"कदम्बवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४:
कदम्बाः सनातनधर्मस्य दृढानुयायिनः आसन् । [[मयूरशार्मा]] प्रायः जन्मना [[ब्रह्मणः]] चेदपि तस्य पश्चात् आगताः क्षत्रियकुलस्य लाञ्छनमिव वर्मा इति पदम् अयोजयन् । कृष्णवर्मा इत्यदयः राजानः अश्वमेधयागम् अकुर्वन् । तस्य ताळगुन्दशासनम् सिवस्य प्रार्थनया आरभते । हल्मिडि बनवासि इत्यादिषु विष्णोः नाम दृश्यते । तेषां कुलदेवस्य [[मधुकेश्वरदेवालयः|मधुकेश्वरस्य]] देवालयं निर्मितवन्तः । कुडलूरु, शिरसि, इत्यादिषु स्थानेषु लब्धाभिलेखानुगुणं विद्वज्जनानां कृते कृषिक्षेत्राणि दानरूपेण दीयन्ते स्म । [[जैनमतम्]] अपि कदम्बाः प्रोत्सहयन्ति स्म । [[बनवासी]], [[बेळगावी]], [[गोवा]] इत्यादिषु स्थानेषु अनेकानि जैनमन्दिराणि निरमात् । सहित्यकलानां विषये अतीव आदरयुताः कदम्ब राजानः राज्ञ्यः च देवालयेभ्यः विद्यासंस्थाभ्यः च भूभागं उदारं धनसाहाय्यम् अकुर्वन् । [[कन्नडभाषा]]याः आदिकविः पम्पः कृतिषु कदम्बानां स्तुतिं कृतवान् । '''आरङ्कुशविट्टोडं नेनेवुदेन्नमनं बनवासिदेशमम् ''' इति उक्तिः कन्नडसारस्वतक्षेत्रे बहुप्रसिद्धा । कोऽपि अङ्कुशेन स्कुनाति चेदपि मम मनः बनवासिदेशं स्मरति इति अस्याः उक्तेः भावः ।
 
==शिल्पकलायोगदानम्===
कदम्बानां [[शिल्पकला|शिल्पकलविषये]] योगदानां गणनीयम् अस्ति । केषुचित् विषयेषु [[ चालुक्यवंशः|चालुक्यानां]] [[पल्लववंशः|पल्लवानां]] च शैल्या सदृशा कदम्बशिल्पकला स्वस्य विशिष्टं लक्षणयुता अस्ति । एते कदम्बाः [[ शातवाहनवंशः|शातवाहनानां]] शैलीमपि अनुकृतवन्तः । कदम्बशिल्पकलायाः मूललक्षणं कदम्बशिखरम् इत्येव प्रथितं कलशान्तं श्रेणीकृतं मन्दिरगोपुरम् । इयं शैली अनेकशतमानानां पश्चात् दोड्डगद्दवळिप्रदेशस्य [[होय्सळवंशः|होय्सळ]]निर्मितमन्दिरेषु [[हम्पी]]प्रदेशस्य महाकूटदेवालयेषु च दृश्यते । केषुचिन्मन्दिरेषु शिलाजालन्द्राः अपि सन्ति । अग्रे आगतानां [[चालुक्यवंशः|चालुक्यवंशीयानां]], [[होय्सळवंशः|होय्सळवंशीयानां]] च शिल्पकलावैभवस्य मू्ला कदम्बानां शैली एव अभवत् । अद्यापि बनवासिग्रामे सुशोभितः [[मधुकेश्वरदेवालयः]] कदम्बानां वास्तुशास्त्रस्य सुन्दरदृष्टान्तः ।
 
"https://sa.wikipedia.org/wiki/कदम्बवंशः" इत्यस्माद् प्रतिप्राप्तम्