"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०३:
==इतरस्थानानि==
[[कोलकाता]]नगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः (नाकोड् मसीदिप्रार्थनामन्दिरं ), षाहीदमीनार् (४८.१ मीटर उन्नत), बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर (Science City) मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति ।
धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – [[बेङ्गलूरुबेङ्गळूरु]]तः १८८३ कि.मी । [[चेन्नै]]तः १६७५ कि.मी । मुम्बयीतः २०८१ कि.मी डार्जिलिङ्गतः १८९ कि.मी दूरे भवति ।
 
==शान्तिनिकेतनविश्वविद्यालयस्थानम्==
कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. १९०१ तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.१९२१ वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति ।
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्