpg
चित्रम्:A Garo woman.jpg
चित्रम्:Seven Sisters Water Falls Mawsmai Cherrapunjee 513.JPG
चित्रम्:Lake in East Khasi Hills district Meghalaya.jpg
</gallery>
==बाह्यसम्पर्कतन्तुः==
* {{Official website|http://meghalaya.nic.in/}}
* [http://megtourism.gov.in/ Tourism of Meghalaya] (Official)
* {{dmoz|Regional/Asia/India/Meghalaya}}
* {{wikitravel}}
* [[Strangler fig]] trees made into [http://www.youtube.com/watch?v=apBO9pujP5E "living bridges"] in Meghalaya
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
"https://sa.wikipedia.org/wiki/मेघालयराज्यम्" इत्यस्माद् प्रतिप्राप्तम्