"राष्ट्रकूटवंशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०९:
 
राष्ट्रकूटराजाः पूर्वं बादामी चालुक्यराजानां अधीनराजाः आसन् । अस्मिन् समये गोविन्दराजः, कर्कराजः, इन्द्रः इत्यादयः क्रमशः प्रशासनम् कृतवन्तः । इन्द्रस्य पुत्रः [[दन्तिदुर्गः]] राष्ट्रकूटवंशीयेषु प्रसिध्दः राजासीत् । यदा द्वितीयविक्रमादित्यः गुजरात् प्रदेशे स्थिताय अवनिजाश्रयाय अरब्बीजनान् नियन्त्रितुम् साहाय्यं कृतवान् तदा दन्तिदुर्गः अपि द्वितीयविक्रमादित्येन सह आगतवान् आसीत् । चालुक्य-पल्लवराजयोः युध्दसमयेऽपि दन्तिदुर्गः द्वितीयविक्रमादित्याय साहाय्यं कृतवान् इति इतिहासतज्ञानाम् अभिप्रायः अस्ति ।
 
===ध्रुवः‌===
क्रिस्तशकाष्टमे शतमानकाले उत्तरार्धे उत्तरभारते परमाधिकारार्थम् गुर्जरपालवंशीये सङ्घर्षः अभवत् । एतयोः सङ्धर्षस्य मध्ये राष्ट्रकूटराजः ध्रुवः उभयोः सर्वाधिकारम् स्वयम् स्वीकृतवान् । उभौ अपि पराजितवान् । कनौज प्रदेशे अधिकारम् प्राप्य उत्तरभारतेऽपि राष्ट्रकूटवंशियानाम् अधिकारं स्थापितवान् दक्षिणभारते च गङ्गवाडिं वशीकृत्य पल्लवराजान् पराजितवान ।
तमीळुनाडु प्रदेशे च अधिकारमप्राप्तवान् । ध्रुवस्य प्रशासनकाले उत्तरदिशि उण्णयिनीपर्यन्तम् दक्षिणदिशि काञ्चीपर्यन्तम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्य सीमासीत् ।
ध्रुवमहाराजस्य मरणानन्तरम् तस्य चतृषुपुत्रेषु सिंहासनाधिकाशयनः अन्तर्युध्दमभवत् । अन्तिमतया श्रृतीयः गोविन्दः जयशाली अभवत् । सिंहासनारुढः च अभवत । एतेषां ध्रुवराजपुत्राणां सङ्घर्षसमये केचनमाण्डलिकाः स्वातन्त्यार्थम् प्रयत्नम् कृतवन्तः । तृतीयः गोविन्दः एतादृशान वत्सराज धर्मपाल इत्यादि माण्डलिकान । जित्वा स्वाधिकारम् स्थिरम कृतवान् ।
विन्ध्यप्रदेशे सैनिककेन्द्रम् स्थापयित्वा भूपाल झान्सी कनौज प्रदेशाम् आक्रमितुम् योजनां कृतवान् । अस्य सेनायात्रा क्रिस्ताब्द ७९६ तः ८०० वर्ष समये अभवत् इति विमर्शकाणाम् अभिप्रायः अस्ति । उत्तरभारते दिमालयपर्यन्तम् ध्रुवः दण्डयात्राम् कृतवान् । एतत्तु अतीवमहवपूर्णम् साधनम् अभवत् ।
ध्रुवस्य उत्तरभारतदण्डयात्रायाः समये दक्षिण भारते पल्लवराजाः, पाण्ड्यराजाः केरळराजाः गङ्गराजाः च स्वतन्त्राः भवितुं प्रयत्नम् कृतवन्तः । वेङ्गिराजाः च स्वातन्त्र्यम् इष्टवन्तः । एते सर्वे एकीभूय तृतीयंगोविन्दम् पराजयितुम् प्रयत्नम् कृतवन्तः । किन्तु तृतीयः गोविन्दः सर्वान् जित्वा अधिकारं स्थापितवान ।
 
==राष्ट्रकूटाराजाः==
"https://sa.wikipedia.org/wiki/राष्ट्रकूटवंशः" इत्यस्माद् प्रतिप्राप्तम्