"कदम्बवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५:
अन्यकथानुगुणं [[मयूरशर्मा]] एव शिवभूदेव्योः पुत्ररूपेण जतः कदम्बसाम्राज्यम् अस्थापयत् । अस्यापि त्रीणि नेत्राणि आसन् इति । तुळुभाषिकानाम् इतिहासवर्णनस्य ग्रामपद्धतिनामके पुस्तके [[कन्नडभाषा]]ग्रन्थानुसारं [[मयूरशर्मा]] [[सह्याद्रिः|सह्याद्रेः]] श्रेणिषु कदम्बवृक्षस्य अधः शिवपार्वत्योः अपत्यरूपेण सम्भूतः । एषः एव [[मयूरशर्मा]] । अस्य वंशस्य एव सन्तानं नागरखाण्डकदम्बः इति । वंशस्य शिलालेखानुगुणम् अस्य वंशस्य मूलस्य चिन्तनं नन्दसाम्राज्यपर्यन्तमपि गच्छति । अनपत्यः राजा [[नन्दः]] पुत्रप्राप्तये कैलासे शिवं प्रार्थयत । "भवतः पुत्रौ जनिष्येते । ताभ्याम् कदम्बकुलम् इति भविष्यति तयोः शस्त्रविद्यां बोधनीया" इति नभोवाणी अभवत् । कदम्बानां मूलस्य विषये सिद्धान्तद्वयम् अस्ति । एकं [[कर्णाटकम्|कर्णाटकस्य]] , अपरम् उत्तरभारतस्य । किन्तु उत्तरभारतस्य मूलस्य विषये तस्याः वंशपरम्परायाः पश्चात् अभिलेखेषु केवलम् उल्लेखः अस्ति । अतः एतत् चिन्तनं किंवदन्ती इत्येव परिगण्यते । अस्य प्रथमोल्लेखः क्रि.श.१०५३ तथा क्रि.श. १०५५तमवर्षयोः हरिकेसरीदेवस्य शिलाशासने प्राप्तः । अग्रिमशिलाशासनानि एतदेव उल्लिख्य मयूरशर्मा हिमलये आधिपत्यं स्थापितवान् इति विवृणुते । अस्य समर्थनस्य न कोऽपि अभिलेखः अस्ति । अतः अयं वादः अपि विश्वासार्हः नास्ति । केवलं दक्षिणभारते एव कदम्बवृक्षाः प्ररोहन्ति अतः कदम्बवंशस्य मूलमपि दक्षिणभारतम् एव । कदम्बजातेः विषये अपि पण्डितेषु अभिप्रायभेदाः सन्ति । कदम्बानां जातिविषये विदुषाम् अभिप्रायः भेदः अस्ति । तालगुन्दस्य शिलाभिलेखानुगुणं कदम्बाः मूलतः ब्राह्मणाः, आदिवासिनः इत्यपि अभिप्रायः अस्ति । कदम्बाः केरलराज्ये तमिळुनाडुप्रदेशे च प्रशासतः चेरराजैः सह सङ्घर्षन्तः कडम्बुजातीयाः इति अपि अभिप्रायः श्रूयते । कडम्बवः सुब्रह्मण्यं कदम्बवृक्षं च कुलदेवः इव पूजयन्ति स्म । केचन इतिहासकाराः कदम्बानां मूलं तु उत्तरभारतम् इति वदन्ति । कदम्बानां नाणकेषु कन्नडस्य देवनागर्याः लेखः लाञ्छनं च स्तः । [[कन्नडभाषा]]याः हल्मिडीति सर्वप्रथमशिलालेखे (क्रि.श. ४५०तमवर्षे) कदम्बानां व्यावहारिकी भाषा [[कन्नडभाषा]] इति उल्लेखः अस्ति । तेषां प्रशासनकाले शिलालेखत्रयं शोधितम् । सतारा कलेक्टोरेट् इत्यस्मिन् कदम्बानां प्रशासनस्य आरम्भकाले टङ्कितानि वीरः स्कन्दः कन्नडलिपियुक्तानि नाण्यानि उपलब्धानि । राज्ञस्य भगीरथस्य कालस्य (क्रि.श. ३९०तः ४१५ पर्यन्तं) श्रीः भागी इति कन्नडलिपियुतनाण्यानि अपि उपलब्धानि । अनेन दृढितं भवति यत् कदम्बानां प्रशासनभाषा [[कन्नडभाषा]] आसीदिति ।
 
