"चालुक्यवंशः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः ११५:
शिलाभिलेखानुसारं [[प्रथमः पुलिकेशिः]] अनेकयज्ञकार्याणि कृतवान् इति विदितमभवति । अस्य सत्याश्रयः रण्वैक्रमः इत्यादयः उपदयः आसन् । एतस्य पुत्रौ प्रथमः कीर्तिवर्मा मङ्गळेशः च । प्रथमपुलिकेशिराजस्य प्रशासनानन्तरम् एतौ शासकौ अभवताम् । [[प्रथमः कीर्तिवर्मा]] सा.श.५६६ तः सा.श.५९६ वर्षपर्यन्तम् सिंहासनारुढः आसीत् । एषः [[कदम्बवंशः|कदम्बवंशीयान्]] पराजित्य साम्राज्यस्य विस्तारे मग्नः अभवत् । सागरतीरप्रदेशे पश्चिमभागे स्थितम् । अळुपराजं तथा [[कर्णाटकम्|कर्णाटस्य]] [[आन्ध्रप्रदेशस्य |आन्ध्रप्रदेशस्य]] सीमायां स्थितं नळवाडीप्रदेशस्थं नळराजं पराजितवान् । कळिङ्गपर्यन्तमपि आक्रमणं कृतवान् । सेन्द्रकराजस्य सहोदरीं परिणीय स्वप्रभावं वर्धितवान् । [[प्रथमपुलिकेशिः|प्रथमपुलिकेशिराजस्य]] पुत्रः [[द्वितीयपुलिकेशिः]] बालः इति कारणात् सहोदरः [[मङ्गळेशः]] सा.श.५९६ तः सा.श. ६१० वर्षपर्यन्तम् सिंहासनारुढः अभवत् । प्रथमकीर्तिवर्मणः नियमानुसारमेव नीतिमनुसरन् [[मङ्गेळशः]] अपि राज्यविस्तारं कृतवान् ।
== द्वितीयपुलिकेशिराजस्य साम्राज्यविस्तारः==
मध्यभारते केचनभागः वशीकृताः अभवन् । [[गुजरातराज्यम्|गुजरातराज्यस्य]] सीमान्तं यावत् सेनकार्यं कृत्वा प्रभावीराजः अभवत् । कलचूर्यराजं बुद्धराजमपि पराजितवान् चाळुक्यानां विरुद्धं यदा अधीनराजः स्वामिराजः क्रान्तिम् आरब्धवान् आसीत् । तं पराजित्य शिक्षां दत्तवान् । महाकूटेस्थिते स्तम्भशिलाभिलेखे [[मङ्गलेशः]] स्वयं गङ्गराजान् पल्लवराजान् चोळराजान् अलुपराजान् च पराजितवान् । मङ्गळेशः परमभागवतः इति ख्यातः बादामीनगरे विष्णुं गुहादेवालयं निर्मितवान् । एषः स्वपुत्रम् एव साम्राज्ये स्थापयितुम् निर्णयं कृतवान् । भ्रातुः पुत्रः [[द्वितीयपुलिकेशिः]] प्राप्तवयस्कः आसीत् । अतः
* प्रथमः पुलिकेशिः (क्रि.श. ५४३ - ५६६)
|