"चालुक्यवंशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११०:
 
==बादामी चालुक्याः ==
[[कदम्बवंशः|कदम्बवंशीयानां]] साम्राज्यस्य पतनादनन्तरं [[कर्णाटकम्|कर्णाटकप्रदेशे]] चालुक्यवंशीयानां साम्राज्यस्य स्थापनाभवत् । बादामी इति नगरं तेषाम् राजधानी आसीत् । सा.श. ५४० तः सा.श.७५३ वर्षपर्यन्तं चालुक्यवंशीयानां प्रशासनम् अभवत् । चालुक्याः [[कर्णाटकम्|कर्णाटकस्य]] प्रथमराजवंशः इति ख्याताः। एतेषां साम्राज्यस्थापकः कृषककुटुम्बस्य सदस्यः इति विदुषाम् अभिप्रायः अस्ति ।[[कर्णाटकस्य इतिहासः|कर्णाटकेतिहासे]] एषः राजवंशः बहुवैधैः महत्वं प्राप्तः अस्ति । कलावास्तुशिल्पः, साहित्यम् इत्याषु क्षेत्रेशु चालुक्यवंशीयानां महत्वपूर्णं योगदानम् अस्ति । [[भारतम्|भारतदेशस्य]] राजकार्ये प्रमुखं पात्रं निर्वहन्तः चालुक्यवंशीयाः [[करणाटकम्कर्णाटकम्|कर्णाटकस्य]] अतीव गौरवम् वर्धितवन्तः । एषः राजवंशः अतीव प्रसिद्धः अभवत् । पूर्वम् चालुक्यराजवंशीयाः [[कदमबवंशः|कदम्बसाम्राज्यस्य]] अधीनराजानः आसन् । जयसिंहवल्लभः तस्य पुत्रः रणराणः च चालुक्यसाम्राज्यस्य प्रशासनकर्तारः आसन् । परन्तु एतेषाम् विषये विशेषाधारभूतं विवरणं न लब्धम् अस्ति । रणारागस्य पुत्रः प्रथमः पुलिकेशि स्वतन्त्ररुपेण प्रशासनम् कृतवान इति कारणात् एतमेव चालुक्यसाम्राज्यस्य स्थापकम् परिगणितवन्तः सन्ति । प्रथमः पुलिकेशि क्रिस्ताब्द ५४० तः क्रिस्ताब्ध ५६६ वर्ष पर्यन्तम् प्रशासनम् कृतवान् । एषः कदम्बवंशीयान् युध्दे पराजित्य स्वसाम्राज्यस्य विस्तारं कृतवान । बादामीनगरे दुर्गम निर्माय गुहालयनिर्माणे कार्यम् आरब्धवान् ।
 
==प्रशासनकालः==
शिलाभिलेखानुसारं [[प्रथमः पुलिकेशिः]] अनेकयज्ञकार्याणि कृतवान् इति विदितमभवति । अस्य सत्याश्रयः रण्वैक्रमः इत्यादयः उपदयः आसन् । एतस्य पुत्रौ प्रथमः कीर्तिवर्मा मङ्गळेशः च । प्रथमपुलिकेशिराजस्य प्रशासनानन्तरम् एतौ शासकौ अभवताम् । [[प्रथमः कीर्तिवर्मा]] सा.श.५६६ तः सा.श.५९६ वर्षपर्यन्तम् सिंहासनारुढः आसीत् । एषः [[कदम्बवंशः|कदम्बवंशीयान्]] पराजित्य साम्राज्यस्य विस्तारे मग्नः अभवत् । सागरतीरप्रदेशे पश्चिमभागे स्थितम् । अळुपराजं तथा [[कर्णाटकम्|कर्णाटस्य]] [[आन्ध्रप्रदेशस्य |आन्ध्रप्रदेशस्य]] सीमायां स्थितं नळवाडीप्रदेशस्थं नळराजं पराजितवान् । कळिङ्गपर्यन्तमपि आक्रमणं कृतवान् । सेन्द्रकराजस्य सहोदरीं परिणीय स्वप्रभावं वर्धितवान् । [[प्रथमपुलिकेशिः|प्रथमपुलिकेशिराजस्य]] पुत्रः [[द्वितीयपुलिकेशिः]] बालः इति कारणात् सहोदरः [[मङ्गळेशः]] सा.श.५९६ तः सा.श. ६१० वर्षपर्यन्तम् सिंहासनारुढः अभवत् । प्रथमकीर्तिवर्मणः नियमानुसारमेव नीतिमनुसरन् [[मङ्गेळशः]] अपि राज्यविस्तारं कृतवान् ।
"https://sa.wikipedia.org/wiki/चालुक्यवंशः" इत्यस्माद् प्रतिप्राप्तम्