"चालुक्यवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११६:
== द्वितीयपुलिकेशिराजस्य साम्राज्यविस्तारः==
मध्यभारते केचनभागः वशीकृताः अभवन् । [[गुजरातराज्यम्|गुजरातराज्यस्य]] सीमान्तं यावत् सेनकार्यं कृत्वा प्रभावीराजः अभवत् । कलचूर्यराजं बुद्धराजमपि पराजितवान् चाळुक्यानां विरुद्धं यदा अधीनराजः स्वामिराजः क्रान्तिम् आरब्धवान् आसीत् । तं पराजित्य शिक्षां दत्तवान् । महाकूटेस्थिते स्तम्भशिलाभिलेखे [[मङ्गलेशः]] स्वयं गङ्गराजान् पल्लवराजान् चोळराजान् अलुपराजान् च पराजितवान् । मङ्गळेशः परमभागवतः इति ख्यातः बादामीनगरे विष्णुं गुहादेवालयं निर्मितवान् । एषः स्वपुत्रम् एव साम्राज्ये स्थापयितुम् निर्णयं कृतवान् । भ्रातुः पुत्रः [[द्वितीयपुलिकेशिः]] प्राप्तवयस्कः आसीत् । अतः चालुक्यराजवंशे अन्तःकलहः आरब्धः । द्वितीयः पुलिकेशिः विजयीभूत्वा सा.श.६१० तमे वर्षे चालुक्यसिंहासनाधीश्वरः अभवत् । [[कर्णाटकम्|कर्णाटकस्येतिहासे]] नूतनम् अध्यायम् आरब्धवान् । चालुक्यराजवंशे प्रवृत्तेन अन्तर्युद्धेन राज्ये अराजकता अभवत् । अनेके माण्डलिकाः अस्थिरतायाः लाभं स्वीकर्तुं प्रयत्नं कृतवन्तः। क्रान्तिकारिणौ अप्पयिकगोविन्दौ [[द्वितीयपुलिकेशिः|द्वितीयपुलिकेशिराजेन]] पराजितौ । अनन्तरं [[गङ्गवंशः|गङ्गवंशीयाः]] [[कदम्बवंशः|कदम्बवंशीयाः]] [अलुपवंशः|अलुपवंशीयाः]] च पराजिताः अभवन् । एवम् चाळुक्यसाम्राज्यस्य सर्वेऽपि अधीनाः अभवन् [[द्वितीयपुलिकेशिः|द्वितीयः पुलिकेशिमहाराजः]] आन्तरिकबाहयोभयसुरक्षार्थं प्रबलं सैन्यं सज्जीकृतवान् । [[द्वितीयपुलिकेशिः|द्वितीयः पुलिकेशिमहाराजः]] महानौकासौन्यस्य निर्माणमपि कृतवान् । उत्तरभारते लाट्गुर्जरमालवप्रदेशेषु आक्रमणं कृत्वा पराजितवान् । उत्तरभारते कान्यकुब्जनगरे सम्राट [[हर्षवर्धनः]] प्रशासनं करोति स्म । तस्य दक्षिणभारते साम्राज्यविस्तारणस्य आशा आसीत् । [[नर्मदानदी|नर्मदानदीतीरे]] [[द्वितीयपुलिकेशिः|द्वितीयपुलिकेशि]]महाराजेन साकं [[हर्षवर्धनः]] युद्धं कृत्वा पराजितः अभवत् । अनन्तरं [[द्वितीयपुलिकेशिः|द्वितीयपुलिकेशि]]महाराजं दक्षिणापथेश्वरः इत्याङ्गीकृतवान् । नर्मदानदी दक्षिणोत्तरसाम्राज्ययोः सीमा अभवत् । [[द्वितीयपुलिकेशिः|द्वितीयपुलिकेशिमहाराजः]] [[काञ्ची]]नगरप्रशासकान् पल्लवराजान् नियन्त्रयितुं [[पाण्ड्यवंशः|पाण्ड्यराजैः]] चोळराजैः च सह उत्तमराजकीयसम्बन्धं स्थापितवान् । दक्षिणभारते पल्लवराजाः [[चालुक्यवंशः|चालुक्यराजाः]] च सङ्घर्षयुक्ताः आसन् । सहजतया एतयोः मध्ये सार्वभौमत्वविषये स्पर्धा आसीत् ।
;चालुक्यराजाः-
 
* प्रथमः पुलिकेशिः (क्रि.श. ५४३ - ५६६)
* प्रथमः कीर्तिवर्मः (क्रि.श. ५६६-५९७)
"https://sa.wikipedia.org/wiki/चालुक्यवंशः" इत्यस्माद् प्रतिप्राप्तम्