"धर्मस्थलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६४:
==मञ्जूषा वस्तुसङ्ग्रहालयः==
धर्मस्थलक्षेत्रं भारतदेशे एव प्रसिद्धम् अस्ति । अत्र आराध्यः श्रीमञ्जुनाथेश्वरः । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति । लघुपर्वते अण्णप्पास्वामीदेवालयः अस्ति । अन्यस्मिन् पर्वतशिखरे भगवतः बाहुबलेः मूर्तिः स्थापिता अस्ति । पर्वतारोहणाय सोपानानि निर्मितानि सन्ति । धर्मस्थलक्षेत्रे यात्रिकानां वसतिभोजनव्यवस्थाः सन्ति ।
अत्र दर्शनीयं विशिष्टं स्थानं नाम मञ्जूषावस्तुसङ्ग्रहालयः । सर्वे अवश्यं पश्यन्ति एतत् । अस्य सङ्ग्रहालयस्य निर्माणे धर्मदर्शी श्री [[वीरेन्द्र हेग्गडेमहोदयःहेग्गडे]]महोदयः एव स्फूर्तिमान् । अत्र अतिविशिष्टानि वस्तूनि सन्ति । सुव्यवस्थितः सङ्ग्रहालयः एषः देवालयसमीपे अस्ति ।
पूर्वदेशीयानि पश्चिमदेशीयानि इतिहाससम्बद्धानि वस्तूनि अत्र सन्ति । टेरि टेल्ला अर्थोसेरास् अस्थीनि (४०० मिलियन् वर्षपुरातनम् ), जैनतीर्थङ्कराणां विग्रहाः हस्तिदन्ते चित्रितानि वस्तूनि, लोहवस्तूनि, मोहञ्जोदारोप्रदेशीयाः अलङ्कारसामग्र्यः, विविधानि नाणकानि मोगलमौर्यग्रीकविजयनगरवंशीयानां प्रशासनकालीनानि वस्तूनि सम्यक् प्रदर्शितानि सन्ति ।
विविधानां आयुधानां सङ्ग्रहः अत्र अस्ति । विशिष्टानि घटीयन्त्राणि, सङ्गीतवाद्यानि यथा स्याक्सोफोन्, स्प्यानिष् गिटार, प्राचीनम् मैक्रोफोन्, टेलिफोन्, टेलिग्राफयन्त्रम् इत्यादीनि अपूर्वाणि वस्तूनि सन्ति । विशेषतः वस्तुसङ्ग्रहालय दर्शनेन इतिहासज्ञानस्य स्मरणं भवति । प्रातःकाले ९ वादनतः सायं षड्वादनपर्यन्तं दर्शनम् साध्यम् अस्ति । धर्मस्थलगमनाय राज्ये सर्वनगरेभ्यः अपि वाहनव्यवस्था अस्ति ।
 
==मार्गः==
===धूमशकटमार्गः===
"https://sa.wikipedia.org/wiki/धर्मस्थलम्" इत्यस्माद् प्रतिप्राप्तम्