[[शातवाहनाः|शातवाहनानां]] प्रशासनकालः यदा समाप्तः अभवत् तदा [[कर्णाटकम्|कर्णाटकप्रदेशे]] प्रथमतया अधिकारं कन्नडराजवंशीयाः [[कदम्बवंशः|कदम्बाः]] प्राप्तवन्तः । अस्मिन् विषये विदुषां भिप्रायभेदाः न सन्ति। [[कदम्बवंशः|कदम्बाः]] साम्राज्यस्थापकः [[मयूरशार्मा|मयूरवर्मा]] आसीत् । [[बनवासी|वनवासी]]नगरस्यसमीपे ताळगुन्दः इति राजधानी आसीत् । [[मयूरशर्मा|मयूरवर्मा]] [[काञ्ची]]प्रदेशे शिक्षणं प्राप्तवान् । राज्यस्थापनार्थम् ताळगुन्दमागतवान् । लघुसैन्यं सङ्कलय्य पल्लवाधीनानां राज्ञां विरुद्धं प्रयुद्ध्य जयं प्राप्तवान् । आरम्भे लघु राज्यम् स्थापितवान् । अनन्तरम् बाणवेशीयान् पराजित्य साम्राज्यस्य विस्तारं कृतवान् । [[मयूरशर्मा|मयूरवर्मणः]] प्रशासनकाले प्राकृतापेक्षया संस्कृतभाषायाः प्रयोगः अधिकः आसीत् । किन्तु प्राशासनिकेन भाषारुपेण [[कन्नडभाषा]] स्वीकृता इति विदुषाम् अभिप्रायः । [[कदम्बवंशः|कदम्बराजानः]] स्वयम् हरीतपुत्राः मानव्यगोत्रजाः इति घोषितवन्तः । [[मयूरशर्मा|मयूरवर्मणः]] मरणानन्तरं कङ्गवर्मा भगीरथवर्मा रघुवर्मा च क्रमशः कदम्बसाम्राज्ये प्रशासकाः अभवन् । रघुवर्मणः अनन्तरम् काकुत्सवर्मा सिंहासनारूढः अभवत् । सः अभिवृद्धिकार्ये [[कर्णाटकम्|कर्नाटके]] प्रथमः उत्तमप्रशासकः इति स्थानम् प्राप्तवान् । प्रथमतया एषः कञ्चिपल्लवान् जितवान् । राज्यस्य विस्तारं कृतवान् । द्वितीयम् अभिवृद्धिकार्यं शासननिर्माणम् आसीत् । अस्य काले एव प्रसिद्धम् हल्मिडिशासनम् (हल्मिडिशिलाभिलेखः) निर्मितम् आसीत् । अस्य प्रशासनकाले कदम्बसाम्राज्यम् [[शिवमोग्गमण्डलम्|शिवमोग्गा]] [[चित्रदुरगमण्डलम्|चित्रदुर्गः]] [[बळ्ळारीमण्डलम्|बळ्ळारी]], [[उत्तरकन्नडमण्डालम्|उत्तरकन्नडम्]], [[बेळगावीमण्डलम्|बेळगावी]] मण्डलेषु व्याप्तमभवत् । काकुत्स्थवर्मा गुप्तवाकाटकराजवंशजैः सह वैवाहिकसम्बन्धं स्थापनेन कदम्बानां राज्यं स्थिरं कृतवान् । काकुत्स्थवर्मणः शान्तिवर्मा कृष्णवर्मा इति पुत्रौ अस्ताम् । एतौ राज्यं विभज्य प्रशासनमकृतवन्तौ । शान्तिवर्मा [[बनवसी]] नगरं राजधानीम् कृत्वा प्रशासनम् कृतवान् । कृष्णवर्मा च त्रिपर्वतनगरे शासनम् कृतवान् । शान्तिवर्मा पल्लवान् जितवान् । आक्रमणकारान् प्रतिबन्धितवान । तलकाडुप्रदेशीयानाम् प्रदेशान्पिजित्वा साम्राज्यस्य विस्तारम् कृतवान् । शान्तिवर्मणः कालानन्तरं मृगेशवर्मा, रविवर्मा च कदम्बसाम्राज्ये प्रशासकौ अभवताम् । एतयोः समये पाण्ड्यराजाः अळुपवंशीयाः राजानः कोङ्गव्ळाः च जिताः अभवन । अनेन [[कर्णाटकम्|कर्णाटकराज्य]]प्रदेशे कदम्बाः बलिष्ठाः अभवन् । रविवर्मणः पुत्रः हरिवर्मा अपि असामान्यः राजासीत् अस्य प्रशासनकाले कदम्बराज्यम् एकीभूतम् समृद्धं सुभद्रं च अभवत् । साम्राज्यस्य सुभद्रः आधारः स्थापितः अभवम् । [[कदमबवंशः|कदम्बवंशीयाः]] सा.श.चतुर्थशतकतः षष्ठशतकपर्यन्तम् उत्तमम् प्रशासनं कृतवन्तः । एतेषां प्रशासनकाले [[कन्नडाभाषा|कन्नडभाषिकाः]] राजनितिषु एकीकृता न अभवन् । अतः प्रथमतया कन्नडदेशीयानां साम्राज्यं स्थापितमासीत् । [[कन्नडभाषा]]याः प्राशस्त्यं दत्तमासीत् । शासनेषु च कन्नडभाषायाः प्रमोगः कृतः अस्ति । हरिवर्मणः प्रशासनकालादनन्तरं कदम्बानां प्राबल्यम् कुष्ठितम अभवत् । कदम्बवंशीयैः देवालयाः निर्मिताः सन्ति । कृषिकार्यार्थमपि उत्तमम् कार्यम् कृतम् ।
