"हिन्दूधर्मः" इत्यस्य संस्करणे भेदः

(लघु) Robot: ru:Индуизм is a featured article
(लघु) r2.7.3) (रोबॉट: ckb:ھیندووئیزم की जगह ckb:ھیندوویزم जोड़ रहा है; अंगराग परिवर्तन
पङ्क्तिः १:
{{हिन्दूधर्मः}}
सनातनधर्मः '''हिन्दुधर्म'''स्य निजनाम वर्तते । वेदान् अवलम्बते अयं धर्मः इत्यनेन '''वैदिकधर्मः''' इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः '''आर्यधर्मः''' इति नाम्ना अपि अयं धर्मः निर्दिश्यते ।
== '''हिन्दु'''शब्दस्य व्युत्पत्तिः ==
सिन्धूनद्याः तीरे विद्यमानानां धर्मः आसीत् अयम् । प्राचीनपर्षियन्-जनाः 'स'कारोच्चारणस्थाने 'ह'कारस्य उच्चारणम् अकुर्वन् । तस्मात् '''हिन्दुसंस्कृतिः''' '''हिन्दुराष्ट्रम्''' '''हिन्दुधर्मः''' इति जातम् ।<br />
केचन वदन्ति यत् '''हिन्दु''' इत्येतदपि अस्मदीयः एव प्राचीनः शब्दः इति ।
== सनातनधर्मस्य प्रवर्तकाः ==
जगतः अन्यानि मतानि यथा केनचित् संस्थापितानि इति निर्दिश्यते तथा सनातनधर्मस्य कश्चन संस्थापकः इति न विद्यते । इदम् अस्य धर्मस्य वैशिष्ट्यं वर्तते । एकस्य जनस्य अध्यात्मानुभवम् अनुसृत्य अयं [[धर्मः]] न प्रवर्तते । अयं धर्मः बहूनां ज्ञानिनां योगिनां महात्मनाम् ऋषीणाम् अतीन्द्रियदर्शनानि अध्यात्मानुभवान् च आधारीकृत्य सुभद्रपृष्ठभूमौ स्थितः वर्तते । एते ऋषिमुनयः अपि अस्य सनातनधर्मस्य प्रवर्तकाः एव, न तु तस्य संस्थापकाः । तेषाम् अनुभवाः आचार-तत्त्व-उपदेशरूपेण व्यवस्थिततया सङ्कलिताः सन्ति । सहस्रशः सन्तः महात्मनः अस्य सत्यत्वं स्वस्य जीवनस्य आचरणद्वारा द्रढीकृतवन्तः सन्ति । विज्ञानपुस्तकेषु उल्लिखिताः नियमाः प्रयोगशालासु यथा द्रढीकर्तुं शक्याः तथैव एते अध्यात्मनियमाः अन्तरात्मनः प्रयोगशालायां द्रढीकर्तुं शक्याः सन्ति अद्यत्वे अपि ।
== अपौरुषेयः धर्मः ==
सनातनधर्मः अपौरुषेयः दैवप्रेरितश्च । अध्यात्मसत्यानाम् आविष्कारः पूर्वमिव अद्यत्वे अपि शक्यः अग्रे अपि शक्यः इति दृढं विश्वसिति अयं धर्मः । '''सत्यम्'''इत्येतत् अनन्तं बहुमुखञ्च वर्तते । कस्यचित् एकस्य जनस्य अनुभवेन तत् सम्पूर्णतया प्रकटितः न भवेदेव । अतः अद्यत्वे अग्रे च नूतनावृत्तयः नूतनधर्मशास्त्राणि नूतनधर्मग्रन्थाश्च सृष्टाः भवेयुः एव इति निश्चिता मतिः अस्य धर्मस्य ।
== अधारग्रन्थाः ==
सनातनधर्मः प्रामुख्येन [[वेदाः|वेदान्]] अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य '''श्रुतिः''' इति नाम प्रसिद्धम् अस्ति । इदं स्मरणीयमस्ति इत्यनेन '''स्मृतिः''' इत्यनेन सर्वव्यापकशब्देन अपि निर्दिश्यते । इदम् अपौरुषेयं दैवदत्तम् इत्यनेन अस्य उल्लङ्घनं न कर्तव्यम् इति भाव्यते ।
दैवदत्तम् इदं ज्ञानं कस्यचित् सन्ततेः कस्यचित् देशस्य कस्यचित् कालस्य परिधौ विद्यमानं न । युक्तसाधनेन यःकोपि यदा कदापि इदं ज्ञानं प्राप्तुम् अर्हति ।
=== वेदाः ===
{{Main|वेदाः}}
 
=== षड्दर्शनानि ===
{{Main|षड्दर्शनानि}}
 
=== [[स्मृतयः]] ===
===[[प्रस्थानत्रयम्]]===
== बाह्यसम्पर्कतन्तुः ==
*[http://www.ochs.org.uk/ Resources for Scholars and Students]
*[http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism by Swami Sivananda (pdf)]
पङ्क्तिः ३२:
 
[[वर्गः:हिन्दुधर्मः]]
 
{{Link FA|ru}}
 
Line ५७ ⟶ ५८:
[[ca:Hinduisme]]
[[ceb:Induwismo]]
[[ckb:ھیندووئیزمھیندوویزم]]
[[co:Induisimu]]
[[cs:Hinduismus]]
"https://sa.wikipedia.org/wiki/हिन्दूधर्मः" इत्यस्माद् प्रतिप्राप्तम्