"राष्ट्रकूटवंशः" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
|date_event1 =
|
 
|p1 =
|flag_p1 = GBerunda.JPG
राष्ट्रकूटानां काले [[कन्नडभाषा]]यां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । [[रामायणम्]], [[महाभारतम्]] कव्ययोः सक्षिप्तं [[कन्नडभाषा]]रूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः ।
 
[[चालुक्यवंशः|बादामीचालुक्यवंशीयानाम्]] अस्तमानानन्तरम् प्रवर्धमानां स्थितिमागताः मान्यकूटप्रदेशीयाः राष्ट्रकूटवंशीयाः प्रसिध्दाः अभवन् । चालुक्याः इव एतेऽपि दक्षिणभारते विशालं साम्राज्यं स्थापयित्वा द्विशतमानादधिकसमयं यावत् प्रशासनम् कृतवन्तः ।
 
 
विदेशेषु अपि सम्पर्कम् स्थापयित्वा वाणिज्यव्यवहारं कृतवन्तः आसन् । राज्यं च समृध्दम् अकुर्वन् । हिन्दुजैनधर्माणाम् समानम् गौरवम् दत्वा सामाजिकशान्तिस्थापनं कृतवन्तः । शिक्षणप्रसाराय शालान् निर्मितवन्तः, कविजनान् पण्डितान् राजाश्रयम् दत्वा सम्मानितवन्तः । एतेषां प्रशासनकाले कन्नडसंस्कृतोभयभाषयोः अनेककृतीनाम् सृष्टिः अभवत् ।
 
कन्नडसाहित्ये प्रसिध्दः पम्पकवि पोन्नः इत्यादयः एतेषां राष्ट्रकूटानाम् प्रशासनकाले आसन् । देवालयाणाम् निर्माणायच राष्ट्रकूटवंशीयाः प्रोत्साहम् दत्तवन्तः । आहत्य राष्ट्रकूटराजाः कन्नडप्रदेशस्य संस्कृतेः अभिवृध्दये बहुप्रयतितवन्तः इति ख्याताः आसन् ।
 
राष्ट्रकूटवंशीयानाम् मूलनिवासविषये उगमविषये च ऐतिहासिकाधारः न लब्धः । अतः कदा एतेषां उदयः अभवत् इति वक्तुम् न शक्यते । किन्तु एते राष्ट्रकूटराजाः कन्नडप्रदेशीयाः इत्यत्र संशयः नास्ति । राष्ट्रकूटराजानाम् “लट्टलूरुपुरवराधीश्वर” इति नाम प्रख्यातमासीत् । "लट्लूरु" इत्यस्य अधुनातन महाराष्ट्रराज्यस्य लातूरु प्रदेशे प्रशासनम् कृतवन्तः स्युः इति विदुषाम् अभिप्रायः अस्ति ।
 
अनन्तरसमये एते एल्लोरा एलिचिपुरेषु स्थितवन्तः । एतेषाम् राजधानी मान्यखेतस्थलम् अधुनातन गुलबर्गामण्डलस्य माळ्खेड्नगरम् इति ज्ञातमस्ति ।
 
==राष्ट्रकूटसाम्राज्यस्थापनम्==
चालुक्यराजः द्वितीयविक्रमादित्यः शूरः धीरः आसीत् । किन्तु अनन्तरम् चालुक्यवंशीयः द्वितीयकीर्तिवर्मा अधिकारं प्राप्तवान् । सः समर्थः प्रशासकः नासीत् । तस्य समये चालुक्यसाम्राज्यस्य अवनतेः लक्षणानि विज्ञाय दन्तिदुर्गः चालुक्यवंशीयानाम् अनेकान् अधीनराजान् पराजितवान् । बादामिनगरं आक्रम्य द्वितीयकीर्तिवर्माणम् अपि पराजित्य राष्ट्रकूटवंशस्य साम्राज्यं उद्धोषितवान् । एवम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्थापनाभवत् ।
 
==प्रमुखाः राष्ट्रकूटराजाः ==
 
===दन्तिदुर्गः ===
[[दन्तिदुर्गः]] एव राष्ट्रकूटसाम्राज्यस्य स्थापकः ।
 
राष्ट्रकूटराजाः पूर्वं बादामी चालुक्यराजानां अधीनराजाः आसन् । अस्मिन् समये गोविन्दराजः, कर्कराजः, इन्द्रः इत्यादयः क्रमशः प्रशासनम् कृतवन्तः । इन्द्रस्य पुत्रः [[दन्तिदुर्गः]] राष्ट्रकूटवंशीयेषु प्रसिध्दः राजासीत् । यदा द्वितीयविक्रमादित्यः गुजरात् प्रदेशे स्थिताय अवनिजाश्रयाय अरब्बीजनान् नियन्त्रितुम् साहाय्यं कृतवान् तदा दन्तिदुर्गः अपि द्वितीयविक्रमादित्येन सह आगतवान् आसीत् । चालुक्य-पल्लवराजयोः युध्दसमयेऽपि दन्तिदुर्गः द्वितीयविक्रमादित्याय साहाय्यं कृतवान् इति इतिहासतज्ञानाम् अभिप्रायः अस्ति ।
 
==राष्ट्रकूटाराजाः==
१,८१८

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/211419" इत्यस्माद् प्रतिप्राप्तम्