==कदम्बवंशप्रशासनम्==
क्रि.श. ४५०तमस्य राज्ञः शान्तिवर्मणः कालस्य ताळगुण्दशिलाभिलेखः कदम्बसाम्राज्यस्य उद्गवम्अस्य विषये विवरणं ददाति । ताळगुन्दः नाम अद्यतस्य [[कर्णाटकम्|कर्णाटकस्य]] [[शिवमोग्गमण्डलम्|शिवमोग्गमण्डले]] अस्ति । ताळगुण्दस्य निवासी स्वस्य पितामहेन गुरुणा वीरशर्मणा सह क्रि.श. ३४५तमे वर्षे वैदिकविद्यार्जनार्थं कञ्चीं गतवान् । तत्र पल्लवराजानां रक्षकभटैः अवमानितः अभवत् । अनेन क्रुद्धः प्रतीकारस्य प्रतिज्ञां कृत्वा कञ्चिं त्यक्त्वा आगतवान् । स्वस्य ब्राह्मण्यं त्यक्त्वा शस्त्राभ्यासम् आरब्धवान् । स्वानुचरैः सह मिलित्वा सेनां रचयित्वा श्रीशैले पल्लवैः सह प्रयुध्यः तान् पराजितवान् । पल्लवराजैः कोलारस्य बृहत्बाणैः च सह दीर्घकालं संयुध्य कदम्बाः स्वतन्त्रं राज्यम् अघोषयन् । मयूरशार्मणः पुत्रः कङ्गवर्मा क्रि.श. ३६५तमे वर्षे राज्याभिषेकं प्राप्तवान् । वाकटकपृथ्वीसेनेन युद्धे पराजितः चेदपि स्वस्य स्वातन्त्र्यरक्षणे यशस्वी अभवत् । अस्य पुत्रः भगीरथः पितृहस्तपरिच्युतानि स्थानानि पुनः प्राप्तुं न शक्तवान् । भगीरथस्य पुत्रः रघुः पल्लवैः सह कृते आहवे मृतः । तस्य पश्चात् अभिषिक्तः एव कदम्बवंशे एव अतिबलिष्ठः उग्रः च राजा काकुस्थवर्मा । अस्य एकां कन्यां [[गुप्तसाम्राज्यम्|गुप्तसाम्राज्य]] स्कन्दगुप्तः परिणीतवान् । अन्यां कन्यां वाकटकराजः नरेन्द्रसेनः परिणीतवान् । ताळगुन्दशिलाभिलेखानुसारं काकुस्थवर्मापि [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलस्य]] अळूपः गगङ्गवाडीराजकुलैः सह विवाहसम्बन्धं प्राप्तवान् । महाकविः [[कालिदासः]] अस्य आस्थानमागतवान् । काकुस्थवर्मणः पश्चात् आगतेषु राजसु क्रि.श. ४८५तमे वर्षे अभिषिक्तः रविवर्मा केवलं राज्यं विस्तर्तुम् अशकत् । तस्य राज्यप्रशासनकाले [[पल्लवाः|पल्लवैः]] [[गङ्गाः|गङ्गैः]] युद्धानि अन्तःकलहानि च अधिकानि अभवन् । [[नर्मदानदी|नर्मदानद्याः]] तीरपर्यन्तं व्याप्तान् वाटकान् पराजितान् अकुर्वन् । कदम्बानां राज्यम् अद्यतनस्य [[गोवाराज्यम्|गोवाराज्यस्य]] [[महाराष्ट्रराज्य|महाराष्ट्रराज्यस्य]] [[कर्णाटकम्|कर्णाटकस्य]] दक्षिणभागान् अन्तर्निहितम् आसीत् । कदम्बेषु एव अन्तःकलहकारात् राजवंशः विनाशस्य मार्गगतः । कदम्बानां विष्णुवर्मणः बीरुरुग्रामस्य फलके शान्तिवर्मा समस्तकर्णाटकस्य प्रभुः इति सम्बोधितं लिखितम् । मुख्यवाहिन्याः क्रि.सा. ४५५तमे वर्षे विभक्ता तृपावर्ता इति शाखा [[बेळगावी]]समीपस्य मुरोड् इति स्थानं कञ्चित्कालं प्रशास्य पश्चात् हरिवर्मणः काले [[बनवासी]]कदम्बसाम्राज्ये विलीना अभवत् । अन्ते अयं कदम्बवंशः बादामीचालुक्यैः पातितः । पश्चात् [[राष्ट्रकूटवंशः|राष्ट्रकूटानां]] [[कल्याणीचालुक्याः|कल्याणीचालुक्यानां]] च अधीनवंशः अभवत् । मयूरशार्मणः उत्तराधिकारिणः क्षात्रवंशसूचकं वर्म इति उपाधिं स्व्यकुर्वन् ।
"https://sa.wikipedia.org/wiki/कदम्बवंशः" इत्यस्माद् प्रतिप्राप्तम्